अक्षर आकार:

स्वरूपानुसन्धानाष्टकम् विज्ञाननौका च

Svarupanusandhanashtakam or Vijnananauka

स्वरूपानुसन्धानाष्टकम् विज्ञाननौका च

तपोयज्ञदानादिभिः शुद्धबुद्धि- र्विरक्तो नृपादेः पदे तुच्छबुद्ध्या । परित्यज्य सर्वं यदाप्नोति तत्त्वं परं ब्रह्म नित्यं तदेवाहमस्मि ॥ १॥ दयालुं गुरुं ब्रह्मनिष्ठं प्रशान्तं समाराध्य मत्या विचार्य स्वरूपम् । यदाप्नोति तत्त्वं निदिध्यास विद्वान्- परं ब्रह्म नित्यं तदेवाहमस्मि ॥ २॥ यदानन्दरूपं प्रकाशस्वरूपं निरस्तप्रपञ्चं परिच्छेदहीनम् । अहम्ब्रह्मवृत्त्यैकगम्यं तुरीयं परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ३॥ यदज्ञानतो भाति विश्वं समस्तं विनष्टं च सद्यो यदात्मप्रबोधे । मनोवागतीतं विशुद्धं विमुक्तं परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ४॥ निषेधे कृते नेति नेतीति वाक्यैः समाधिस्थितानां यदाभाति पूर्णम् । अवस्थात्रयातीतमद्वैतमेकं परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ५॥ यदानन्दलेशैः समानन्दि विश्वं यदाभाति सत्त्वे तदाभाति सर्वम् । यदालोकने रूपमन्यत्समस्तं परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ६॥ अनन्तं विभुं निर्विकल्पं निरीहं शिवं सङ्गहीनं यदोङ्कारगम्यम् । निराकारमत्युज्ज्वलं मृत्युहीनं परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ७॥ यदानन्द सिन्धौ निमग्नः पुमान्स्या- दविद्याविलासः समस्तप्रपञ्चः । तदा नः स्फुरत्यद्भुतं यन्निमित्तं परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ८॥ स्वरूपानुसन्धानरूपां स्तुतिं यः पठेदादराद्भक्तिभावो मनुष्यः । श्रुणोतीह वा नित्यमुद्युक्तचित्तो भवेद्विष्णुरत्रैव वेदप्रमाणात् ॥ ९॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ स्वरूपानुसन्धानाष्टकम् सम्पूर्णम् ॥ आभाति = shines आचार्यस्य = Teacher's आदराद् = with respect आदिभिः = and other deeds आलोकने = seeing आनन्द = bliss आप्नोति = obtains आत्म = soul अद्भुतं = wondrous अद्वैतम् = non-dual अहम् = I अज्ञानतो = by ignorance अनन्तं = infinite अनुसन्धान = communion अन्यत् = other अष्टकम् = 8 verses अस्मि = .. 1.. am अतीतं = transcending अत्र = here अत्य् = exceedingly अवस्था = state अविद्या = ignorance भाति = shines भावो = mood भगवत् = endowed with Lordly powers भक्ति = devotion भवेद् = becomes ब्रह्म = Spirit ब्रह्मनिष्ठं = devoted to Truth/Spirit बुद्धि = intellect बुद्ध्या = . discrimination च = and छङ्कर = Shankara चित्तो = heart दान = donation दयालुं = compassionate एकगम्यं = aiming for the One एकं = one alone एव = only एव = itself गम्यम् = . realising गोविन्द = Govinda गुरुं = Teacher हीनं = without हीनं = less इह = here इति = thus कृतौ = composed कृते = having done लेशैः = a fraction मनो = mind मनुष्यः = . human मत्या = mind मृत्यु = death नः = to us नेति = neti 'not this, not this' निदिध्यास = constant contemplation निमग्नः = steeped निमित्तं = occasion निराकारम् = formless निरस्त = given to penance निरीहं = desireless निर्विकल्पं = beyond thought निषेधे = negating नित्यं = eternal नृपादेः = kings and others ओङ्कार = OM पदे = feet परं = supreme परमहंस = supremely discriminating परिच्छेद = separation परित्यज्य = giving up परिव्राजक = itinerant पठेद् = studies प्रबोधे = . enlightened प्रकाश = illumined प्रमाणात् = .. 9.. authority प्रपञ्चः = . manifest world प्रशान्तं = serene पुमान् = human पूज्य = worshipful पूर्णम् = . perfect रूपां = form सङ्ग = attachment सद्यो = immediately समाधि = deep absorption समानन्दि = blissful समाराध्य = tranquil समस्त = all समस्तं = everything सम्पूर्णम् = .. ends सर्वं = all सत्त्वे = in essence शिष्यस्य = disciples शिवं = auspicious श्री = glorious श्रुणोति = listens शुद्ध = pure सिन्धौ = ocean स्फुरत्य् = inspires स्थितानां = attained स्तुतिं = praise स्वरूप = one's essence स्वरूपम् = . one's essential nature स्याद् = if it be तद् = that तदा = then तपो = [tapaH] austerity तत् = that तत्त्वं = essence त्रय = three तुच्छ = trifling तुरीयं = the fourth state उद्युक्त = motivated उज्ज्वलं = bright वा = or वाग् = speech वाक्यैः = phrases वेद = Veda विभुं = glories विचार्य = asking विद्वान् = wise विलासः = play विमुक्तं = liberated विनष्टं = vanishing विरक्तः = dispassionate विष्णुर् = all pervading विशुद्धं = pure विश्वं = world वृत्त्या = mental attitude यः = who यज्ञ = sacrifice यन् = that यत् = that