अक्षर आकार:

श्रीशङ्कराचार्याष्टोत्तरशतनामस्तोत्रम्

Shri Shankaracharya Stotra of 108 Names

श्रीशङ्कराचार्याष्टोत्तरशतनामस्तोत्रम्

श्रीशङ्कराचार्यवर्यो ब्रह्मानन्दप्रदायकः । अज्ञानतिमिरादित्यस्सुज्ञानाम्बुधिचन्द्रमाः ॥ १॥ वर्णाश्रमप्रतिष्ठाता श्रीमान्मुक्तिप्रदायकः । शिष्योपदेशनिरतो भक्ताभीष्टप्रदायकः ॥ २॥ सूक्ष्मतत्त्वरहस्यज्ञः कार्याकार्यप्रबोधकः । ज्ञानमुद्राञ्चितकरश्-शिष्यहृत्तापहारकः ॥ ३॥ परिव्राजाश्रमोद्धर्ता सर्वतन्त्रस्वतन्त्रधीः । अद्वैतस्थापनाचार्यस्साक्षाच्छङ्कररूपभृत् ॥ ४॥ षन्मतस्थापनाचार्यस्त्रयीमार्ग प्रकाशकः । वेदवेदान्ततत्त्वज्ञो दुर्वादिमतखण्डनः ॥ ५॥ वैराग्यनिरतश्शान्तस्संसारार्णवतारकः । प्रसन्नवदनाम्भोजः परमार्थप्रकाशकः ॥ ६॥ पुराणस्मृतिसारज्ञो नित्यतृप्तो महाञ्छुचिः । नित्यानन्दो निरातङ्को निस्सङ्गो निर्मलात्मकः ॥ ७॥ निर्ममो निरहङ्कारो विश्ववन्द्यपदाम्बुजः । सत्त्वप्रधानस्सद्भावस्सङ्ख्यातीतगुणोज्ज्वलः ॥ ८॥ अनघस्सारहृदयस्सुधीसारस्वतप्रदः । सत्यात्मा पुण्यशीलश्च साङ्ख्ययोगविलक्षणः ॥ ९॥ var विचक्षणः तपोराशिर् महातेजो गुणत्रयविभागवित् । कलिघ्नः कालकर्मज्ञस्तमोगुणनिवारकः ॥ १०॥ var कालधर्म भगवान्भारतीजेता शारदाह्वानपण्दितः । धर्माधर्मविभावज्ञो लक्ष्यभेदप्रदर्शकः ॥ ११॥ नादबिन्दुकलाभिज्ञो योगिहृत्पद्मभास्करः । अतीन्द्रियज्ञाननिधिर्नित्यानित्यविवेकवान् ॥ १२॥ चिदानन्दश्चिन्मयात्मा परकायप्रवेशकृत् । अमानुषचरित्राढ्यः क्षेमदायी क्षमाकरः ॥ १३॥ भव्यो भद्रप्रदो भूरिमहिमा विश्वरञ्जकः । var भवो स्वप्रकाशस्सदाधारो विश्वबन्धुश्शुभोदयः ॥ १४॥ विशालकीर्तिर्वागीशस्सर्वलोकहितोत्सुकः । कैलासयात्रसम्प्राप्तचन्द्रमौलिप्रपूजकः ॥ १५॥ काञ्च्यां श्रीचक्रराजाख्ययन्त्रस्थापनदीक्षितः । श्रीचक्रात्मक ताटङ्क तोषिताम्बा मनोरथः ॥ १६॥ ब्रह्मसूत्रोपनिषद्भाष्यादिग्रन्थकल्पकः । चतुर्दिक्चतुराम्नायप्रतिष्ठाता महामतिः ॥ १७॥ द्विसप्ततिमतोच्छेत्ता सर्वदिग्विजयप्रभुः । काषायवसनोपेतो भस्मोद्धूळितविग्रहः ॥ १८॥ The verses 19-24 below are followed at Kanchi maTham ज्ञानात्मकैकदण्डाढ्यः कमण्डलुलसत्करः । व्याससन्दर्शनप्रीतो भगवत्पादसंज्ञकः ॥ १९॥ सौन्दर्यलहरीमुख्यबहुस्तोत्रविधायकः । चतुष्षष्टिकलाभिज्ञो ब्रह्मराक्षसपोषकः ॥ २०॥ श्रीमन्मण्डनमिश्राख्यस्वयम्भूजयसन्नुतः । तोटकाचार्यसम्पूज्य पद्मपादर्चिताङ्घ्रिकः ॥ २१॥ हस्तामलयोगीन्द्र ब्रह्मज्ञानप्रदायकः । सुरेश्वराख्यसच्छिष्य संन्यासाश्रमदायकः ॥ २२॥ निर्व्याजकरुणामूर्तिः जगत्पूज्यो जगद्गुरुः । भेरीपटहवाद्यादि-राजलक्षणलक्षितः ॥ २३॥ सकृत्स्मरणसन्तुष्टः सर्वज्ञो ज्ञानदायकः । इति श्रीमच्छङ्करार्यसर्वलोकगुरोः परम् ॥ २४॥ The verses 19-24 below are followed at Sringeri maTham ज्ञानात्मकैकदण्डाढ्यः कमण्डलुलसत्करः । गुरुभूमण्डलाचार्यो भगवत्पादसंज्ञकः ॥ १९॥ व्याससन्दर्शनप्रीतः ऋष्यश‍ृङ्गपुरेश्वरः । सौन्दर्यलहरीमुख्यबहुस्तोत्रविधायकः ॥ २०॥ चतुष्षष्टिकलाभिज्ञो ब्रह्मराक्षसपोषकः । श्रीमन्मण्डनमिश्राख्यस्वयम्भूजयसन्नुतः ॥ २१॥ तोटकाचार्यसम्पूज्य पद्मपादर्चिताङ्घ्रिकः । हस्तामलयोगिन्द्र ब्रह्मज्ञानप्रदायकः ॥ २२॥ सुरेश्वराख्यसच्छिष्य संन्यासाश्रमदायकः । नृसिंहभक्तस्सद्रत्नगर्भहेरम्बपूजकः ॥ २३॥ व्याख्यसिंहासनाधीशो जगत्पूज्यो जगद्गुरुः । इति श्रीमच्छङ्कराचार्यसर्वलोकगुरोः परम् ॥ २४॥ नाम्नामष्टोत्तरशतं भुक्तिमुक्तिफलप्रदम् । त्रिसन्ध्यं यः पठेद्भक्त्या सर्वान्कामानवाप्नुयात् ॥ २५॥ इति श्रीमच्छङ्कराचार्याष्टोत्तरशतनामस्तोत्रम् ॥