अक्षर आकार:

आर्चज्योतिषम्

ArchajyotiSham

आर्चज्योतिषम्

पंचसंवत्सरमयं युगाध्यक्षं प्रजापतिम् । दिनर्त्वयनमासांगं प्रणम्य शिरसा शुचिः ॥ १॥ प्रणम्य शिरसा कालमभिवद्य सरस्वतीम् । कालज्ञानं प्रवक्ष्यामि लगधस्य महात्मनः ॥ २॥ ज्योतिषामयनं पुण्यं प्रवक्ष्याम्यनुपूर्वशः । विप्राणां सम्मतं लोके यज्ञकालार्थ सिद्धये ॥ ३॥ निरेकं द्वादशाभ्यस्तं द्विगुणं गतसंज्ञिकम् । षष्ट्या षष्ट्या युतं द्वाभ्यां पर्वणां राशिरुच्यते ॥ ४॥ स्वराक्रमेते सोमार्कौ यदा साकं सवासवौ । स्यात्तदादियुगं माघस्तपः शुक्लोऽयनं ह्युदक् ॥ ५॥ प्रपद्यते श्रविष्ठादौ सूर्याचन्द्रमसावुदक् । सार्पार्धे दक्षिणार्कस्तु माघश्रावणयोः सदा ॥ ६॥ धर्मवृद्धिरपां प्रस्थः क्षपाह्रास उदग्गतौ । दक्षिणे तौ विपर्यासः षण्मुहूर्त्ययनेन तु ॥ ७॥ द्विगुणं सप्तमं चाहुरयनाद्यं त्रयोदश । चतुर्थं दशमं चैव द्विर्युग्मं बहुलेप्यृतौ ॥ ८॥ वसुस्त्वष्टा भवोऽजश्च मित्रः सर्पोऽश्विनौ जलम् । धाता कश्चायनाद्याः स्युरर्धपंचमभस्त्वृतुः ॥ ९॥ भांशाः स्युरष्टकाः कार्याः पक्षा द्वादशकोद्गताः । एकादशगुणश्चोनः शुक्लेऽर्धं चैन्दवा यदि ॥ १०॥ कार्या भांशाष्टकास्थाने कला एकान्नविंशतिः । उनस्थाने त्रिसप्ततिमुद्ववपेदूनसम्मिताः ॥ ११॥ त्र्यंशो भशेषो दिवसांशभागश्चतुर्दशस्याप्यपनीय भिन्नम् । भार्धेऽधिके चाधिगते परेंऽशेद्यावुक्तमेकं नवकैर्भवेद्यः ॥ १२॥ पक्षात्पंचदशाच्चोर्ध्वं तद्भुक्तमिति निर्दिशेत् । नवभिस्तूद्गतोंऽशः स्यादूनांशद्वयधिकेन तु ॥ १३॥ जौ द्रा गः खे श्वे ही रो षा श्चिन्मूषक्ण्यः सूमाधाणः । रे मृ घाः स्वापोजः कृष्यो ह ज्येष्ठा इत्यृक्षा लिंगैः ॥ १४॥ जावाद्यशैः समं विद्यात् पूर्वार्धे पर्व सूत्तरे । भादानं स्याच्चतुर्दश्यां काष्ठानां देविना कलाः ॥ १५॥ कला दश सविंशा स्याद् द्वे मुहुर्तस्य नाडिके । द्युस्त्रिंशंत् तत्कलानां तु षट्शती त्र्यधिका भवेत् ॥ १६॥ नाडिके द्वे मुहुर्तस्तु पंचाशत्पलमाढकम् । आढाकात्कुम्भाकोद्रोणः कुटपैर्वर्धते त्रिभिः ॥ १७॥ ससप्तकं भयुक् सोमः सूर्यो द्यूनि त्रयोदश । नवमानि च पंचाह्नः काष्ठाः पंचाक्षरा भवेत् ॥ १८॥ श्रविष्ठाभ्यो गणाभ्यस्तान् प्राग्विलग्नान् विनिर्दिशेत् । स्तर्यान् मासान् षडभ्यस्तान् विद्याच्चान्द्रमसानृतून ॥ १९॥ अतीतपर्वभागेभ्यः शोधयेद् द्विगुणां तिथिम् । तेषु मंडलभागेषु तिथिनिष्ठांगतो रविः ॥ २०॥ याः पर्वाभादानकलास्तासु सप्तगुणां तिथिम् । पक्षिपेत्तत् समूहस्तु विद्यादादानिकाः कलाः ॥ २१॥ यदुत्तरस्यायनतो गतं स्याच् छेषं तथा दक्षिणतोऽयनस्य । तदेकषष्ट्याद्विगुणं विभक्तं सद्वादशं स्याद् दिवसप्रमाणम् ॥ २२॥ यदर्धं दिनभागानां सदा पर्वणि पर्वणि । ॠतुशेषं तु तद् विद्यात् संख्याय सह पर्वणाम् ॥ २३॥ इत्युपायसमुद्देशो भूयोप्यह्नः प्रकल्पयेत् । ज्ञेयराशिं गताभ्यस्तं विभजेज्ज्ञानराशिना ॥ २४॥ अग्निः प्रजापतिः सोमो रुद्रोदितिबृहस्पती । सर्पाश्च पितरश्चैव भगश्चैवार्यमापि च ॥ २५॥ सविता त्वष्टाथ वायुश्चेन्द्राग्नी मित्र एव च । इन्द्रो निॠतिरापो वै विश्वेदेवास्तथैव च ॥ २६॥ विष्णुर्वसवो वरुणूऽजेकपात् तथैव च । अहिर्बुध्न्यस्तथा पूषा अश्विनौ यम एव च ॥ २७॥ नक्षत्रदेवता एता एताभिर्यज्ञकर्मणि । यजमानस्य शास्त्रज्ञैर्नाम नक्षत्रजं स्मृतम् ॥ २८॥ इत्येवं मासवर्षाणां मुहुर्तोदयपर्वणाम् । दिनर्त्वयनमासांगं व्याख्यानं लगधोऽब्रवीत् ॥ २९॥ सोमसूर्यस्तृचरितं विद्वान् वेदविदश्नुते । सोमसूर्यस्तृचरितं लोकं लोके च सम्मतिम् ॥ ३०॥ विषुवं तद्गुणं द्वाभ्यां रूपहीनं तु षड्गुणम् । यल्लब्धं तानि पर्वाणि तथार्धं सा तिथिर्भवेत् ॥ ३१॥ माघशुक्लप्रपन्नस्य पौषकृष्णसमापिनः । युगस्य पंचवर्षस्य कालज्ञानं प्रचक्षते ॥ ३२॥ तृतीयां नवमीं चैव पौर्णमासीमथासिते । षष्ठि च विषुवान् प्रोक्तो द्वादशीं च समं भवेत् ॥ ३३॥ चतुर्दशीमुपवसथस्तथा भवेद्यथोदितो दिवसमुपैति चन्द्रमाः । मघशुक्लाह्निको भुङ्क्ते श्रविष्ठायां च वार्षिकीम् ॥ ३४॥ यथा शिखा मयूराणां नागानां मणयो यथा । तद्वद्वेदांगशास्त्राणां ज्यौतिषं मूर्धानि स्थितम् ॥ ३५॥ वेद हि यज्ञार्थमभिप्रवृत्ताः कालानुपूर्व्या विहिताश्च यज्ञाः । तस्मादिदं कालविधानशास्त्रं यो ज्योतिषं वेद स वेद यज्ञान् ॥ ३६॥ ॥ इति आर्चज्योतिषं समाप्तम् ॥