अक्षर आकार:

श्रीमत् शङ्कराचार्याष्टोत्तरसहस्रनामावलिः

Shrimat Shankaracharya Ashtottarasahasranamavalih

श्रीमत् शङ्कराचार्याष्टोत्तरसहस्रनामावलिः

ॐ गाढध्वान्तनिमज्जनप्रमुषितप्रज्ञानेत्रं परम् नष्टप्रायमपास्तसर्वकरणं श्वासावशेषं जनम् । द्राक्कारुण्यवशात्प्रबोधयति यो बोधांशुभिः प्राम्शुभिः सोऽयं शङ्करदेशिकेन्द्रसविताऽस्माकं परं दैवतम् ॥ अद्वैतेन्दुकलावतम्सरुचिरो विज्ञानगङ्गाधरो हस्ताब्जाधृत दण्ड खण्ड परशू रुद्राक्षभूषोज्वलः । काषायामलकृत्तिवाससुभगः सम्सारमृत्युञ्जयो द्वैताख्योग्रहलाहलाशनपटुः श्रीशङ्करः पातु नः ॥ गुरवे सर्वलोकानां भिषजे भवरोगिणाम् । निधये सर्वविद्यानां दक्षिणामूर्तये नमः ॥ जयतु जयतु नित्यं शङ्कराचार्यवर्यो जयतु जयतु तस्याद्वैतविद्यानवद्या । जयतु जयतु लोके तच्चरित्रं पवित्रं जयतु जयतु भक्तिस्तत्पदाब्जे जनानाम् ॥ ॐ श्री श्रीमत्कैलासनिलयाय नमः । ॐ पार्वतीप्राणवल्लभाय नमः । ॐ ब्रह्मादिसुरसम्पूज्याय नमः । ॐ भक्तत्राणपरायणाय नमः । ॐ बौद्धाक्रान्तमहीत्राणासक्तहृदे नमः । ॐ सुरसंस्तुताय नमः । ॐ कर्मकाण्डाविष्करणदक्षस्कन्दानुमोदकाय नमः । ॐ नरदेहादृतमतये नमः । ॐ संचोदितसुरावलये नमः । ॐ तिष्याब्धत्रिकसाहस्रपरतो लब्धभूतलाय नमः ॥१०॥ ॐ कालटीक्षेत्रनिवसदार्याम्बागर्भसंश्रयाय नमः । ॐ शिवादिगुरुवंशाब्धिराकापूर्णसुधाकराय नमः । ॐ शिवगुर्वात्मजाय नमः । ॐ श्रीमते नमः । ॐ सच्छिवांशावतारकाय नमः । ॐ पितृदत्तान्वर्थभूतशङ्कराख्यसमुज्वलाय नमः । ॐ ईश्वराब्धवसन्तर्तुराधाशुक्लसमुद्भवाय नमः । ॐ आर्द्रानक्षत्रसंयुक्तपञ्चमीभानुसंजनये नमः । ॐ विद्याधिराजसत्पौत्राय नमः । ॐ विद्वन्मानसहर्षदाय नमः ॥२०॥ ॐ प्रथमाब्धसमभ्यस्ताशेषभाषालिपिक्रमाय नमः । ॐ वत्सरत्रितयादर्वाग्जनकावाप्तमुण्डनाय नमः । ॐ तृतीयवत्सरप्राप्ततातविश्लेषकर्दमाय नमः । ॐ मातृशोकापहारिणे नमः । ॐ मातृशुश्रूषणादराय नमः । ॐ मातृदेवाय नमः । ॐ मातृगुरवे नमः । ॐ मातृताताय नमः । ॐ बाललीलादर्शनोत्थहर्षपूरितमातृकाय नमः । ॐ सनाभिजनतो मात्राकारितद्विजसंस्कृतये नमः ॥३०॥ ॐ विद्यागुरुकुलावासाय नमः । ॐ गुरुसेवापरायणाय नमः । ॐ त्रिपुण्ड्रविलसद्भालाय नमः । ॐ धृतमौञ्जीमृगाजिनाय नमः । ॐ पालाशदण्डपाणये नमः । ॐ पीतकौपीनवासिताय नमः । ॐ बिसतन्तुसदृक्षाग्र्यसूत्रशोभितकंधराय नमः । ॐ संध्याग्निसेवानिरताय नमः । ॐ नियमाध्यायतत्पराय नमः । ॐ भैक्ष्याशिने नमः ॥४०॥ ॐ परमानन्दाय नमः । ॐ सदा सर्वानन्दकराय नमः । ॐ द्वित्रिमासाभ्यस्तविद्यासमानीकृतदेशिकाय नमः । ॐ अभ्यस्तवेदवेदाङ्गाय नमः । ॐ निखिलागपारगाय नमः । ॐ दरिद्रब्राह्मणीदत्तभिक्षामलकतोषिताय नमः । ॐ निर्भाग्यब्राह्मणीवाक्यश्रवणाकुलमानसाय नमः । ॐ द्विजदारिद्र्यविश्रांतिवाञ्छासंस्मृतभार्गवये नमः । ॐ स्वर्णधारास्तुतिप्रीतरमानुग्रहभाजनाय नमः । ॐ स्वर्णामलकसद्वृष्टिप्रसादानन्दितद्विजाय नमः ॥५०॥ ॐ तर्कशास्त्रविशारदाय नमः । ॐ सांख्यशास्त्रविशारदाय नमः । ॐ पातञ्जलनयाभिज्ञाय नमः । ॐ भाट्टघट्टार्थतत्वविदे नमः । ॐ सम्पूर्णविद्याय नमः । ॐ सश्रीकाय नमः । ॐ दत्तदेशिकदक्षिणाय नमः । ॐ मातृसेवनसंसक्ताय नमः । ॐ स्ववेश्मनिलयाय नमः । ॐ सरिद्वर्तातपविश्रांतमातृदुःखापनोदकाय नमः । ॐ वीजनाद्युपचाराप्तमातृसौख्यसुखोदयाय नमः । ॐ सरिद्वेश्मोपसदनस्तुतिनन्दितनिमज्ञाय नमः ॥६०॥ ॐ पूर्णादत्तवरोल्लासिगृहान्तिकसरिद्वराय नमः । ॐ आनन्दाश्चर्यभरितचित्तमातृप्रसादभुवे नमः । ॐ केरलाधिपसत्पुत्रवरदानसुरद्रुमाय नमः । ॐ केरलाधीशरचितनाटकत्रयतोषिताय नमः । ॐ राजोपनीतसौवर्णतुच्छीकृतमहामतये नमः । ॐ स्वनिकेतसमायातदधीच्यत्र्यादिपूजकाय नमः । ॐ आत्मतत्वविचारेण नन्दितातिथिमण्डलाय नमः । ॐ कुम्भोद्भवज्ञातवृत्तशोकविह्वलमातृकाय नमः ॥७०॥ ॐ सुतत्वबोधानुनयमातृचिन्तापनोदकृते नमः । ॐ तुच्छसंसारविद्वेष्ट्रे नमः । ॐ सत्यदर्शनलालसाय नमः । ॐ तुर्याश्रमासक्तमतये नमः । ॐ मातृशासनपालकाय नमः । ॐ पूर्णानदीस्नानवेळा नक्रग्रस्तपदाम्बुजाय नमः । ॐ सुतवात्सल्यशोकार्तजननीदत्त शासनाय नमः । ॐ प्रैषोच्चारसंत्यक्तनक्रपीडाय नमः । ॐ जितेन्द्रियाय नमः ॥८०॥ ॐ जननीपादपाथोजरजःपूतकलेवराय नमः । ॐ गुरूपसदानाकाङ्क्षिणे नमः । ॐ अर्थिताम्बानुशासनाय नमः । ॐ प्रतिज्ञातप्रसूदेहसंस्कारौजस्विसत्तमाय नमः । ॐ चिन्तनामात्रसानिध्यबोधनाश्वासिताम्बकाय नमः । ॐ सनाभिजनविन्यस्तमातृकाय नमः । ॐ ममतापहृते नमः । ॐ लब्धमात्राशीर्वचस्काय नमः । ॐ मातृगेहाद्विनिर्गताय नमः । ॐ सरित्तरङ्गसंत्रासानङ्गवाणीविबोधिताय नमः ॥९०॥ ॐ स्वभुजोद्धृतगोपालमूर्तिपीडापहारकाय नमः । ॐ ईतिबाधाविनिर्मुक्तदेशाधिष्ठितमूर्तिकाय नमः । ॐ गोविन्दभगवत्पाददर्शनोद्यतमानसाय नमः । ॐ अतिक्रान्तमहामार्गाय नमः । ॐ नर्मदातटसंश्रिताय नमः । ॐ त्वङ्गत्तरङ्गसन्दोहरेवास्नायिने नमः । ॐ धृताम्बराय नमः । ॐ भस्मोद्धूलितसर्वाङ्गाय नमः । ॐ कृतसायह्निकक्रियाय नमः । ॐ गोविन्दार्यगुहान्वेषतत्पराय नमः ॥१००॥ ॐ गुरुभक्तिमते नमः । ॐ गुहादर्शनसंजातहर्षपूर्णाश्रुलोचनाय नमः । ॐ प्रदक्षिणीकृतगुहाय नमः । ॐ द्वारन्यस्तनिजाङ्गकाय नमः । ॐ बद्धमूर्धाञ्जलिपुटाय नमः । ॐ स्तवतोषितदेशिकाय नमः । ॐ विज्ञापितस्वात्मवृत्ताय नमः । ॐ अर्थितब्रह्मदर्शनाय नमः । ॐ स्तवप्रीतगुरुन्यस्तपादचुम्बितमस्तकाय नमः । ॐ आर्यपादमुखावाप्तमहावाक्यचतुष्टयाय नमः ॥११०॥ ॐ आचार्यबोधितात्मार्थाय नमः । ॐ आचार्यप्रीतिदायकाय नमः । ॐ गोविन्दभगवत्पादपाणिपङ्कजसंभवाय नमः । ॐ निश्चिन्ताय नमः । ॐ नियताहाराय नमः । ॐ आत्मतत्वानुचिन्तकाय नमः । ॐ प्रावृत्कालिकमार्गस्थप्राणिहिंसाभयार्दिताय नमः । ॐ आचार्याङ्घ्रिकृतावासाय नमः । ॐ आचार्याज्ञानुपालकाय नमः । ॐ पञ्चाहोरात्रवर्षाम्बुमज्जज्जनभयापहृते नमः ॥१२०॥ ॐ योगसिद्धिगृहीतेन्दुभवापूरकमण्डलाय नमः । ॐ व्युत्थितार्यश्रुतिचरस्ववृत्तपरितोषिताय नमः । ॐ व्याससूक्तिप्रत्यभिज्ञाबोधितात्मप्रशंसनाय नमः । ॐ देशिकादेशवशगाय नमः । ॐ सूत्रव्याकृतिकौतुकिने नमः । ॐ गुर्वनुज्ञातविश्वेशदिदृक्षागमनोत्सुकाय नमः । ॐ अवाप्तचन्द्रमौळीशनगराय नमः । ॐ भक्तिसंयुताय नमः । ॐ लसद्दण्डकराय नमः । ॐ मुण्डिने नमः ॥१३०॥ ॐ धृतकुण्डाय नमः । ॐ धृतव्रताय नमः । ॐ लज्जावरककौपीनकंथाच्छादितविग्रहाय नमः । ॐ स्वीकृताम्बुपवित्राय नमः । ॐ पादुकालसदङ्घ्रिकाय नमः । ॐ गङ्गावारिकृतस्नानाय नमः । ॐ प्रसन्नहृदयाम्बुजाय नमः । ॐ अभिषिक्तपुरारातये नमः । ॐ बिल्वतोषितविश्वपाय नमः । ॐ हृद्यपद्यावलीप्रीतविश्वेशाय नमः ॥१४०॥ ॐ नतविग्रहाय नमः । ॐ गन्ङ्गापथिकचण्डालविदूरगमनोत्सुकाय नमः । ॐ देहात्मभ्रमनिर्हारिचण्डालवचनादृताय नमः । ॐ चण्डालाकारविश्वेशप्रश्नानुप्रश्नहर्षिताय नमः । ॐ मनीषापञ्चकस्तोत्रनिर्माणनिपुणाय नमः । ॐ महते नमः । ॐ निजरूपसमायुक्तचन्द्रचूडालदर्शकाय नमः । ॐ तद्दर्शनसमाह्लादनिर्वृतात्मने नमः । ॐ निरामयाय नमः । ॐ निराकाराय नमः ॥१५०॥ ॐ निरातङ्काय नमः । ॐ निर्ममाय नमः । ॐ निर्गुणाय नमः । ॐ विभवे नमः । ॐ नित्यतृप्ताय नमः । ॐ निजानन्दाय नमः । ॐ निरावरणाय नमः । ॐ ईश्वराय नमः । ॐ नित्यशुद्धाय नमः । ॐ नित्यबुद्धाय नमः ॥१६०॥ ॐ नित्यबोधघनात्मकाय नमः । ॐ ईशप्रसादभरिताय नमः । ॐ ईश्वराराधनोत्सुकाय नमः । ॐ वेदान्तसूत्रसद्भाष्यकरणप्रेरिताय नमः । ॐ प्रभवे नमः । ॐ इश्वराज्ञानुसरणपरिनिश्चितमानसाय नमः । ॐ ईशान्तर्धानसंदर्शिने नमः । ॐ विस्मयस्फरितेक्षणाय नमः । ॐ जाह्नवीतटिनीस्नानपवित्रतरमूर्तिकाय नमः । ॐ आह्निकानन्तध्यातगुरुपादसरोरुहाय नमः ॥१७०॥ ॐ श्रुतियुक्तिस्वानुभूतिसामरस्यविचारणाय नमः । ॐ लोकानुग्रहणैकान्तप्रवणस्वान्तसंयुताय नमः । ॐ विश्वेशानुग्रहावाप्तभाष्यग्रथननैपुणाय नमः । ॐ त्यक्तकाशीपुरीवासाय नमः । ॐ बदर्याश्रमचिन्तकाय नमः । ॐ तत्रत्यमुनिसन्दोहसंभाषणसुनिर्वृताय नमः । ॐ नानातीर्थकृतस्नानाय नमः । ॐ मार्गगामिने नमः । ॐ मनोहराय नमः । ॐ बदर्याश्रमसंदर्शनानन्दोद्रेकसंयुताय नमः ॥१८०॥ ॐ करबिल्वीफलीभूतपरमाद्वैततत्वकाय नमः । ॐ उन्मत्तकजगन्मोहनिवारणविचक्षणाय नमः । ॐ प्रसन्नगम्भीरमाहाभाष्यनिर्माणकौतुकिने नमः । ॐ श्रीमते नमः । ॐ उपनिषद्भाष्यग्रथनप्रथनोत्सुकाय नमः । ॐ गीताभाष्यामृतासारसन्तोषितजगत्त्रयाय नमः । ॐ श्रीमत्सनत्सुजातीयमुखग्रन्थनिबन्धकाय नमः । ॐ नृसिंहतापनीयादिभाष्योद्धारकृतादराय नमः । ॐ असंख्यग्रन्थनिर्मात्रे नमः । ॐ लोकानुग्रहकृते नमः ॥१९०॥ ॐ सुधिये नमः । ॐ सूत्रभाष्यमहायुक्तिखण्डिताखिलदुर्मताय नमः । ॐ भाष्यान्तरान्धकारौघनिवारणदिवाकराय नमः । ॐ स्वकृताशेषभाष्यादिग्रन्थाध्यापनतत्पराय नमः । ॐ शान्तिदान्त्यादिसंयुक्तशिष्यमण्डलमण्डिताय नमः । ॐ सनन्दनादिसच्छिष्यनित्याधीतस्वभाष्यकाय नमः । ॐ त्रिरधीतात्मभाष्यश्रीसनन्दनसमाश्रिताय नमः । ॐ जाह्नवीपरतीरस्थसनन्दनसमाह्वायिने नमः । ॐ गङ्गोत्थकमलव्रातद्वारायातसनन्दनाय नमः । ॐ आचार्यभक्तिमाहात्म्यनिदर्शनपरायणाय नमः ॥२००॥ ॐ आनन्दमन्थरस्वान्तसनन्दनकृतानतये नमः । ॐ तदीयाश्लेषसुहिताय नमः । ॐ साधुमार्गनिदर्शकाय नमः । ॐ दत्तपद्मपदाभिख्याय नमः । ॐ भाष्याध्यापनतत्पराय नमः । ॐ तत्तत्स्थलसमायातपण्डिताक्षेपखण्डकाय नमः । ॐ नानाकुमतदुर्ध्वान्तध्वंसनोद्यतमानसाय नमः । ॐ धीमते नमः । ॐ अद्वैतसिद्धान्तसमर्थनसमुत्सुकाय नमः । ॐ वेदान्तमहारण्यमध्यसञ्चारकेसरिणे नमः ॥२१०॥ ॐ त्रय्यन्तनलिनीभृङ्गाय नमः । ॐ त्रय्यन्ताम्भोजभास्कराय नमः । ॐ अद्वैतामृतमाधुर्यसर्वस्वानुभवोद्यताय नमः । ॐ अद्वैतमार्गसन्त्रात्रे नमः । ॐ निर्द्वैतब्रह्मचिन्तकाय नमः । ॐ द्वैतारण्यसमुच्छेदकुठाराय नमः । ॐ निःसपत्नकाय नमः । ॐ श्रौतस्मार्ताध्वनीनानुग्रहणैहपरायणाय नमः । ॐ वावदूकबुधव्रातविस्थापनमहावचसे नमः । ॐ स्वीयवाग्वैखरीलीलाविस्मापितबुधव्रजाय नमः ॥२२०॥ ॐ श्लाघासहस्रसंश्रोत्रे नमः । ॐ निर्विकाराय नमः । ॐ गुणाकराय नमः । ॐ त्रय्यन्तसारसर्वस्वसङ्ग्रहैकपरायणाय नमः । ॐ त्रय्यन्तगूढपरमात्माख्यरत्नोद्धृतिक्षमाय नमः । ॐ त्रय्यन्तभाष्यशीतांशुविशदीकृतभूतलाय नमः । ॐ गङ्गाप्रवाहसदृशसूक्तिसाराय नमः । ॐ महाशायाय नमः । ॐ वितण्डिकाख्यवेतण्डखण्डाद्भुतपण्डिताय नमः । ॐ भाष्यप्रचारनिरताय नमः ॥२३०॥ ॐ भाष्यप्रवचनोत्सुकाय नमः । ॐ भाष्यामृताब्धिमथनसम्पन्नज्ञानसारभाजे नमः । ॐ भाष्यसारग्रहासक्तभक्तमुक्तिप्रदायकाय नमः । ॐ भाष्याकारयशोराशिपवित्रितजगत्त्रयाय नमः । ॐ भाष्यामृतास्वादलुब्धकर्मन्दिजनसेविताय नमः । ॐ भाष्यरत्नप्रभाजालदेदीपितजगत्त्रयाय नमः । ॐ भाष्यगङ्गाजलस्नातनिःशेषकलुषापहायाय नमः । ॐ भाष्यगाम्भीर्यसंद्रष्टृजनविस्मयकारकाय नमः । ॐ भाष्याम्भोनिधिनिर्मग्नभक्तकैवल्यदायकाय नमः । ॐ भाष्यचन्द्रोदयोल्लासविद्वस्तध्वान्तदक्षिणाय नमः । ॐ भाष्याख्यकुमुदव्रातविकासनसुचन्द्रमसे नमः । ॐ भाष्ययुक्तिकुठारौघनिकृत्तद्वैतदुर्द्रुमाय नमः । ॐ भाष्यामृताब्धिलहरीविहारापरिखिन्नधिये नमः । ॐ भाष्यसिद्धान्तसर्वस्वपेटिकायितमानसाय नमः । ॐ भाष्याख्यनिकषग्रावशोधिताद्वैतकाञ्चनाय नमः । ॐ भाष्यवैपुल्यगाम्भीर्यतिरस्कृतपयोनिधये नमः । ॐ भाष्याभिधसुधावृष्टिपरिप्लावितभूतलाय नमः । ॐ भाष्यपीयूषवर्षोन्मूलितसंतापसन्ततये नमः । ॐ भाष्यतन्तुपरिप्रोतसद्युक्तिकुसुमावलये नमः ॥२५०॥ ॐ वेदान्तवेद्यविभवाय नमः । ॐ वेदान्तपरिनिष्ठिताय नमः । ॐ वेदान्तवाक्यनिवहायार्थ्यपरिचिन्तकाय नमः । ॐ वेदान्तवाक्यविलसद्दैदम्पर्यप्रदर्शकाय नमः । ॐ वेदान्तवाक्यपीयूषस्यादिमाभिज्ञमानसाय नमः । ॐ वेदान्तवाक्यकुसुमरसास्वादनबम्भराय नमः । ॐ वेदान्तसारसर्वस्वनिधानायितचित्तभुवे नमः । ॐ वेदान्तनलिनीहंसाय नमः । ॐ वेदान्ताम्भोजभास्कराय नमः । ॐ वेदान्तकुमुदोल्लाससुधानिधये नमः ॥२६०॥ ॐ उदारधिये नमः । ॐ वेदान्तशास्त्रसाहाय्यपराजितकुवादिकाय नमः । ॐ वेदान्ताम्बोधिलहरीविहारपरिनिर्वृताय नमः । ॐ शिष्यशङ्कापरिच्छेत्रे नमः । ॐ शिष्याध्यापनतत्पराय नमः । ॐ वृद्धवेषप्रतिच्छन्नव्यासाचार्यावलोकनाय नमः । ॐ अध्याप्यमानविषयजिज्ञासुव्यासचोदिताय नमः । ॐ शिष्यौघवर्णितस्वीयमाहात्म्याय नमः । ॐ महिमाकराय नमः । ॐ स्वसूत्रभाष्यश्रवणसंतुष्टव्यासनन्दिताय नमः ॥२७०॥ ॐ पृष्टसूत्रार्थकाय नमः । ॐ वाग्मिने नमः । ॐ विनयोज्वलमानसाय नमः । ॐ तदन्तरेत्यादिसूत्रप्रश्नहर्षितमानसाय नमः । ॐ श्रुत्युपोद्बलितस्वीयवचोरञ्जितभूसुराय नमः । ॐ भूतसूक्ष्मोपसृष्टजीवात्मगतिसाधकाय नमः । ॐ ताण्डिश्रुतिगतप्रश्नोत्तरवाक्यनिदर्शकाय नमः । ॐ शतधाकल्पितस्वीयपक्षाय नमः । ॐ सर्वसमाधिकृते नमः । ॐ वावदूकमहाविप्रपरमाश्चर्यदायकाय नमः ॥२८०॥ ॐ तत्तत्प्रश्नसमाधानसन्तोषितमहामुनये नमः । ॐ वेदावसानवाक्यौघसामरस्यकृते नमः । ॐ अव्ययाय नमः । ॐ दिनाष्टककृतासंख्यवादाय नमः । ॐ विजयभाजनाय नमः । ॐ विस्मयानन्दभरितश्रोतृश्लाघितवैभवाय नमः । ॐ विष्णुशङ्करतावाचिपद्माङ्घ्रिप्रतिबोधिताय नमः । ॐ पद्माङ्घ्रिप्रार्थितस्वीयवाग्व्यपारविरामकाय नमः । ॐ तदीयवाक्यसारज्ञाय नमः । ॐ नमस्कारसमुद्यताय नमः । ॐ व्यासमाहात्म्यविज्ञात्रे नमः । ॐ व्यासस्तुतिपरायणाय नमः । ॐ नानापद्यावलीप्रीतव्यासानुग्रहभाजनाय नमः । ॐ निजरूपसमायुक्तव्याससंदर्शनोत्सुकाय नमः । ॐ तापिच्छमञ्जरीकान्तव्यासविग्रहदर्शकाय नमः । ॐ शिष्यावलीपरिवृताय नमः । ॐ प्रत्युद्गतिविधायकाय नमः । ॐ स्वीयापराधशमनसमभ्यर्थनतत्पराय नमः । ॐ बादरायणपादाब्जयुगलीस्पर्शनोद्यताय नमः ॥३००॥ ॐ व्यासदर्शनजस्वीयकार्तार्थ्यप्रतिपादकाय नमः । ॐ अष्टादशपुराणौघदुष्करत्वनिबोधकाय नमः । ॐ तत्तादृशपुराणौघनिर्मातृत्वाभिनन्दकाय नमः । ॐ परोपकारनैरत्यश्लाघकाय नमः । ॐ व्यासपूजकाय नमः । ॐ भिन्नशाखाचतुर्वेदविभागश्लाघकाय नमः । ॐ महते नमः । ॐ कलिकालीनमन्दात्मानुग्रहीतृत्वप्रदर्शकाय नमः । ॐ नानाप्रबन्धकर्तृत्वजनिताश्चर्यबोधकाय नमः । ॐ भारताख्यमहाग्रन्थदुष्करत्वप्रदर्शकाय नमः ॥३१०॥ ॐ नारायणावतारत्वप्रदर्शिने नमः । ॐ प्रार्थनोद्यताय नमः । ॐ स्वानुग्रहैकफलकव्यासागमनशम्सकाय नमः । ॐ स्वकीयभाष्यालोकार्थव्याससम्प्रार्थकाय नमः । ॐ मुनये नमः । ॐ निजभाष्यगगाम्भीर्यविस्मापितमहामुनये नमः । ॐ भाष्यसर्वांशसंद्रष्टृव्यासाचार्याभिनन्दिताय नमः । ॐ निजसिद्धान्तसर्वस्वद्रष्टृव्यासाभिपूजिताय नमः । ॐ श्रुतिसूत्रसुसाङ्गत्यसंद्रष्टृव्यासपूजिताय नमः । ॐ श्लाघावादसहस्रैकपात्रभूताय नमः ॥३२०॥ ॐ महामुनये नमः । ॐ गोविन्दयोगीशिष्यत्वश्लाघकव्यासपूजिताय नमः । ॐ स्वशङ्कर्रम्शतावादिव्यासवाक्यानुमोदकाय नमः । ॐ व्यासाशयाविष्करणभाष्यप्रथनतत्पराय नमः । ॐ सर्वसौभाग्यनिलयाय नमः । ॐ सर्वसौख्यप्रदायकाय नमः । ॐ सर्वज्ञाय नमः । ॐ सर्वदृशे नमः । ॐ साक्षिणे नमः । ॐ सर्वतोमुखनैपुण्याय नमः ॥३३०॥ ॐ सर्वकर्त्रे नमः । ॐ सर्वगोप्त्रे नमः । ॐ सर्ववैभवसंयुताय नमः । ॐ सर्वभावविशेषज्ञाय नमः । ॐ सर्वशास्त्रविशारदाय नमः । ॐ सर्वाभीष्टप्रदाय नमः । ॐ देवाय नमः । ॐ सर्वदुःखनिवारणाय नमः । ॐ सर्वसंशयविच्छेत्रे नमः । ॐ सर्वसम्पत्प्रदायकाय नमः ॥३४०॥ ॐ सर्वसौख्यविधात्रे नमः । ॐ सर्वामरकृतानतये नमः । ॐ सर्वर्षिगणसम्पूज्याय नमः । ॐ सर्वमङ्गलकारणाय नमः । ॐ सर्वदुःखापहाय नमः । ॐ सौम्याय नमः । ॐ सर्वान्तर्यमणाय नमः । ॐ बलिने नमः । ॐ सर्वाधाराय नमः । ॐ सर्वगामिने नमः ॥३५०॥ ॐ सर्वतोभद्रदायकाय नमः । ॐ सर्वदुर्वादिदुर्गर्वखर्वीकरणकौतिकिने नमः । ॐ सर्वलोकसुविख्यातयशोराशये नमः । ॐ अमोघवाचे नमः । ॐ सर्वभक्तसमुद्धर्त्रे नमः । ॐ सर्वापद्विनिवारकाय नमः । ॐ सार्वभौमादिहैरण्यगर्भान्तानन्दचिन्तकाय नमः । ॐ भूयोग्रग्रन्थनिर्माणकृतव्यासार्यचोदनाय नमः । ॐ भेदवादिनिराशार्थिव्यासवाक्यानुमोदकाय नमः । ॐ यथागतस्वगमनबोधकव्यासचोदिताय नमः ॥३६०॥ ॐ वेदान्तभाष्यरचनप्रचारादिविबोधकाय नमः । ॐ स्वकीयकृतकृत्यत्वबोधकाय नमः । ॐ प्रार्थनापराय नमः । ॐ मणिकर्णीमहाक्षेत्रव्याससानिध्ययाचकाय नमः । ॐ आत्मीयदेहसंत्यागप्रवृत्ताय नमः । ॐ व्यासचोदकाय नमः । ॐ निषिद्धदेहसंत्यागव्यासाज्ञापरिपालकाय नमः । ॐ अनिर्जितानेकवादिजयसम्प्रेरिताय नमः । ॐ सुखिने नमः । ॐ अवतारमहाकार्यसम्पूर्णत्वानुचिन्तकाय नमः ॥३७०॥ ॐ स्वसूत्रभाष्यमाधुर्यप्रीतव्यासकृतादराय नमः । ॐ वरदानकृतोत्साहव्याससम्चोदिताय नमः । ॐ कवये नमः । ॐ विधिदत्तष्टसंख्याकवयसे नमः । ॐ सन्न्याससंग्रहिणे नमः । ॐ स्ववैदग्ध्याभिनिष्पन्नवयोष्टककृताश्रयाय नमः । ॐ व्यासाज्ञावैभवोत्पन्नषोडशाब्दाय नमः । ॐ शिवङ्कराय नमः । ॐ श्रुतिसूत्रमहाभाष्यत्रिवेण्युत्पत्तिभुवे नमः । ॐ शिवाय नमः ॥३८०॥ ॐ वेदव्यासपदाम्भोजयुगलीस्पर्शनिर्वृताय नमः । ॐ भक्तिगर्भितवाक्यौघकुसुमाञ्जलिदायकाय नमः । ॐ व्यासदत्तवरग्राहिणे नमः । ॐ व्यासान्तर्धानदर्शकाय नमः । ॐ बादरायणविश्लेषव्यसनातुरमानसाय नमः । ॐ व्याससंचोदिताशेषदिग्विजयैककृतोद्यमाय नमः । ॐ कुमारिलावलोकेच्छवे नमः । ॐ दक्षिणाशागमोद्यताय नमः । ॐ भट्टपादापराभिख्यकुमारिलजयोत्सुकाय नमः । ॐ प्रयागगमनोद्युक्ताय नमः ॥३९०॥ ॐ त्रिवेणीसङ्गमस्नानपवित्रतरमूर्तिकाय नमः । ॐ गङ्गातुङ्गतरङ्गौघदर्शनप्रीतमानसाय नमः । ॐ हृद्यानवद्यपद्यौघसंस्तुताभ्रसरिद्वराय नमः । ॐ भूयोभूयःकृतस्नानाय नमः । ॐ दण्डालङ्कृतहस्तकाय नमः । ॐ नानाघमर्षमन्त्रानुपाठकाय नमः । ॐ ध्यानतत्पराय नमः । ॐ नानामन्त्रजपप्रीताय नमः । ॐ मन्त्रसारज्ञाय नमः । ॐ उत्तमाय नमः ॥४००॥ ॐ मन्त्रार्थव्याकृतिक्षमाय नमः । ॐ मन्त्रमाणिक्यमञ्जूषायितचेतःप्रदेशकाय नमः । ॐ मन्त्ररत्नाकराय नमः । ॐ मानिने नमः । ॐ मन्त्रवैभवदर्शकाय नमः । ॐ मन्त्रशास्त्रार्थतत्वज्ञाय नमः । ॐ मन्त्रशास्त्रप्रवर्तकाय नमः । ॐ मान्त्रिकाग्रेसराय नमः ॥४१०॥ ॐ मान्याय नमः । ॐ मन्त्राम्भोरुहषट्पदाय नमः । ॐ मन्त्रकाननसञ्चारकेसरिणे नमः । ॐ मन्त्रतत्पराय नमः । ॐ मन्त्राभिधसुकासारकलहंसाय नमः । ॐ महामतये नमः । ॐ मन्त्रसंशयविच्छेत्रे नमः । ॐ मन्त्रजातोपदेशकाय नमः । ॐ स्नानकालसमायातमातृस्मृतये नमः । ॐ अमोघधिये नमः ॥४२०॥ ॐ आह्निकानुष्ठितिव्यग्राय नमः । ॐ यतिधर्मपरायणाय नमः । ॐ एकान्तमतये नमः । ॐ एकान्तशीलाय नमः । ॐ एकान्तसंश्रिताय नमः । ॐ भट्टपादतुषाङ्गारावेशवृत्तनिशामकाय नमः । ॐ भाष्यवार्तिकनिर्माणमनोरथसमीरिताय नमः । ॐ भट्टपादीयवृत्तान्तप्रत्यक्षीकरणोत्सुकाय नमः । ॐ कुमारिलसमालोकलालसाय नमः । ॐ गमनोत्सुकाय नमः ॥४३०॥ ॐ तुषाग्निराशिमध्यस्थभट्टपादावलोकनाय नमः । ॐ प्रभाकरादिसच्छिष्यावृततन्मूर्तिदर्शकाय नमः । ॐ तुषाग्निस्थिततद्वक्त्रप्रसादालोकविस्मिताय नमः । ॐ अतर्कितागतप्रीतभट्टपादाभिनन्दिताय नमः । ॐ भट्टपादीयसच्छिष्यकृतनानोपचारकाय नमः । ॐ अन्त्यकालस्वसानिध्यसन्तोषितकुमारिलाय नमः । ॐ निजदर्शनसन्तुष्टभट्टपादाभिनन्दिताय नमः । ॐ सत्सङ्गमनमाहत्म्यवादिभट्टाभिपूजिताय नमः । ॐ संसारानित्यतावाचिभट्टशोकानुशोचकाय नमः । ॐ कालानैय्यत्यसंबोधिभट्टपादोक्तिशम्सनाय नमः ॥४४०॥ ॐ ईशापह्नवजात्यन्तदोषवादसुसंश्रविणे नमः । ॐ बौद्धान्तेवासिताबोधिभट्टवाक्यप्रशम्सकाय नमः । ॐ भट्टपादीयसौधाग्रपतनाकर्णनातुराय नमः । ॐ वेदभक्तिप्रयुक्त्यैतत्क्षताभावनिशामकाय नमः । ॐ एकचक्षुःक्षतप्राप्तिशोचद्भट्टानुशोचकाय नमः । ॐ गुरुद्रोहाख्यदुरितसम्भवाकर्णनातुराय नमः । ॐ प्रायश्चित्तार्थरचिततुषाग्न्यावेशदर्शकाय नमः । ॐ स्वदर्शनजकार्तार्थ्यबोधिभट्टोक्तिपूजिताय नमः । ॐ स्वभाष्यवृत्तिरचनभाग्याभावोक्तिसंश्रविणे नमः । ॐ तत्प्रयुक्तयशोऽभावबोधिभट्टानुशोचकाय नमः ॥४५०॥ ॐ निजावताराभिज्ञप्तिबोधिभट्टोक्तिशम्सनाय नमः । ॐ सुब्रह्मण्यावतारत्वबोधकाय नमः । ॐ श्लाघनापराय नमः । ॐ कर्मकाण्डप्रतिष्ठार्थतदीयागमबोधकाय नमः । ॐ साधुमार्गानुशिक्षार्थतदीयव्रतबोधकाय नमः । ॐ करकाम्बुकणासेकजीवनोत्सुकमानसाय नमः । ॐ लोकापवादासह्यत्वबोधिभट्टानुसारकृते नमः । ॐ आगमोक्तव्रतैकान्तनिष्ठभट्टानुमोदकाय नमः । ॐ आगमोक्त्यतिलङ्घित्वदुष्कीर्तिपरिहारकृते नमः । ॐ स्वकीयकृतकृत्यत्वाकाङ्क्षिभट्टानुसेविकाय नमः ॥४६०॥ ॐ तारकाख्यब्रह्मविद्यापेक्षिभट्टाभिलाषकृते नमः । ॐ मण्डनाख्यमहासूरिविजयप्रेरिताय नमः । ॐ सुहृदे नमः । ॐ तत्पाण्डित्यगुणश्लाघिभट्टपादप्रणोदिताय नमः । ॐ प्रवृत्तिमार्गनिरततद्वृत्तान्तनिशामकाय नमः । ॐ मण्डनार्यजयोद्योगकर्तव्योक्तिसुसूचकाय नमः । ॐ दुर्वासःशापसंजातवाणीस्थितिनिशामकाय नमः । ॐ भट्टान्तेवासिमुख्यत्वाभिज्ञाय नमः । ॐ विज्ञानसागराय नमः । ॐ भारतीसाक्षिकानेकविवादकरणेरिताय नमः ॥४७०॥ ॐ तदीयजयमात्रान्यजयप्राप्तिनिशामकाय नमः । ॐ वार्तिकग्रन्थकरणयोग्यताश्रवणादृताय नमः । ॐ मुहूर्तमात्रसानिध्यप्रार्थिभट्टानुमोदकाय नमः । ॐ तारकब्रह्मकथनकृतार्थितकुमारिलाय नमः । ॐ परमाद्वैततत्वज्ञभट्टपादानुचिन्तिताय नमः । ॐ भट्टानुग्रहणोद्युक्ताय नमः । ॐ विष्णुधामप्रवेशकाय नमः । ॐ आकाशमार्गसम्प्राप्तमण्डनीयनिवेशनाय नमः । ॐ माहिष्मत्याख्यनगरीरामणीयकदर्शनाय नमः । ॐ रेवावारिकणोन्मिश्रवातधूताखिलाश्रमाय नमः ॥४८०॥ ॐ रेवानदीकृतस्नानाय नमः । ॐ नित्याह्नीकपरायणाय नमः । ॐ दृगध्वनीनतद्दासीदर्शनाय नमः । ॐ महिमान्विताय नमः । ॐ मण्डनीयमहासद्ममार्गप्रष्ट्रे नमः । ॐ महायशसे नमः । ॐ विस्मयाकुलतद्दासीदत्तोत्तराय नमः । ॐ उदारवाचे नमः । ॐ स्वतःप्रामाण्यादिवादिशुकसूचिततद्गृहाय नमः । ॐ कर्मेश्वरादिसंवादिशुकसूचिततद्गृहाय नमः ॥४९०॥ ॐ जगद्धृवत्वादिवादिशुकसूचितसद्मकाय नमः । ॐ द्वारस्थनीडसंरुद्धशुकोक्तिश्लाघनापराय नमः । ॐ यथोक्तचिह्नविज्ञातमण्डनीयनिवेशनाय नमः । ॐ कवाटगुप्तिदुर्वेशगृहान्तर्गतिचिन्तकाय नमः । ॐ योगमाहात्म्यरचितव्योममार्गातिलंघनाय नमः । ॐ अङ्गणान्तःसमुत्पातिने नमः । ॐ परितो दृष्टसद्मकाय नमः । ॐ अभ्रंलिहमहासद्मरामणीयकदर्शनाय नमः । ॐ पद्मजन्माम्शसम्भूतमण्डनार्यावलोकनाय नमः । ॐ निमन्त्रितव्यासजैमिन्यङ्घ्रिक्षालनदर्शकाय नमः ॥५००॥ ॐ व्यासजैमिनिसाङ्गत्यदर्शनात्यन्तविस्मिताय नमः । ॐ तत्कालकृतसान्निध्यव्यासजैमिनिमानिताय नमः । ॐ अकस्माद्यतिसम्प्राप्तिकृद्धमण्डनवीक्षिताय नमः । ॐ प्रवृत्तिमार्गनिरतमण्डनार्यविमानिताय नमः । ॐ सोपालम्भतदीयोक्तिसमाधानविचक्षणाय नमः । ॐ मण्डनीयाखिलप्रश्नोत्तरदानविदग्धधिये नमः । ॐ वक्रोक्तिजालचातुर्यनिरुत्तरितमण्डनाय नमः । ॐ यतिनिन्दादोषबोधिव्यासवाक्यनिशामकाय नमः । ॐ साक्षाद्विष्णुस्वरूपत्वबोधकव्यासदर्शकाय नमः । ॐ व्यासाज्ञावाक्यवशगमण्डनार्यनिमन्त्रिताय नमः ॥५१०॥ ॐ मण्डनार्यकृतानेकसपर्याविधिभाजनाय नमः । ॐ भैक्षार्थरचिताह्वानाय नमः । ॐ वादभिक्षैकयाचकाय नमः । ॐ विवादभिक्षामात्रार्थिस्वागमप्रतिबोधकाय नमः । ॐ अन्योन्यशिष्यताप्राप्तिपणबन्धप्रदर्शकाय नमः । ॐ अनादृताहारभिक्षाय नमः । ॐ वादभिक्षापरायणाय नमः । ॐ श्रुत्यन्तमार्गविस्तारमात्राकङ्क्षित्वबोधकाय नमः । ॐ विस्मयानन्दभरितमण्डनार्यप्रशम्सिताय नमः । ॐ चिराकाङ्क्षितसद्वादकथातोषितमण्डनाय नमः ॥५२०॥ ॐ वादभिक्षाकृतोद्योगमण्डनार्यप्रशम्सकाय नमः । ॐ विवादसाक्षिशून्यत्वबोधिमण्डनचोदिताय नमः । ॐ मुनिद्वयीसाक्षितार्थिमण्डनार्यप्रशम्सकाय नमः । ॐ भारतीकृतमाध्यस्थ्यवादलोलुपमानसाय नमः । ॐ प्रतिज्ञापणबन्धादिजिज्ञासुत्वप्रदर्शकाय नमः । ॐ मण्डनार्यकृतासंख्यवीजनाद्युपचारकाय नमः । ॐ व्यासजैमिनिसान्निध्यसम्भाषणपरायणाय नमः । ॐ मुनिद्वयान्तर्धिदर्शिने नमः । ॐ द्विजेन्द्रालयनिर्गताय नमः ॥५३०॥ ॐ रेवानदीसमीपस्थदेवालयनिवासकृते नमः । ॐ निजशिष्यजनैकान्तसम्भाषणपरायणाय नमः । ॐ श्राविताशेषविषयशिष्यावलिसमाश्रिताय नमः । ॐ व्यासजैमिनिसान्निध्यदुरापत्वानुचिन्तकाय नमः । ॐ त्रियामानिर्गमाकाङ्क्षिणे नमः । ॐ प्रातःस्नानपरायणाय नमः । ॐ कृताह्निकक्रियाय नमः । ॐ शिष्यमण्डलीपरिमण्डिताय नमः । ॐ मण्डनार्यमहासद्ममण्डनायितमूर्तिकाय नमः । ॐ विवादार्थकृतैकान्तनिश्चयाय नमः ॥५४०॥ ॐ मण्डनादृताय नमः । ॐ सदस्यभावविलसद्वाणीसान्निध्यदर्शकाय नमः । ॐ विवादकृतिसन्नद्धमण्डनार्यप्रशम्सकाय नमः । ॐ सदस्यवादिसम्योगसमाह्लादितमानसाय नमः । ॐ प्रतिज्ञाकरणोत्साहिने नमः । ॐ वेदान्ताशयसूचकाय नमः । ॐ विश्वाकारसमाभातब्रह्म्यैकत्वप्रदर्शकाय नमः । ॐ शुक्तिरूप्यादिदृष्टान्तप्रत्यायितमृषात्मकाय नमः । ॐ ब्रह्मज्ञानैकसम्प्राप्यस्वात्मसंस्थितिबोधकाय नमः ॥५५०॥ ॐ पुनर्जन्मापरामृष्टकैवल्यप्रतिपादकाय नमः । ॐ त्रयीमस्तकसन्दोहप्रामाण्योद्घाटनापराय नमः । ॐ पराजितस्वसम्प्राप्यशुक्लवस्त्रत्वबोधकाय नमः । ॐ जयापजयपक्षीयवाणीसाक्षित्वबोधकाय नमः । ॐ विश्वरूपीयसकलप्रतिज्ञाश्रवणोत्सुकाय नमः । ॐ वेदान्तामानताबोधितद्वाक्यश्रवणातुराय नमः । ॐ कर्मकाण्डीयवचनप्रामाण्याकर्णनाकुलाय नमः । ॐ क्रियायोगिवचोमात्रप्रामाण्याकर्णनक्षमाय नमः । ॐ कर्मसम्प्राप्यकैवल्यबोधिमण्डनदर्शकाय नमः ॥५६०॥ ॐ यावदायुःकर्मजालकर्तव्यत्वोक्तिसंश्रविणे नमः । ॐ पराजितस्वकाषायग्रहवाक्यानुमोदकाय नमः । ॐ भारतीसाक्षिकासंख्यवादोद्युक्ताय नमः । ॐ यतीश्वराय नमः । ॐ दैनन्दिनाह्निकोपान्तसमारब्धविवादकाय नमः । ॐ भारतीनिहितस्वीयगलालम्बिसुमालिकाय नमः । ॐ मण्डनीयगलालम्बिमालालालित्यदर्शकाय नमः । ॐ मालामालिन्यनिर्णेयपराजयनिशामकाय नमः । ॐ गृहकर्मसमासक्तवाणीदत्तसुभैक्ष्यकाय नमः । ॐ भिक्षोत्तरक्षणारब्धविवादापरिखिन्नधिये नमः ॥५७०॥ ॐ ऊर्ध्वोपविष्टब्रह्मादिपीतस्वीयवचोऽमृताय नमः । ॐ क्रोधवाक्फलजात्यादिदोषशून्यमहावचसे नमः । ॐ अद्वैतखण्डनोद्युक्तमण्डनीयोक्तिखण्डनाय नमः । ॐ जीवेश्वरजगद्भेदवादभेदनलालसाय नमः । ॐ उद्धालकश्वेतकेतुसंवादादिनिदर्शकाय नमः । ॐ तत्त्वमस्यादिवाक्यौघस्वारस्यप्रतिपादकाय नमः । ॐ विधिशेषत्ववचननिर्मूलत्वप्रदर्शकाय नमः । ॐ भिन्नप्रकरणोपात्ततत्तात्पर्यप्रदर्शकाय नमः । ॐ उपासनार्थतावादनिर्मूलनपरायणाय नमः । ॐ केवलाद्वैतविश्रान्तवाक्यतात्पर्यदर्शकाय नमः । ॐ सच्चिदानन्दरूपात्मप्रतिपादनतत्पराय नमः ॥५८०॥ ॐ जपमात्रोपयोगित्वनिर्युक्तित्वानुदर्शकाय नमः । ॐ अभेदबोधिवाक्यौघप्राबल्यपरिदर्शकाय नमः । ॐ भेदबुद्धिप्रमाणत्वसर्वांशोन्मूलनक्षमाय नमः । ॐ भेदसंदर्शिवाक्यौघप्रामाण्याभावसाधकाय नमः । ॐ भेदप्रत्यक्ष्यदौर्बल्यप्रतिपादनतत्पराय नमः । ॐ भेदनिन्दासहस्रोक्तितात्पर्यप्रतिपादकाय नमः । ॐ लोकप्रसिद्धभेदानुवादकत्वप्रदर्शकाय नमः । ॐ अप्रसिद्धाद्वैतबोधिवाक्यप्रामाण्यसाधकाय नमः । ॐ नानादृष्टान्तसंदर्शिने नमः । ॐ श्रुतिवाक्यनिदर्शकाय नमः ॥५९०॥ ॐ युक्तिसाहस्रघटितस्वानुभूतिप्रदर्शकाय नमः । ॐ श्रुतियुक्तिसुसौहार्ददर्शकाय नमः । ॐ वीतमत्सराय नमः । ॐ हेतुदोषांशसंदर्शिमण्डनाक्षेपखण्डनाय नमः । ॐ भेदौपाधिकताबोधिने नमः । ॐ सत्याद्वैतानुदर्शकाय नमः । ॐ असम्सारिपरब्रह्मसाधनैकान्तमानसाय नमः । ॐ क्षेत्रज्ञपरमात्मैक्यवादिगीतादिनिदर्शकाय नमः । ॐ अद्यारोपापवादाप्तनिष्प्रपञ्चत्वदर्शकाय नमः । ॐ युक्तिसाहस्ररचितदुर्वादिमतखण्डनाय नमः ॥६००॥ ॐ मण्डनीयगलालम्बिमालामालिन्यदर्शकाय नमः । ॐ पुष्पवृष्टिसंछन्नाय नमः । ॐ भारतीप्रतिनन्दिताय नमः । ॐ भिक्षाकालोपसम्प्राप्तभारतीपरिदर्शकाय नमः । ॐ उभयाह्वानकृद्वाणीवैदग्ध्यश्लाघनापराय नमः । ॐ भारतीबोधितस्वीयदुर्वासःशापसंश्रविणे नमः । ॐ जयावधिकतच्छापवृत्तान्ताकर्णनाय नमः । ॐ वशिने नमः । ॐ स्वधामगमनोद्युक्तभारतीप्रतिरोधकाय नमः । ॐ वनदुर्गामहामन्त्रकृतवाणीसुबाधनाय नमः ॥६१०॥ ॐ सरस्वत्यवतारत्वबोधकाय नमः । ॐ वेदविद्वराय नमः । ॐ भक्तिमत्परतन्त्रत्वबोधकाय नमः । ॐ विनयोज्वलाय नमः । ॐ स्वानुज्ञावधिभूलोकनिवासप्रार्थनापराय नमः । ॐ मण्डनीयाशयज्ञानप्रवृत्ताय नमः । ॐ विगतस्पृहाय नमः । ॐ कर्मजाड्यपराभूततत्सन्देहापनोदकाय नमः । ॐ निजापजयसंजातदुःखाभावोक्तिसंश्रविणे नमः । ॐ जैमिन्युक्तिनिराशानुशोचन्मण्डनबोधकाय नमः ॥६२०॥ ॐ कामनावदनुग्राहिजैमिन्याशयबोधकाय नमः । ॐ कर्मप्रणाडीमात्रत्वबोधिने नमः । ॐ जैमिनिसम्मताय नमः । ॐ साक्षान्मोक्षैकफलकज्ञानवाचिने नमः । ॐ महावचसे नमः । ॐ कर्मौघफलदातृत्वानुपपत्तिप्रपञ्चकाय नमः । ॐ ईशैकफलदातृत्वसाधकाय नमः । ॐ युक्तिबोधकाय नमः । ॐ जैमिनीयवचोजालतात्पर्योद्घाटनक्षमाय नमः । ॐ अनुमेयेश्वराभावमात्रतात्पर्यसूचकाय नमः । ॐ वेदैकगम्येशवादिजैमिन्याशयसूचकाय नमः । ॐ डोलायमानहृदयमण्डनार्यावलोकनाय नमः । ॐ तत्सन्देहापनोदार्थागतजैमिनिशम्सकाय नमः । ॐ स्वोक्तसर्वांशसाधुत्वबोधिजैमिनिशम्सकाय नमः । ॐ जैमिन्युदितसर्वज्ञभावाय नमः । ॐ जैमिनिपूजिताय नमः । ॐ निजावतारसंसूचिजैमिनिप्रतिनन्दिताय नमः । ॐ जैमिनिव्यासवचनतात्पर्यांशप्रदर्शकाय नमः । ॐ जैमिन्यन्तर्धिसंदर्शिने नमः । ॐ सर्वतो जयभाजनाय नमः ॥६४०॥ ॐ साष्टाङ्गपातप्रणतमण्डनार्यप्रसादकृते नमः । ॐ स्वीयावतारताभिज्ञमण्डनार्याभिनन्दिताय नमः । ॐ स्वानभिज्ञत्वानुशोचिमण्डनार्यप्रसंसकाय नमः । ॐ स्वकर्मजाड्यानुशोचन्मण्डनोक्त्यभिनन्दकाय नमः । ॐ सम्सारतापसम्बोधिमण्डनोक्त्यभिनन्दकाय नमः । ॐ परमानन्दलहरीविहरन्मण्डनादृताय नमः । ॐ स्वाज्ञानतिमिरापायबोधिमण्डनशम्सकाय नमः । ॐ अविद्याराक्षसीग्रस्तपरमात्मोद्धृतिक्षमाय नमः । ॐ स्वापराधक्षमापेक्षिमण्डनार्याभियाचिताय नमः । ॐ मण्डनार्यकृतस्वीयावतारत्वसमर्थनाय नमः ॥६५०॥ ॐ पूर्वार्जितस्वसुकृतश्लाघिमण्डनपूजिताय नमः । ॐ स्वसंवादातिसन्तुष्टमण्डनाधिकनन्दिताय नमः । ॐ स्वसंवादातिदौर्लभ्यबोधिमण्डनशम्सकाय नमः । ॐ नानास्तुतिवचोगुंफसन्तुष्टस्वान्तसम्युताय नमः । ॐ मण्डनार्यकृतासंख्यनमोवाकप्रशंसनाय नमः । ॐ मण्डनारचितस्तोकस्तुतिसाहस्रभाजनाय नमः । ॐ स्वपादशरणापन्नमण्डनानुग्रहोत्सुकाय नमः । ॐ निजकिङ्करताबोधिमण्डनोक्तिप्रशम्सकाय नमः । ॐ मण्डनीयमहाभक्तितरलीकृतमानसाय नमः । ॐ तदीयजन्मसाफल्यापादनोद्यतमानसाय नमः ॥६६०॥ ॐ सुतदारगृहत्यागासक्तमण्डनशम्सकाय नमः । ॐ मण्डनीयकलत्रानुमतिसम्पादनोत्सुकाय नमः । ॐ मुन्युक्तसर्ववृत्तज्ञवाणीसमनुमोदिताय नमः । ॐ मण्डनप्राप्तशिष्यत्वाबोधिवाणीप्रशम्सकाय नमः । ॐ मुन्युक्तसर्ववृत्तान्तयाथार्थ्यपरिचिन्तकाय नमः । ॐ समग्रविजयाभावबोधिवाण्युक्तिचिन्तकाय नमः । ॐ निजार्धभागतावाचिवाणिप्रागल्भ्यचिन्तकाय नमः । ॐ महिलाजनसंवाददोषोद्घाटनतत्पराय नमः । ॐ याज्ञवल्क्यस्त्रीविवाददर्शिवाण्युक्तिपूजकाय नमः । ॐ सुलभाजनकाद्युक्तिप्रत्युक्तिपरिचिन्तकाय नमः ॥६७०॥ ॐ विद्वत्सभामध्यवर्तिने नमः । ॐ वाणीसंवादकाय नमः । ॐ वाग्झरीमाधुरीयोगदूरीकृतसुधारसाय नमः । ॐ भारतीचिन्तिताशेषशास्त्राजय्यत्ववैभवाय नमः । ॐ अतिबाल्यकृतसन्यासाय नमः । ॐ विषयौघपराङ्ग्मुखाय नमः । ॐ कामशास्त्रकृतप्रश्नाय नमः । ॐ चिन्तनापरमानसाय नमः । ॐ जनापवादचकिताय नमः । ॐ यतिधर्मप्रवर्तकाय नमः ॥६८०॥ ॐ कामशास्त्रानभिज्ञत्वबहिःप्रकटनोद्यताय नमः । ॐ मासमात्रावधिप्रार्थिने नमः । ॐ वाण्यनुज्ञाताय नमः । ॐ आत्मवते नमः । ॐ गमनार्थकृतोद्योगाय नमः । ॐ शिष्यावलिपरिष्कृताय नमः । ॐ योगशक्तिकृताकाशसञ्चाराय नमः । ॐ योगतत्वविदे नमः । ॐ गतचेतनभूपालगात्रदर्शिने नमः । ॐ प्रहृष्टधिये नमः । ॐ प्रमदाजनसंवीतराजकायप्रदर्शकाय नमः । ॐ तच्छरीरनुप्रवेशसमुत्सुकितमानसाय नमः । ॐ सनन्दनादिसच्छिष्यसमापृच्छापरायणाय नमः । ॐ भक्तिमत्तरपद्माङ्घ्रिनिषिद्धगमनाय नमः । ॐ व्रतिने नमः । ॐ सनन्दनोक्तविषयाकर्षकत्वस्वभावकाय नमः । ॐ ऊर्ध्वरेतोव्रतापोहशङ्किपद्माङ्घ्रिबोधकाय नमः । ॐ सन्यासधर्मशैथिल्याशङ्किपद्माङ्घ्रिवारिताय नमः । ॐ देहाभिमानवन्मात्रपापसम्भवबोधकाय नमः । ॐ निरहङ्कारकर्मौघलेपाभावावबोधकाय नमः ॥७००॥ ॐ गुहाहितात्मीयदेहरक्षणीयत्वबोधकाय नमः । ॐ सम्प्राप्तामरकाभिख्यराजदेहाय नमः । ॐ विशेषविदे नमः । ॐ निजप्रवेशचलितराजकीयशरीरभृते नमः । ॐ अकस्माज्जीवसम्प्राप्तिविस्मापिततदङ्गनाय नमः । ॐ प्रभूतहर्षवनिताव्यूहसन्दर्शनोत्सुकाय नमः । ॐ विस्मयानन्दभरितमन्त्रिमुख्याभिनन्दिताय नमः । ॐ शङ्खदुन्दुभिनिर्घोषसमाकर्णनतत्पराय नमः ॥७१०॥ ॐ समस्तजनतानन्दजनकाय नमः । ॐ मङ्गलप्रदाय नमः । ॐ पुरोहितकृतस्वीयशान्तिकर्मणे नमः । ॐ शमावनये नमः । ॐ कृतमाङ्गलिकाय नमः । ॐ भद्रगजारूढाय नमः । ॐ निरीहिताय नमः । ॐ सचिवादिकृतस्वीयसत्काराय नमः । ॐ साधुसम्मताय नमः । ॐ पृथिवीपालनोद्युक्ताय नमः । ॐ धर्माधर्मविशेषविदे नमः ॥७२०॥ ॐ नीतिमार्गसुनिष्णात्रे नमः । ॐ राजकार्यानुपालकाय नमः । ॐ निजौदार्यादिजनितमन्त्रिसंशयभाजनाय नमः । ॐ स्वकीयगुणसन्दोहसमाह्लादितसज्जनाय नमः । ॐ परकायप्रवेष्ट्यत्वज्ञातृमन्त्रिप्रपूजिताय नमः । ॐ मन्त्रिविन्यस्तनिखिलराज्यभाराय नमः । ॐ धराधिपाय नमः । ॐ अन्तःपुरकृतावासाय नमः । ॐ ललनाजनसेविताय नमः । ॐ भूपालदेहसम्प्राप्तनानाक्रीडामहोत्सवाय नमः । ॐ विषयानन्दविमुखाय नमः । ॐ विषयौघविनिन्दकाय नमः । ॐ विषयारातिशमनाय नमः । ॐ विषयातिविदूरधिये नमः । ॐ विषयाख्यमहारण्यनिकृन्तनकुठारकाय नमः । ॐ विषयाख्यविषज्वालासम्स्पर्शरहिताय नमः । ॐ यमिने नमः । ॐ विषयाम्बुधिसंशोषबडबाग्निशिखायिताय नमः । ॐ कामक्रोधादिषड्वैरिदूरीभूतान्तरङ्गकाय नमः । ॐ विषयासारतादर्शिने नमः ॥७४०॥ ॐ विषयानाकुलांतराय नमः । ॐ विषयाख्यगजव्रातदमनोद्युक्तकेसरिणे नमः । ॐ विषयव्याघ्रदर्पघ्नाय नमः । ॐ विषयव्यालवैद्यकाय नमः । ॐ विषयौघदुरन्तत्वचिन्तकाय नमः । ॐ वीतचापलाय नमः । ॐ वात्सानयकलासारसर्वस्वग्रहणोत्सुकाय नमः । ॐ भूपदेहकृतासंख्यभोगाय नमः । ॐ नृपतिवेषभृते नमः । ॐ समयात्ययसम्बोधिशिष्यवर्गानुचिन्तिताय नमः ॥७५०॥ ॐ दुःखार्णवनिमग्नस्वशिष्यवर्गानुचिन्तकाय नमः । ॐ इतिकर्तव्यतामूढशिष्यवर्गगवेषिताय नमः । ॐ मृतोत्थियनृपश्रोतृशिष्याभिज्ङातधामकाय नमः । ॐ नानारुचिरवेषाढ्यनिजशिष्यावलोकनाय नमः । ॐ गानविद्यातिनैपुण्यशिष्यनागावकर्णनाय नमः । ॐ अन्योपदेशरचितहृद्यपद्यसुसंश्रविणे नमः । ॐ नानार्थगर्भशिष्योक्तपयार्थपरिचिन्तकाय नमः । ॐ वेदान्तार्थपरिप्रोतवाक्यश्रवणकौतिकिने नमः । ॐ तत्वमस्यादिशिष्योक्तवाक्यार्थपरिचिन्तकाय नमः । ॐ सर्ववेदान्तसंगूढपरमात्मानुचिन्तकाय नमः । ॐ निजशिष्याशयाभिज्ङाय नमः । ॐ निजकायप्रवेशकृते नमः । ॐ दंदह्यमानात्मदेहदर्शिने नमः । ॐ त्वरितमानसाय नमः । ॐ तदानीन्तनसन्तापशमनोपायचिन्तकाय नमः । ॐ लक्ष्मीनृसिंहस्तवननिश्चितात्मने नमः । ॐ सुपद्यकृते नमः । ॐ नानास्तुतिवचोगुम्फप्रीणितश्रीनृसिंहकाय नमः । ॐ नृसिंहकरुणाशान्तसन्तापवपुराश्रिताय नमः । ॐ सनन्दनादिसच्छिष्यसंवृतोभयपार्श्वकाय नमः ॥७७०॥ ॐ निजवृत्तान्तकथनतत्पराय नमः । ॐ शिष्यभावविदे नमः । ॐ आकाशमार्गगमनाय नमः । ॐ मण्डनार्यनिवेशदृशे नमः । ॐ विषयास्वादविमुखमण्डनार्याभिनन्दकाय नमः । ॐ मण्डनार्यकृतासंख्यप्रणामाञ्जलिदानकाय नमः । ॐ सन्न्यासनिश्चितस्वान्तमण्डनार्यप्रशंसकाय नमः । ॐ विष्टरस्थितिविश्रान्ताय नमः । ॐ शारदाकृतदर्शनाय नमः । ॐ शारदाश्लाघितस्वीयसार्वज्ञ्याय नमः ॥७८०॥ ॐ वादलोलुपाय नमः । ॐ निजधामगमोद्युक्तवाण्यन्तर्धानदर्शकाय नमः । ॐ योगमाहात्म्यसंदृष्टवाणीभाषणतत्पराय नमः । ॐ विधिपत्नीत्वसंदर्शिने नमः । ॐ तन्माहात्म्यानुदर्शकाय नमः । ॐ स्वकल्पितर्ष्यश‍ृङ्गादिक्षेत्रवासाभिकाङ्क्षकाय नमः । ॐ श‍ृङ्गगिर्यादिसुक्षेत्रसानिध्यप्रार्थनापराय नमः । ॐ भारतीसमनुज्ञातक्षेत्रसानिध्यतोषिताय नमः । ॐ अकस्मातन्तर्धिदर्शिने नमः ॥७९०॥ ॐ विस्मयाकुलमानसाय नमः । ॐ विधिवद्दत्तसर्वस्वमण्डनार्यानुमोदकाय नमः । ॐ सन्न्यासगृह्यविध्युक्तसर्वकर्मोपदेशकाय नमः । ॐ श्रीमन्मण्डनकर्णोक्तमहावाक्यचतुष्टयाय नमः । ॐ महावाक्यगताशेषतत्वार्थश्रावकाय नमः । ॐ गुरवे नमः । ॐ तत्वम् पदगवाच्यार्थलक्ष्यार्थप्रतिपादकाय नमः । ॐ लक्षोभयार्थैक्यबोधिने नमः । ॐ नानादृष्टान्तदर्शकाय नमः । ॐ देहाद्यहम्ताममतासमूलोन्मूलनक्रमाय नमः । ॐ बृहदारण्यकप्रोक्तमहामत्स्यनिदर्शकाय नमः । ॐ जाग्रदाद्यात्मसम्बन्धराहित्यप्रतिपादकाय नमः । ॐ विवर्तवादसिद्धान्तसमर्थनपरायणाय नमः । ॐ तात्पर्यलिङ्गनिर्णीतपरमाद्वैततत्वकाय नमः । ॐ गुरुमाहात्म्यसंदर्शिने नमः । ॐ तत्वविदे नमः । ॐ तत्वबोधकाय नमः । ॐ निजाङ्घ्रियुग्मपतितसुरेश्वरकटाक्षकृते नमः । ॐ करुणालिङ्गितापाङ्गक्षपितान्तस्तमोमलाय नमः । ॐ सुरेश्वराख्यासंदात्रे नमः ॥८१०॥ ॐ सुरेश्वरसुपूजिताय नमः । ॐ नर्मदातीरसंवासिने नमः । ॐ श्रीशैलगमनोत्सुकाय नमः । ॐ मल्लिकार्जुनसंदर्शिने नमः । ॐ भ्रमराम्बाप्रणामकृते नमः । ॐ माहेश्वरादिविजयिशिष्यवर्गसमाश्रिताय नमः । ॐ अशेषदिक्प्रसृमरयशोज्योत्स्नानिशाकराय नमः । ॐ निजमाहात्म्यसंश्रोतृकापालिककृतानतये नमः । ॐ कापालिककृतानेकस्तुतिजालाय नमः । ॐ निरादराय नमः ॥८२०॥ ॐ कपालिप्रीणनार्थस्वगमनोक्तिसुसंश्रविणे नमः । ॐ सर्वज्ञमस्तकापेक्षितदुक्तिपरिचिन्तकाय नमः । ॐ निजसर्वज्ञतावाचिकापालोक्तिविचिन्तकाय नमः । ॐ स्वशिरःप्रार्थनोद्युक्तकापालिककृतानतये नमः । ॐ बह्वपायस्वीयकायदोषदर्शनतत्पराय नमः । ॐ परोपकारनैरत्यव्रतपालनतत्पराय नमः । ॐ निजकायापगमननिर्व्याकुलनिजान्तराय नमः । ॐ समाधिकालीनशिरश्छेदानुज्ञाप्रदायकाय नमः । ॐ एकान्तसंस्थिताय नमः । ॐ योगिने नमः ॥८३०॥ ॐ समाध्यालीनमानसाय नमः । ॐ परमात्मानुसन्धाननिर्गताशेषचिन्तनाय नमः । ॐ निष्कम्पदेहाय नमः । ॐ निर्मोहाय नमः । ॐ निरन्तरसुखात्मकाय नमः । ॐ स्ववधोद्युक्तकापालिकागमनावबोधकाय नमः । ॐ जत्रुप्रदेशनिहितचिबुकाय नमः । ॐ दृष्टनासिकाय नमः । ॐ सिद्धासनसमासीनाय नमः । ॐ निर्गतद्वैतभावनाय नमः ॥८४०॥ ॐ चिन्मात्रपरमानन्दलहरीमग्नमानसाय नमः । ॐ कृपाणकरकापालिवधोद्योगानवेक्षकाय नमः । ॐ ज्ञातवृत्तान्तपद्माङ्घ्रिमारितस्वीयशत्रुकाय नमः । ॐ नृसिंहवेषपद्माङ्घ्रिकृतार्भटविचालिताय नमः । ॐ समाधिव्युत्थितमतये नमः । ॐ उन्मीलितविलोचनाय नमः । ॐ तदट्टहासनिर्घोषबधिरीभूतकर्णकाय नमः । ॐ दंष्ट्राकरालवदनश्रीमन्नृहरिदर्शकाय नमः । ॐ आक्स्मिकनृसिंहावलोकनस्तिमितान्तराय नमः । ॐ निर्भीताय नमः । ॐ गलदानन्दभाष्पाय नमः । ॐ स्तुतिपरायणाय नमः । ॐ नृसिंहक्रोधशान्त्यर्थप्रार्थनातत्पराय नमः । ॐ यतये नमः । ॐ नृसिंहावेशसम्भ्रान्तपद्मपादप्रदर्शकाय नमः । ॐ स्वप्नायितस्ववृत्तान्तज्ञातृपद्माङ्घ्रिप्रणताय नमः । ॐ विस्मयाकुलाय नमः । ॐ गोकर्णाभ्यर्णसञ्चारिणे नमः । ॐ गोकर्णेश्वरपादाब्जप्रणन्त्रे नमः । ॐ प्रीतमानसाय नमः । ॐ गोकर्णनाथसम्स्तोत्रे नमः । ॐ त्रिरात्रस्थितितत्पराय नमः । ॐ मूकाम्बिकामहादेवीसन्दर्शनकृतार्थधिये नमः । ॐ द्विजदम्पतिसन्दर्शिने नमः । ॐ तद्रोदनविखिन्नधिये नमः । ॐ तदङ्कगामिमृतकशिशुसन्दर्शनातुराय नमः । ॐ अनङ्गवाणीसंश्रोत्रे नमः । ॐ पुत्रोज्जीवनलालसाय नमः ॥८७०॥ ॐ द्विजसंवर्णितस्वीयमहिमाय नमः । ॐ सर्वपालकाय नमः । ॐ तत्कालोत्थिततत्पुत्रजीवनप्रीतमानसाय नमः । ॐ निजमाहात्म्यसन्द्रष्टृजनविस्मयकारकाय नमः । ॐ मूकाम्बादर्शनाकाङ्क्षिणे नमः । ॐ तत्क्षेत्रवासतत्पराय नमः । ॐ उच्चावचगभीरार्थस्तोत्रनिर्माणकौतुकिने नमः । ॐ स्वकर्मनिष्ठविप्राढ्यश्रीबलिग्रामसेवकाय नमः । ॐ प्रभाकराख्यसद्विप्रबालमौग्ध्यापनोदकाय नमः । ॐ स्वपादशरणायाततद्विप्रानुग्रहोत्सुकाय नमः ॥८८०॥ ॐ प्रणामकर्तृतत्पुत्रसमुत्थापनतत्पराय नमः । ॐ द्विजवर्णिततत्पुत्रमुग्धचेष्टावचःश्रविणे नमः । ॐ अन्तःप्रच्छन्नवह्न्याभद्विजदारकदर्शनाय नमः । ॐ तन्माहात्म्यविशेषज्ञाय नमः । ॐ मौनमुद्राविभेदकाय नमः । ॐ द्विजदारकसम्प्रश्नकरणोद्यतमानसाय नमः । ॐ तदीयजडताहेतुपृच्छकाय नमः । ॐ करुणाकराय नमः । ॐ बालवेषप्रतिच्छन्नतदुक्तिश्रवणोत्सुकाय नमः । ॐ देहादिजडताबोधिबालवाक्यातिविस्मिताय नमः ॥८९०॥ ॐ स्वचेतनत्वसम्बोधितद्वचःश्लाघनापराय नमः । ॐ पद्यद्वादशिकाकर्तृतत्प्रज्ञाश्लाघनोत्सुकाय नमः । ॐ तत्त्वज्ञताप्रकटतदुक्तिप्रतिनन्दकाय नमः । ॐ अध्यापनादिरहितबालप्रज्ञातिविस्मिताय नमः । ॐ तदनुग्रहणोद्युक्ताय नमः । ॐ तन्मूर्धन्य्स्तहस्तकाय नमः । ॐ गृहवासाद्ययोग्यत्वदर्शकाय नमः । ॐ श्लाघनापराय नमः । ॐ द्विजातिप्रेषणोद्युक्ताय नमः । ॐ शिष्यसंग्रहणोद्युक्ताय नमः ॥९००॥ ॐ हस्तामलकसंज्ञासन्द्रात्रे नमः । ॐ न्यासदायकाय नमः । ॐ स्वशिष्यभावानुगतहस्तामलकसंश्रिताय नमः । ॐ श्रिङ्गगिर्याख्यसुक्षेत्रगमनोद्यतमानसाय नमः । ॐ तुङ्गभद्राकृतस्नानाय नमः । ॐ भाष्यप्रवचनोत्सुकाय नमः । ॐ शारदालयनिर्मात्रे नमः । ॐ शारदास्थापनापराय नमः । ॐ शारदापूजनोद्युक्ताय नमः । ॐ शारदेन्दुसमाननाय नमः ॥९१०॥ ॐ गिर्याख्यनिजसच्छिष्यशुश्रूषाप्रीतमानसाय नमः । ॐ पाठार्थसमुपाविष्टशिष्यमण्डलमण्डिताय नमः । ॐ स्वशाटीक्षाळनोद्युक्तगिर्यागमननिरीक्षकाय नमः । ॐ निजशिष्यान्तरासूयानिराकरणतत्पराय नमः । ॐ गिर्याख्यनिजसच्छिष्यानुग्रहैकपरायणाय नमः । ॐ स्वानुग्रहाप्तसर्वज्ञभावगिर्यभिनन्दिताय नमः । ॐ विदिताखिलसद्विद्यागिर्यभिवन्दिताय नमः । ॐ तोटकाभिदसद्वृत्तोज्वलपद्यावकर्णकाय नमः । ॐ शिष्यान्तराभिविज्ञातकरुणालेशवैभवाय नमः । ॐ गुर्वनुग्रहमाहात्म्यसन्दर्शिने नमः ॥९२०॥ ॐ लोकसङ्ग्रहिणे नमः । ॐ तोटकाख्याप्रदात्रे नमः । ॐ श्रीतोटकार्यातिसत्कृताय नमः । ॐ तत्वार्थगर्भतद्वाक्यशैलीवैभवचिन्तकाय नमः । ॐ सुरेश्वरार्यपद्माङ्घ्रिहस्तामलकसंश्रिताय नमः । ॐ तोटकानुगताय नमः । ॐ शिष्यचतुष्टयसमाश्रिताय नमः । ॐ सुरेश्वरापेक्षितस्वभाष्यवार्तिकनिर्मितये नमः । ॐ वार्तिकारचनानुज्ञादात्रे नमः । ॐ देशिकपुङ्गवाय नमः ॥९३०॥ ॐ सिद्धान्तापगमाशङ्किपद्माङ्घ्र्यादिप्रबोधिताय नमः । ॐ वार्तिकग्रंथनिर्माणजातविघ्नानुदर्शकाय नमः । ॐ शिष्यनिर्बन्धानुगामिने नमः । ॐ शिष्यौघकरुणाकराय नमः । ॐ पद्माङ्घ्रिरचितस्वीयभाष्यटीकानिरीक्षकाय नमः । ॐ रम्यनैष्कर्म्यसिद्ध्यादिसुरेशग्रंथदर्शकाय नमः । ॐ आद्यन्तग्रंथसन्दर्भदर्शनप्रीतमानसाय नमः । ॐ ग्रंथनिर्माणवैदग्ध्यदर्शनाधिकविस्मिताय नमः । ॐ तैत्तरीयस्वीयभाष्यवृत्तिनिर्मापणोत्सुकाय नमः । ॐ बृहदारण्यसद्भाष्यवार्तिकश्रवणादृताय नमः ॥९४०॥ ॐ अनेकशिष्यरचिताद्वैतग्रंथावलोकनाय नमः । ॐ तीर्थयात्राकृतोत्साहपद्मपादोक्तिचिन्तकाय नमः । ॐ तीर्थयात्राभवानेकदोषसङ्घप्रदर्शकाय नमः । ॐ नानाविक्षेपसाहस्रसम्भवप्रतिपादकाय नमः । ॐ तीर्थयात्रैकनिर्बन्धपद्मपादानुमोदकाय नमः । ॐ स्वोपदेशवचोऽश्रोतृपद्मपादानुशोचकाय नमः । ॐ मार्गदोषादिसन्दर्शिने नमः । ॐ जागरूकत्वबोधकाय नमः । ॐ आसन्नमरणस्वीयजननीस्मरणातुराय नमः । ॐ स्मृतिमात्रसमापन्नमातृपार्श्वाय नमः ॥९५०॥ ॐ अतिभक्तिमते नमः । ॐ मातृसन्दर्शनप्रीताय नमः । ॐ प्रीणितस्वीयमातृकाय नमः । ॐ स्वसम्स्कारैकसम्प्रार्थिमातृवाञ्छानुपालकाय नमः । ॐ तारकाख्यपरब्रह्मोपदेष्ट्रे नमः । ॐ परमेश्वराय नमः । ॐ ब्रह्मानभिज्ञजननीसन्तारणपरायणाय नमः । ॐ निजस्तोत्रसमायातपरमेशप्रदर्शकाय नमः । ॐ जननीभयसन्द्रष्ट्रे नमः । ॐ माधवस्तुतितत्पराय नमः ॥९६०॥ ॐ स्तुतिमाहात्म्यसम्प्राप्तविष्णुमूर्तिप्रदर्शकाय नमः । ॐ तद्दर्शनसमुत्पन्नजननीप्रीतिभाजनाय नमः । ॐ विष्णुदूतविमानस्थमातृदर्शनविर्वृताय नमः । ॐ तत्सम्स्कारकृतोद्योगाय नमः । ॐ बन्धुवर्गसमाह्वायिने नमः । ॐ सम्स्कारार्थाग्निसम्प्रार्थिने नमः । ॐ बन्धुवर्गनिराकृताय नमः । ॐ दक्षदोर्मथनप्राप्तवह्निसम्स्कृतमातृकाय नमः । ॐ आग्न्यदातृस्वीयजनवेदबाह्यत्वशापकृते नमः । ॐ यतिभिक्षाभाववाचिने नमः । ॐ स्मशानीकृततद्गृहाय नमः । ॐ पद्मपादागमकाङ्क्षिणे नमः । ॐ तद्देशकृतवासकाय नमः । ॐ महासुरालयेशानसन्दर्शनपरायणाय नमः । ॐ शिष्यवर्गागमाभिज्ञाय नमः । ॐ कुशलप्रश्नचोदकाय नमः । ॐ पद्माङ्घ्रिबोधितस्वीयसर्ववृत्तान्तसंश्रविणे नमः । ॐ पूर्वमातुलसन्दग्धतट्टीकोट्यनुशोचकाय नमः । ॐ टीकालोपातिनिर्विण्णपद्मपादानुनायकाय नमः । ॐ प्रज्ञामान्द्यकरात्युग्रगरदानोक्तिसंश्रविणे नमः ॥९८०॥ ॐ निजपादाभिपतितपद्मपादानुकम्पनाय नमः । ॐ पूर्वसंश‍ृतटीकास्थपञ्चपाद्यनुचिन्तकाय नमः । ॐ पञ्चपादीयगताशेषविषयप्रतिपादकाय नमः । ॐ टीकालेखनसन्तुष्टपद्मपादातिपूजकाय नमः । ॐ विस्मितस्वीयशिषौघसमभिष्टुतवैभवाय नमः । ॐ नाटकापायदुःखार्तकेरळेशसमाधिकृते नमः । ॐ यथोक्तनाटकाख्यानविस्मापितनरेश्वराय नमः । ॐ सुधन्वराजसच्छिष्यसहिताय नमः । ॐ विजयोज्वलाय नमः । ॐ रामसेतुकृतस्नानाय नमः ॥९९०॥ ॐ शाक्तौघविजयोत्साहाय नमः । ॐ काञ्चीविदर्भकर्णातदेशसञ्चारनिर्वृताय नमः । ॐ कापालिकौघविजयिने नमः । ॐ नीलकण्ठजयोज्वलाय नमः । ॐ गुप्ताभिचाराभिज्ञपद्माङ्घ्रिकृतसौख्यभाजे नमः । ॐ गौडपादार्यसन्दर्शनानन्दाब्धिनिमग्नधिये नमः । ॐ काश्मीरदेशविलसच्छारदापीथदर्शकाय नमः । ॐ दक्षिणद्वारसंविष्टवादिव्रातजयोज्वलाय नमः । ॐ विजयप्राप्तसर्वज्ञपीठारोहणकौतुकिने नमः । ॐ देवताकृतसत्पुष्पवृष्टिसञ्छन्नमूर्तिकाय नमः । ॐ कैलासशैलगमनपरमानन्दनिर्भराय नमः । ॐ ब्रह्मादिरचिताह्वानाय नमः । ॐ शिष्यवर्गकृतानतये नमः । ॐ महोक्षारोहणोद्युक्ताय नमः । ॐ पद्मजार्पितहस्तकाय नमः । ॐ सर्वाभिलाषकरणनिरताय नमः । ॐ निर्वृतान्तराय नमः । ॐ श्री कैलासशैलगमनपरमानन्दनिर्भराय नमः । ॐ श्रीमत्सद्गुरुपरप्रह्मणे नमः ॥ॐ॥ ॥१००८॥ अन्तर्ध्वान्तनिवारणैकतरणिस्तापत्रयोग्रानल ज्वालात्त्यन्तिकशामनैकजलदो दुःखाम्बुधेर्बाडवः । प्रज्ञानन्दसुधाम्बुदेरुदयभाग्राकासुधादीधितिः नित्यं शङ्करदेशिकेन्द्रयतिराट् हृद्व्योम्नि विद्योतताम् ॥ भक्तजनहृत्तिमिरकर्तनविकर्तनान् द्वन्द्वमुखदुःखविषसर्पगरुडोत्तमान् । जन्ममृतिदुर्गतिमहार्णवघटोद्भवान् शङ्करगुरूत्तमपदान् नमत सत्तमान् ॥ जय जय शङ्कर । ॐ श्री ललिता महात्रिपुरसुन्दरी पराभट्टारिका समेताय श्री चन्द्रमौळीश्वर परब्रह्मणे नमः ।