अक्षर आकार:

याजुषज्योतिषम्

yAjuShajyotiSham

याजुषज्योतिषम्

पंचसंवत्सरमयं युगाध्यक्षं प्रजापतिम् । दिनर्त्वयनमासांगं प्रणम्य शिरसा शुचिः ॥ १॥ ज्योतिषामयनं पुण्यं प्रवक्ष्याम्यनुपूर्वशः । विप्राणां सम्मतं लोके यज्ञकालार्थ सिद्धये ॥ २॥ वेद हि यज्ञार्थमभिप्रवृत्ताः कालानुपूर्व्या विहिताश्च यज्ञाः । तस्मादिदं कालविधानशास्त्रं यो ज्योतिषं वेद स वेद यज्ञान् ॥ ३॥ यथा शिखा मयूराणां नागानां मणयो यथा । तद्वद्वेदांगशास्त्राणां ज्यौतिषं मूर्धानि स्थितम् ॥ ४॥ ये बृहस्पतिना भुक्ता मीनात्प्रभृति राशयः । ते हृताः पंचभिर्भूता यः शेषः स परिग्रहः ॥ ०॥ माघशुक्लप्रपन्नस्य पौषकृष्णसमापिनः । युगस्य पंचवर्षस्य कालज्ञानं प्रचक्षते ॥ ५॥ स्वराक्रमेते सोमार्कौ यदा साकं सवासवौ । स्यात्तदादियुगं माघस्तपः शुक्लोऽयनं ह्युदक् ॥ ६॥ प्रपद्यते श्रविष्ठादौ सूर्याचन्द्रमसावुदक् । सार्पार्धे दक्षिणार्कस्तु माघश्रावणयोः सदा ॥ ७॥ धर्मवृद्धिरपां प्रस्थः क्षपाह्रास उदग्गतौ । दक्षिणे तौ विपर्यासः षण्मुहूर्त्ययनेन तु ॥ ८॥ प्रथमं सप्तमं चाहुरयनाद्यं त्रयोदशम् । चतुर्थं दशमं चैव द्विर्युग्मं बहुलेप्यृतौ ॥ ९॥ वसुस्त्वष्टा भवोऽजश्च मित्रः सर्पोऽश्विनौ जलम् । धाता कश्चायनाद्याः स्युरर्धपंचमभस्त्वृतुः ॥ १०॥ एकान्तरेऽह्नि मासे च पूर्वान् कृत्वादिमुत्तरः । अर्धयोः पंचवर्षाणामृदु पंचदशाष्टमौ ॥ ११॥ द्युहेयं पर्व चेत्पादे पादस्त्रिंशत्तु सैकिका । भागात्मनापवृज्यांशान् निर्दिशेदधिको यदि ॥ १२॥ निरेकं द्वादशाभ्यस्तं द्विगुणं गतसंज्ञिकम् । षष्ट्या षष्ट्या युतं द्वाभ्यां पर्वणां राशिरुच्यते ॥ १३॥ स्युः पादोऽर्धंत्रिपाद्याया त्रिद्वयेकऽह्नः कृतस्थितिम् । साम्येन्दोस्तृणोऽन्ये तु पर्वकाः पंच सम्मिताः ॥ १४॥ भांशाः स्युरष्टकाः कार्याः पक्षद्वादशकोद्गताः । एकादशगुणश्चोनः शुक्लेऽर्धं चैन्दवा यदि ॥ १५॥ नवकैरुद्गतोंशः स्यादूनः सप्तगुणो भवेत् । आवापस्त्वयुजेऽर्धं स्यात्पौलस्ये।आस्तंगतेऽपरम् ॥ १६॥ जावाद्यंशैः समं विद्यात् पूर्वार्धे पर्व सूत्तरे । भादानं स्याच्चतुर्दश्यां काष्ठानां देविना कलाः ॥ १७॥ जौ द्रा गः खे श्वे ही रो षा श्चिन्मूषक्ण्यः सूमाधाणः । रे मृ घाः स्वापोजः कृष्यो ह ज्येष्ठा इत्यृक्षा लिंगैः ॥ १८॥ कार्या भांशाष्टकास्थाने कला एकान्नविंशतिः । उनस्थाने त्रिसप्तति मुद्ववपेदूनसम्भवे ॥ १९॥ तिथिमेकादशाभ्यस्तां पर्वभांशसमन्विताम् । विभज्य भसमूहेन तिथिनक्षत्रमादिशेत् ॥ २०॥ याः पर्वाभादानकलास्तासु सप्तगुणां तिथिम् । युक्त्या तासां विजानीयात् तिथिभादानिकाः कलाः ॥ २१॥ अतीतपर्वभागेभ्यः शोधयेद् द्विगुणां तिथिम् । तेषु मण्डलभागेषु तिथिनिष्ठांगतो रविः ॥ २२॥ विषुवन्तं द्विरभ्यस्तं रूपोनं षड्गुणीकृतम् । पक्षा यदर्धं पक्षाणां तिथिः स विषुवान् स्मृतः ॥ २३॥ पलानि पंचाशदपां धृतानि तदाढकं द्रोणमतः प्रमेयम् । त्रिभिर्विहीनं कुड्वैस्तु कार्यं तन्नाडिकायास्तु भवेत् प्रमाणम् ॥ २४॥ एकादशभिरभ्यस्य पर्वाणि नवभिस्तिथिम् । युगलब्धं सपर्व स्याद् वर्तमानार्कभं क्रमात् ॥ २५॥ सूर्यर्क्षभागान् नवभिर्विभज्य शेषान् द्विरभ्यस्य दिनोपभुक्तिः । तिथेर्युता भुक्तिदिनेषु कालो योगो दिनैकादशकेन् तद्भम् ॥ २६॥ त्र्यंशो भशेषो दिवसांशभागश्चतुर्दशस्याप्यपनीय भिन्नम् । भार्धेऽधिके चाधिगते परोंऽशोद्वावुत्तमे तन्नवकैरवेत्य ॥ २७॥ त्रिंशत्यह्नां सषट्षष्टिरब्दः षट् चर्तवोऽयने । मासा द्वादश सौर्याः स्युरेतत् पंचगुणं युगम् ॥ २८॥ उदयावासवस्य स्युर्दिनराशि सपंचकः । ऋषेर्द्विषष्टिहीनः स्याद् विंशत्या चैकयास्तृणाम् ॥ २९॥ पंचत्रिंशं शतं पौष्णम् एकोनमयनोन्यृषेः । पर्वणां स्याच्चतुष्पादी काष्ठानां चैव ताः कलाः ॥ ३०॥ सावनेन्दुस्तृमासानां षष्टिः सैकद्विसप्तिका । द्युस्त्रिंशत् सावनः सार्धः सौरस्तृणां स पर्ययः ॥ ३१॥ अग्निः प्रजापतिः सोमो रुद्रोदितिबृहस्पती । सर्पाश्च पितरश्चैव भगश्चैवार्यमापि च ॥ ३२॥ सविता त्वष्टाथ वायुश्चेन्द्राग्नी मित्र एव च । इन्द्रो निॠतिरापो वै विश्वेदेवास्तथैव च ॥ ३३॥ विष्णुर्वसवो वरुणूऽजेकपात् तथैव च । अहिर्बुध्न्यस्तथा पूषा अश्विनौ यम एव च ॥ ३४॥ नक्षत्रदेवता एता एताभिर्यज्ञकर्मणि । यजमानस्य शास्त्रज्ञैर्नाम नक्षत्रजं स्मृतम् ॥ ३५॥ उग्राण्यार्द्रा च चित्रा च विशाखा श्रवणोश्वयुक् । क्रूरणि तु मघास्वाती ज्येष्टा मूलं यमस्य च ॥ ३६॥ द्यूनं द्विषष्टिभागेन ज्ञे (हे) यं सौरं सपार्वणम् । यत्कृतावुपजायेते मध्येऽन्ते चाधिमासकौ ॥ ३७॥ कला दश सविंशा स्याद् द्वे मुहुर्तस्य नाडिके । द्युस्त्रिंशत् तत्कलानां तु षट्शती त्र्यधिका भवेत् ॥ ३८॥ ससप्तमं भयुक् सोमः सूर्यो द्यूनि त्रयोदश । नवमानि तु पंचाह्नः काष्ठा पंचाक्षरा भवेत् ॥ ३९॥ यदुत्तरस्यायनतो गतं स्याच् छेषं तथा दक्षिणतोऽयनस्य । तदेकषष्ट्याद्विगुणं विभक्तं सद्वादशं स्याद् दिवसप्रमाणम् ॥ ४०॥ यदर्धं दिनभागानां सदा पर्वणि पर्वणि । ॠतुशेषं तु तद् विद्यात् संख्याय सह सर्वणाम् ॥ ४१॥ इत्युपायसमुद्देशो भूयोप्यह्नः प्रकल्पयेत् । ज्ञेयराशिं गताभ्यस्तं विभजेज्ज्ञानराशिना ॥ ४२॥ इत्येतन्मासवर्षाणां मुहूर्तोदयपर्वणाम् । दिनर्त्वयनमासांगं व्याख्यानं लगधोऽब्रवीत् ॥ ००॥ सोमसूर्यस्तृचरितं विद्वान् वेदविदश्नुते । सोमसूर्यस्तृचरितं लोकं लोके च सम्मतिम् ॥ ४३॥ ॥ इति याजुषज्योतिषं समाप्तम् ॥