अक्षर आकार:

षत्पञ्चाशिका

Shatpa~ncAshikA

षत्पञ्चाशिका

श्रीवराहमिहिरात्मजपृथुयशसा विरचिता १. अथ होराध्याय (7) २. गमागमाध्यायः (17) ३. जयपराजयोऽध्यायः (5) ४. शुभाशुभलक्षणाध्यायः (5) ५. प्रवासचिन्ताध्याय (5) ६. अथ नष्टप्राप्त्याध्याय (6) ७. अथ मिश्रकाध्याय (11) अध्याय १ अथ होराध्याय प्रणिपत्य रविं मूर्ध्रा वराहमिहिरात्मजेन पृथुयशसा । प्रश्ने कृतार्थगहना परार्थमुद्दिश्य सध्यशसा ॥ १॥ च्युतिर्विलग्राद्धिबुकाच्च वृद्धिर्मध्यात्प्रवासोऽस्तमयान्निवृत्तिः । वाच्यः ग्रहैः प्रश्नविलग्रकालादृहं प्रविष्टो हिबुके प्रवासी ॥ २॥ यो यो भावः स्वामिदृष्टो युतो वा सौम्यैर्वा स्यात्तस्य तस्यास्ति वृद्धिः । पापैरेवं तस्य भावस्य दानि निर्देष्टव्या पृच्छ्तां जन्मतो वा ॥ ३॥ सौम्ये विलग्रे यदि वास्य वर्गे शीर्षोदये सिद्धिमुपैति कार्यम् । अतो विपर्यस्तमसिद्धिहेतुः कृच्छ्नेण संसिद्धिकरं विमिश्रम् ॥ ४॥ होरास्थितः पूर्ण्यतनुः शशांको जीवेन दृष्तो यदि वा सितेन । धिप्रं प्रनष्टस्य करोति लब्धिं लाभोपय तो बलवाञ्छुभश्च ॥ ५॥ स्वांशे विलग्ने यदि वा त्रिकोणे स्वां शे स्थितः पश्यति धातुचिंताम् । परांशकस्थश्च करोति जीवं मूलं परांशोपगतः परंशम् ॥ ६॥ धातुं मूलं जीवं त्रयो जराशौ युग्मे विन्ध्यादेतदेव प्रतीपम् । लग्ने योंशस्तत्क्रमाक्षगय एव संधेपोऽयं विस्तरातत्प्रभेदः ॥ ७ ॥ इति श्रीवराहमिहिरात्मजपृथुयशोविरचितायां षत्पञ्चाशिकायां होराध्यायः प्रथमः अध्याय २ गमागमाध्यायः वृषसिंहवृश्चिकघटैर्विद्धि स्थानं गमागमौ न स्तः । न नृतं चापि नष्टं न रोगशान्तिर्न चाभिभवः ॥ १॥ तद्विपरीतं तु चरैर्द्विशरीरैर्मिश्रितं फलं भवति । लग्नेन्द्वोर्वक्तव्यं शुभदृष्ट्या शोभनमतोऽन्यत् ॥ २॥ सुतशत्रुगतैः पापैः शत्रुमार्गार्न्निवर्तते । चतुर्थगैरपि प्राप्तः शत्रुर्भग्नो निवर्तते ॥ ३॥ भ्रष्टालिकुंभकर्कटा रसातले यदा स्थितः । रिपोः पराजयस्तदाचतुष्पदैः पलायनम् ॥ ४॥ चरोदये शुभः स्थितः शुभं करोति यायिनाम् । अशोभनैरशोभनं स्थिरोदयेऽपि वा शुभम् ॥ ५॥ स्थिरे शशीचरोदये न चागमो रिपोर्यदा । तदागमं रिपोर्वद्विपर्यये विपर्ययम् ॥ ६॥ स्थिरे तु लग्नमागते द्विरात्मके तु चन्द्रमाः । निवर्तते रिपुस्तदा सुदूरमागतोऽपि सन् ॥ ७॥ चरे शशी लग्नगतो द्विदेहः पथोऽर्द्धमागत्य निवर्तते रिपुः । विप्रर्यते चागमनं द्विधा स्यात्पराजयः स्यादशुभेधिते ॥ ८॥ अर्कार्किज्ञ्सितानामेकोऽपि चरोदये यदा भवति । प्रववदेत्तदाशुगमनं वक्रगतैर्नेति वक्तव्यम् ॥ ९॥ स्थिरोदये जीवशनैश्चरेधिते गमागमौ नैव वदेत्त पृच्छ्तः । त्रिपञ्चषष्ठ रिपुसङ्गमाय पापाश्चतुर्था विनिवर्तनाय ॥ १०॥ नागच्छाति परचक्रे यदार्कचन्द्रौ चतुर्थभवनस्थौ बुधगुरुशुक्रा हिबुके यदा शीघ्रमायाति ॥ ११॥ मेषधनुः सिंहवववृषा यत्युदयस्था भवन्ति हिबुके वा । शत्रुर्निवर्तति तदा ग्रहसहिता वा वियुक्ता वा ॥ १२॥ स्थिरराशौ यद्युदये शनिगुरुर्वा स्थितस्तदा शत्रुः । उदये रविर्गुरुर्वा चरराशौ स्यात्तदागमनम् ॥ १३॥ ग्रहः सर्वोत्तमबलो लग्नद्यस्मिन् गृहे स्थितः । मासैस्तत्तुल्यसंख्याकैर्निवृत्तिं यातुरादिशेत् ॥ १४॥ चरांशस्थे ग्रहे तस्मिन् कालमेवा विनिर्दिशेत् । द्विगुणं स्थिरभागस्थे त्रिगुणं ह्यात्मकांशके ॥ १५॥ यातुर्विलग्नाज्जामित्रभवनाधिपतिर्यदा । करोति वक्रमावृतेः कालान्तं ब्रुवते परे ॥ १६॥ उदयर्क्षच्चन्द्रर्क्षं भवति च यावादिनानि तावद्भिः । आगमनं स्याच्छन्नोर्यदि मध्ये न ग्रहः कश्चित् ॥ १७॥ इति वराहमिहिरात्मजपृथुयशोविरचितायां षत्पञ्चाशिकायां गमागमाध्यायो द्वितीयः आध्याय ३ जयपराजयोऽध्यायः दशमोदयसप्तमगाः सौम्या नगराधिपस्य विजयकराः । आरार्कि ग़्यगुरुसिताः प्रभङ्गदौ विजयदा नवमे ॥ १॥ १ पौरास्तृतीयभवनाद्धर्मद्वा यायिनः शुभेः शुभदाः । व्ययदशमाये पापाः पुरस्य नेष्टाः शुभा याभा यातुः ॥ २॥ नृराशिसंस्था ह्युदये शुभाः स्युर्व्ययायसंस्थाश्च यदा भवन्ति । तदाशु सन्धिं प्रवदेन्नृपाणां पापैर्द्विदेहहोपगतैर्विरोधम् ॥ ३॥ केन्द्रोपगताः सौम्याः सौम्यैर्दृष्टा नृलग्नगाः प्रीतिम् । कुर्वान्ति पापदृष्टाः पापास्तेष्वेव विपरीतम् ॥ ४॥ द्वितीये वा तृतीये वा गुरुशुक्रौ यदा तदा । अश्वेवागच्छते सेना प्रवासो च न संशयः ॥ ५॥ इति वराहमिहिरात्मजपृथुयशोविरचितायां षत्पञ्चाशिकायां जयपराजयो नाम तृतीयोऽध्यायः अध्याय ४ शुभाशुभलक्षणाध्यायः केन्द्रत्रिकोणेषु शुभस्थितेषु पापेषु केन्द्राष्टमवर्जितेषु । सर्वार्थसिद्धिं प्रवदेन्नराणां विपर्यवस्थेषु विपर्ययः स्यात् ॥ १॥ त्रिपञ्चलाभस्तमयेषु सौम्या लाभप्रदा नेष्टफलश्च पापाः । तुलाथ कन्या मिथुनं घटश्च नृराशयस्तेषु शुभं वदन्ति ॥ २॥ स्थानप्रदा दशमसप्तमगाश्च सौम्या पानार्थदाः स्वसुतलग्नगता भवन्ति । पापा व्ययायसहिताः स्युर्लग्ने शशी न शुभदो दशमे शुभश्च ॥ ३॥ इन्दुं द्विसप्तदशमायरिपुत्रिसंस्थ पश्येद्रुरुः शुभफलं प्रमादकृतं स्यात् । लग्नत्रिधर्मसुतनैर्धनगाश्च पापाः कार्यार्थनाशभयदा शुभद शुभश्च ॥ ४॥ शुभग्रहाः सौम्यनिरोधिताश्च विलग्नसप्ताष्टमञ्चमस्थः । त्रिषट्दशाये च निशाकरः स्याच्छुभं भवेद्रोगनिपीडितानाम् ॥ ५॥ इति वराहमिहिरात्मजपृथुयशोविरचितायां षत्पञ्चाशिकायां चतुर्थोऽध्यायः अध्याय ५ प्रवासचिन्ताध्याय दुरगतस्यागमनं सुतधनसहजस्थितैर्ग्रहैर्लग्नात् । सौम्यैर्नष्टप्राप्तिं लघ्वागमन गुरुलिताभ्याम् ॥ १॥ जामित्रे त्वथवा षष्ठे ग्रहः केन्द्रेऽथ वाक्पतिः । प्रोषितागमनं विद्यात् त्रिकोणे ग़्ये सितेऽपि वा ॥ २॥ अष्टमस्थे निशानाथे कराटकै पायवर्जितैः । प्रवासी सुखमायाति सौम्यैर्लाभसमवितः ॥ ३॥ पृष्ठोदये पापस्तृतीये रिपुकेन्द्रगे वा । सौम्यैरदृष्टा वधबन्धदाः स्युर्नष्टा मुषिताश्च वाच्याः ॥ ४॥ ग्रहो विलग्नाद्यतमे गृहे तु तेनाहता द्वादश राशयः स्युः । तावद्दिनान्यागमनस्य विद्यानिवर्त्तनं वक्रगतैर्ग्रहैर्स्तु ॥ ५॥ इति वराहमिहिरात्मजपृथुयशोविरचितायां षत्पञ्चाशिकायां प्रवासचिन्ताध्यायः पञ्चमः अध्याय ६ अथ नष्टप्राप्त्याध्याय स्थिरोदये स्थिरांशे वा वर्गोत्तमगतेऽपि वा । स्थित तत्रैव तद्द्रव्यं स्वकियेनैव चोरितम् ॥ १॥ आदिमध्यावसानेषु द्रेक्काणेषु विलग्नतः । द्वारदेशे तथा मध्ये गृहन्ते च वदेद्धनम् ॥ २॥ पूर्णः शशी लग्नगतः शुभो वा शीर्षोदये सौम्यनिरीधितश्च । तष्टस्य लाभ कुरुते तदाशु लाभोदयातो बलवाञ्छ्यभश्च ॥ ३॥ दिग्वाच्या केन्द्रगतैरसंभवे वा वदेद्विलग्नर्धात् । मध्याच्च्युतैर्विलग्नान्नवांशैकर्योजना वाच्या ॥ ४॥ अंशकाज्ज्ञायते द्रव्यं द्रेष्काणैस्तस्कराः स्मृताः । राशिभ्यः कालदिग्देशा वयो जातिश्च लग्नपात् ॥ ५॥ इति वराहमिहिरात्मजपृथुयशोविरचितायां षत्पञ्चाशिकायां नष्टप्राप्त्याध्याय षष्ठः अध्याय ७ अथ मिश्रकाध्याय विषमस्थितेऽर्कपुत्रे सुतस्य जन्मान्यथाङ्गनायश्च । लभ्या वरस्य नरी समस्थितेऽतोऽन्यथा वामन् ॥ १॥ गुरुराविसौम्यैर्दृष्टस्त्रिसुतमदायारिगः शशी लग्नात् । भवति च विवाहकर्ता त्रिकोणकेन्द्रेषु वा सौम्याः ॥ २॥ चन्द्रार्कयोः सप्तमगौ सितार्की सुखेऽष्टमे वापि तथा विलग्नात् । द्वितीयदुश्चिक्यगतौ तथा च वर्षसु वृष्टिं प्रवदेन्नराणम् ॥ ३॥ सौम्या जलराशिस्थास्तृतीयधनकेन्द्रगाः सिते पधे । चन्द्रे वाप्युदयगते जलराशिस्थे वदेद्वर्षम् ॥ ४॥ पुंवर्गे लग्नगते पुंग्रहदृष्टे बलन्विते पुरुषः । युग्मे स्त्रीग्रहदृष्टे स्त्रीबुधयुक्ते तु गर्भयुता ॥ ५॥ कुमारिकां बालशशी बुधश्च वृद्धां शनीः सूर्यगुरू प्रसूताम् । स्त्रीं कर्कशां भौमसितौ विघत्त एवं वयः स्यात्पुरुषेषु चैवम् ॥ ६॥ आत्मसमंलग्नगतैर्भ्राता सहजस्थितैः सुता सुतगैः । माता वा भागिनी वा चतुर्थगैः शत्रुगै शत्रुः ॥ ७॥ भार्या सप्तमसंस्थैर्नवमे धर्माश्रितो गुरुदशमे । स्वांशपतिमित्रशत्रुषु तथैव वाच्यं बलयुतेषु ॥ ८॥ चरलग्ने चरभागे मध्याद्भ्रष्टे प्रवासाचिन्ता स्यात् । भ्रष्टः सप्तमभवनात्पुर्ननिवृत्तो यदि व वक्री ॥ ९॥ अस्ते राविसितवक्रैः परजायां स्वां गुरौ बुधे वेश्याम् । चन्द्रे च वयः शशिवत्प्रवदेत्सौरेऽशुभैर्युतदृष्टः ॥ १०॥ मन्दः पपसमेतो लग्नन्नवमे अशुभैर्युतदृष्टः । रोगार्तः परदेशे चाष्टमगो मृत्युकर एव ॥ ११॥ सौम्ययुतोऽर्कः सौम्यैः सन्दृष्टश्चाष्टमर्धसंस्थश्च तस्माद्देशादन्यं गतः स वाच्यः पिता तस्य ॥ १२॥ इति वराहमिहिरात्मजपृथुयशोविरचितायां षत्पञ्चाशिकायां मिश्रकाध्यायः सप्तमः षत्पञ्चाशिका समाप्ता