अक्षर आकार:

सुवचनानि

suvachanAni

सुवचनानि

अतिपरिचयादवज्ञा । अतिलोभो विनाशाय । अतितृष्णा न कर्तव्या । अति सर्वत्र वर्जयेत् । अधिकस्याधिकं फलम् । अनतिक्रमणीया हि नियतिः । अल्पश्च कालो बहवश्च विघ्नाः । अलभ्यो लाभः । अव्यापारेषु व्यापारः । अहिंसा परमो धर्मः । अभद्रं भद्रं वा विधिलिखितमुन्मूलयति कः । अर्थो हि लोके पुरुषस्य बन्धुः । आकृतिर्बकस्य दृष्टिस्तु काकस्य । आये दुःखं व्यये दुःखं धिगर्थाः कष्टसंश्रयाः । इक्षुः मधुरोऽपि समूलं न भक्ष्यः । इतः कूपः ततस्तटी । इतो भ्रष्टस्ततो भ्रष्टः । ईश्वरेच्छा बलीयसी । उत्पद्यन्ते विलीयन्ते दरिद्राणां मनोरथाः । उत्सवप्रियाः खलु मनुष्याः । कण्टकेनैव कण्टकमुद्धरेत् । कर्तव्यो महदाश्रयः । कवयः किं न पश्यन्ति ? काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् । कालाय तस्मै नमः । किमिव हि मधुराणां मण्डनं नाकृतीनाम् । किमिव हि दुष्करमकरुणानाम् । किं मिष्टमन्नं खरसूकराणाम् ? क्षमया किं न सिद्ध्यति । क्लेशः फलेन हि पुनर्नवतां विधत्ते । गतं न शोच्यम् । गतानुगतिको लोकः न कश्चित् पारमार्थिकः । गहना कर्मणो गतिः । गुणाः सर्वत्र पूज्यन्ते । चक्रवत्परिवर्तन्ते दुःखानि च सुखानि च । जननी जन्मभूमिश्च स्वर्गादपि गरीयसी । जलबिन्दुनिपातेन क्रमशः पूर्यते घटः । जीवो जीवस्य जीवनम् । त्रुटितः सम्बन्धः प्रशान्तः कलहः । त्रैलोक्ये दीपकः धर्मः । दुर्लभं भारते जन्म मानुष्यं तत्र दुर्लभम् । दूरतः पर्वताः रम्याः । द्रव्येण सर्वे वशाः । धर्मो मित्रं मृतस्य । धीराः हि तरन्ति आपदम् । नास्ति सत्यसमो धर्मः । न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे । न भूतो न भविष्यति ॥ नमः शिवाय । नमो भगवते वासुदेवाय । न हि ज्ञानेन सदृशं पवित्रमिह विद्यते । न शान्तेः परमं सुखम् । निगूढेऽपि कुक्कुटे उदेत्येव अरुणः । निर्वाणदीपे किमु तैलदानम् । निरस्तपादपे देशे एरण्डोऽपि द्रुमायते । निःस्पृहस्य तृणं जगत् । न निश्चितार्थात् विरमन्ति धीराः । निर्धनस्य कुतः सुखम् । नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण । परदुःखं शीतलम् । परोपकाराथमिदं शरीरम् । परोपदेशे पाण्डित्यम् । परोपकारः पुण्याय । परोपकाराय सतां विभूतयः । पुनः पुनरपि प्रक्षाल्य कज्जलं न श्वेतायते । पिण्डे पिण्डे मतिर्भिन्ना । प्रज्ज्वालितो ज्ञानमयः प्रदीपः । प्रथमग्रासे मक्षिकापातः । पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् । बधिरात् मन्दकर्णः श्रेयान् । बहुजनहिताय बहुजनसुखाय । बहुरत्न वसुन्धरा । बालानां रोदनं बलम् । बुद्धिः कर्मानुसारिणी । बुद्धिर्यस्य बलं तस्य । भद्रं कर्णेभिः श्रुणुयाम देवाः । भवन्ति भवितव्यानां द्वाराणि सर्वत्र । भिन्नरुचिर्हि लोकः । मधु तिष्ठति जिव्हाग्रे हृदये तु हलाहलम् । मनः पूतं समाचरेत् । मनोरथानामगतिर्न विद्यते । मरणं प्रकृतिः शरीरिणाम् । महाजनो येन गतः स पन्थाः । मार्गारब्धाः सर्वयत्नाः फलन्ति । मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव । अतिथिदेवो भव । मूढः परप्रत्ययनेयबुद्धिः । मृदुर्हि परिभूयते । मौनं सर्वार्थसाधनम् । यथा बीजं तथा अङ्कुरः । यथा राजा तथा प्रजा । यद् वा तद् वा भविष्यति । यद् वा तद् वा वदति । याचको याचक्ं दृष्ट्वा श्वानवत् गुर्गुरायते । यादृशं वपते बीजं तादृशं लभते फलम् । यः क्रियावान् स पण्डितः । युद्धस्य कथा रम्या । येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत् । योजकस्तत्र दुर्लभः । राजा कालस्य कारणम् । वन्दे मातरम् । वक्ता दशसहस्रेषु । वचने का दरिद्रता ? विद्वान् सर्वत्र पूज्यते । विद्याधनं सर्वधनप्रधानम् । विनाशकाले विपरितबुद्धिः । शठं प्रति शाठ्यम् । शरीरमाद्यं खलु धर्मसाधनम् । शीलं परं भूषणम् । शुभास्ते पन्थानः । शुभं भवतु । सत्यमेव जयते न अनृतम् । सत्यं कण्ठस्य भूषणम् । सुखमुपदिश्यते परस्य । संहतिः कार्यसाधिका । स्वभावो दुरतिक्रमः ।