अक्षर आकार:

श्रीशङ्कराचार्यशतकम्

Shri Shankaracharya Shatakam

श्रीशङ्कराचार्यशतकम्

श्रीशिवदत्तशर्माचतुर्वेदः साहित्यविभागाध्यक्षः काशीहिन्दूविश्वविद्यालयस्य संस्कृतसङ्काये शङ्करभगवत्पादं शिवाऽवतारं समाश्रये सुखदम् । कल्याणाय जनानां ज्ञानामृतवर्षिणं मेघम् ॥ १॥ मानवतेयं धन्या सञ्जाता यत्कृपालेशैः । आविर्भूतः प्रथमः स श्रीमान् शङ्कराचार्यः ॥ २॥ भूवलये धन्यतमः सर्वोऽयं कालटीभागः । यत्रत्यधूलिकणिका शङ्करपदसौरभं वहति ॥ ३॥ सा माता धन्यतमा यस्याः कुक्षौ समवतीर्णम् । निखिलागमस्वतन्त्रं सत्यं सच्चिन्मयं ज्योतिः ॥ ४॥ प्रणमामो गोविन्दं भगवन्तं सद्गुरुं नित्यम् । यस्य च शिक्षा फलिता जगद्गुरुत्वे स्वयंवृता काचित् ॥ ५॥ वन्दितदिव्यचरित्रः परमपवित्रः प्रभास्फुरद्गात्रः । भूतभविष्यन्मध्ये विभूतिरिव वर्तमानोऽयम् ॥ ६॥ ज्योतिः किञ्चन साक्षाद् भासितमासीत्तु भूवलये । यच्चाऽनन्तं कालं सम्यक् संस्तम्भयामास ॥ ७॥ कालोऽयं कलिरूपः सत्ययुगादपि समुन्नतो जातः । यस्मिन् शङ्करभगवत्पादैराविष्कृतिः क्लृप्ता ॥ ८॥ धन्या मानवतेयं सञ्जाता शङ्कराचार्यः । स्वयमवतीर्य समस्याः सर्वाः संसाधयामास ॥ ९॥ वेदानामथ मननं विधाय सद्यः समुन्नतं तत्त्वम् । व्याप्तं परमनिगूढं वैशद्येनाथ घोषयामास ॥ १०॥ उपनिषदां व्याख्यानं विहितवता धीमता येन । भाष्याणां सा सरणिः प्रणम्य भावं समानीता ॥ ११॥ तासामथ सर्वासामुपनिषदामुपरि भाष्यसंरचना । या विहिताऽऽचार्यवरैः सुधेव सा जीवनोन्नतये ॥ १२॥ तदनन्तरमुपनिषदां महत्त्वमग्रे परिस्फुरितम् । अद्वैततत्त्वमयता सर्वासां सुस्फुटा जाता ॥ १३॥ तदिदं किञ्चन तावद्विलक्षणं दिव्यताभरितम् । विज्ञानं विद्योतितमभवच्छ्रीशङ्कराचार्यैः ॥ १४॥ व्याख्या तावदियं सा गरीयसी शङ्कराचार्यैः । उपनिषदां या रचिता संसारे निधिरयं कश्चित् ॥ १५॥ पञ्चमवेदविवर्ते दिव्ये तस्मिन् महत्त्वसम्पूर्णे । गीता सङ्ग्रथिताऽऽसीन्महितमहाभारते ग्रन्थे ॥ १६॥ वेदव्यासविरचना सेयं क्रोडीचकार तत्सर्वम् । मानवजीवनमध्ये समुन्नतं यत् प्रकाम्यं वा ॥ १७॥ तत्र च गीता दिव्या श्रीकृष्णेनार्जुनाय सन्दिष्टा । शङ्करभगवत्पादव्याख्यानं संप्रतीक्षमाणाऽऽसीत् ॥ १८॥ तदुपरि भाष्यविरचना कृता समासीत्तु शङ्कराचार्यैः । तदवधि गीता गीता जाता सर्वासु जनतासु ॥ १९॥ अद्वैतस्य समुद्रं तरङ्गितं वा न पश्यन्तः । दिग्भ्रान्ता इव मूढा जन्मनि जन्मनि भजन्ति दुःखचयम् ॥ २०॥ अद्वैताख्यं तत्त्वं गीतायां गीतमेव कृष्णेन । तत्सन्देशं लब्ध्वा पार्थो विजयी बभूव सङ्ग्रामे ॥ २१॥ पार्थत्वं ननु जातिः काचन सर्वेषु देहेषु । काले काले स्वीयं रूपं सम्यक् प्रकाशयत्येव ॥ २२॥ अद्यापि सैव गीता श्रीकृष्णस्यैव मुखकमलसञ्जाता । सर्वविधं पार्थत्वं पदे पदे सन्दिशत्येव ॥ २३॥ सर्वमपीदं तत्त्वं गीताभाष्यस्य रचनायाम् । शङ्करभगवत्पादैः प्रकाशितं सर्वदा जयति ॥ २४॥ यद्यप्यासीद् गीता महति महाभारते विमला । किन्तु महत्त्वं तस्याः प्राथम्येन प्रकाशितं जातम् ॥ २५॥ तावत्प्रभृति समेषामाचार्याणां च विदुषां च । दृष्टौ गीता काचिद् विपुलज्ञाने गभीरनदी ॥ २६॥ यद्यपि शङ्करभगवत्पादैर्व्याख्यायिता गीता । तत्रैव पूर्वभाष्याणामपि सङ्केत उल्लसति ॥ २७॥ किन्तु न मिलितान्येतान्यद्यावधि भाष्यरूपाणि । शङ्करभगवत्पादैरारचितं भाष्यमेवाऽऽद्यम् ॥ २८॥ अग्रे तु प्रस्थानत्रयमध्ये सुप्रतिष्ठिता गीता । नानाव्याख्यानानां केन्द्रीभूतैव सञ्जाता ॥ २९॥ अद्वैतवादविमतैरप्याचार्यैर्मता गीता । सर्वा सम्परिपीता कर्ममये जीवने सर्वैः ॥ ३०॥ गीताऽमृतमिदमतुलं सूक्ष्मेक्षिकया विचारयन्वाचा । नूनं निखिलं तेजो सम्भृतवांस्तद् विचारेषु ॥ ३१॥ योऽयं मर्यादाया गरिमा कश्चित् समुच्छलति । सर्वोऽयं सन्देशः करुणापूर्णस्य शङ्कराचार्यस्य ॥ ३२॥ श्रीव्यासेन विरचितं दिव्यतमं ब्रह्मसूत्रं तत् । शारीरिकेण भाष्येणाऽसौ स्वच्छं प्रकल्पयामास ॥ ३३॥ वेदान्तडिण्डिमानां घोषश्चासीत् समुच्छलितः । वैचारिकसङ्घर्षाणामप्येषा विलक्षणा सरणिः ॥ ३४॥ उपनिषदामतिगहने ज्ञानवने सञ्चरन्नित्यम् । दिव्यफलानामन्वेषणमथ दानश्रीगुरुर्विदधे ॥ ३५॥ दर्शनसारैः सर्वैरोतप्रोतानि भिक्षुसूत्राणि । श्रोबादरायणकृतानि व्याख्या रत्नैविभूषयामास ॥ ३६॥ सर्वेषामथ तेषां तेषां विख्यातदर्शनानां वा । सुगभीराणि मतानि तु नूनं विश्लेषयामास ॥ ३७॥ ज्ञानस्याद्याकाशे नूतनसूर्यायितं येन । प्रातःस्मरणीयोऽसौ पुण्यश्लोकोऽस्ति शङ्कराचार्यः ॥ ३८॥ स्वयमेव श्रीव्यासश्छन्नतया यत्समीपमागत्य । शास्त्रार्थं च वितन्वन् स्वात्मानं तोषयामास ॥ ३९॥ विद्यारण्यविरचितं शङ्करदिग्विजयमालोच्य । शङ्करभगवत्पादे जातं विनयोज्ज्वलं चेतः ॥ ४०॥ इतिहासानां मध्ये विभूतिसारैर्विभूषितस्वान्तः । बुद्धादूर्ध्वं पुरुषो न दृष्टिपथगो विभात्यद्य ॥ ४१॥ विमता येन ध्वस्ता वैदिकमार्गाः प्रकाशिताः सम्यक् । सर्वो लोको नूनं नित्यं सच्छिष्यतां नीतः ॥ ४२॥ दिव्यं जगद्गुरुपदं स्वयमेवोपायनीकृत्य । भारतजनता तुष्टा मानवता चापि सम्पुष्टा ॥ ४३॥ पोषितचारित्रचित्रैर्विभूषितं वा चराचरञ्चैतत् । शङ्करभगवत्पादध्यानैरानन्दितं जातम् ॥ ४४॥ सर्वेषामपि तावद्देवानां चाऽथ देवीनाम् । दिव्याः स्तुतयो रचिता विनिर्मलैश्छन्दसां निचयैः ॥ ४५॥ सर्वेषामथ तेषां स्तुतिरूपश्च्छन्दसां महिमा । सत्यं सत्यमनन्तं सुखसंसारं समानयति ॥ ४६॥ सौन्दर्यलहरिकायाः प्रवाहमाला निमग्नानाम् । भक्तानां हृदयानां या भाषा साऽस्ति मन्त्रमयी ॥ ४७॥ भजगोविन्दस्तोत्रे जनजनमानसविराजिते दिव्ये । कल्याणानां करुणां धारां विस्तारयाञ्चक्रे ॥ ४८॥ वाराणसीनिवासे लीलानां दिव्यचित्राणि । सम्पश्यन् विचचार स्वच्छन्दं शङ्कराचार्यः ॥ ४९॥ श्रीविश्वनाथपूजनजगदम्बार्चननिवेदनेन विश्वेशम् । कोटीनपि तान्देवानावाहितवान् विभावना भरितः ॥ ५०॥ सर्वेषामथ तेषां देवानां तुष्टिमातन्वन् । गाङ्गं पयः पिबन्नथ विरजोरूपे विराजितो जातः ॥ ५१॥ नास्तिकतासिद्धान्तान् विवादमध्ये समाहुत्य । ज्ञानाऽग्निकुण्डमध्ये यज्ञे स्वाहाचकार विक्षिप्तान् ॥ ५२॥ बुद्धो योऽसौ जातोऽवताररूपस्तदुपदेशान् । धूर्ता विपरीततया काले विस्तारयामासुः ॥ ५३॥ आसीद् धूर्तैरेभिस्तादृशमाच्छादितं सर्वम् । ज्ञानस्य गगनमेतत् कालाऽऽवरणैर्यथा मेघैः ॥ ५४॥ वेदान्तपवनवेगैर्विच्छिन्ना बौद्धमेघा ये । भारतवर्षाऽऽकाशं विहाय दूरं प्रयातास्ते ॥ ५५॥ वाग्युद्धानि वितन्वन् बौद्धाचार्यैः सहैव सहसैव । तेषां पराजयानामितिहासे लेखनं चक्रे ॥ ५६॥ मीमांसकान् विवादे सम्यक् सच्छिष्यतां नीत्वा । नानाशास्त्रार्थानां जनतायां संप्रवर्तनं चक्रे ॥ ५७॥ आसेतुराहिमाचलमथाटकात् कटकपर्यन्तम् । पदभ्यां विचरन् नित्यं जनजनसन्दर्शनं चक्रे ॥ ५८॥ दिव्यानथ तान्देवान्दिक्कोणेषु प्रतिष्ठितानपि वा । सम्पूजयन्निकामं सन्तुष्टः शङ्करस्वामी ॥ ५९॥ यत्र हि जगाम जनता कोटिशतैः प्राप तं द्रष्टुम् । दर्शनवन्दनभाषणविनिमयरूपेण धन्यतां भेजे ॥ ६०॥ राजानो येऽप्यासंस्तस्मिन् कालेऽथ संसारे । वैभवमतुलं स्वीयं तच्चरणे प्रार्पयामासुः ॥ ६१॥ स्तोत्राणां या काचिद्दिव्या रचनावलिर्जयति । तस्या उद्भवसंस्था आचार्यस्तोत्रमालेयम् ॥ ६२॥ जीवेश्वरयोर्मिलने बिन्दुत्वं संप्रयातानि । स्तोत्राक्षराणि शाश्वतभावैर्नित्यं प्रपूर्णानि ॥ ६३॥ यत्राऽस्माकं श्रद्धाधाराऽसौ संप्रवहन्नास्ते । तत्रैव स्तुतिकाले चेतो नित्यं निबद्धत्तां याति ॥ ६४॥ अद्वैतदर्शनस्याऽऽविर्भावे यन्मनोलग्नम् । तेन कथं देवानां स्तोत्राणीमानि रचितानि ॥ ६५॥ द्वैते त्वेतत्सर्व स्तोत्रं प्रक्रम्यतां नाम । कथमद्वैते स्तोत्रं तत्र द्वैतत्वमायातम् ॥ ६६॥ सन्देहोऽयं तावदद्वैते नैव साधुतां याति । अज्ञाने तु द्वैताऽवस्थैवाऽत्रानुभूयमानाऽऽस्ते ॥ ६७॥ अज्ञानावस्थतो ज्ञानावस्थं मनो यथा भूयात् । तस्यार्थे सात्त्विकता सङ्गतिरावश्यकी कथिता ॥ ६८॥ अज्ञानावस्थायां द्वैते बुद्धौ प्रजातायाम् । अद्वैतभावनार्थं स्तोत्राणीमानि रचितानि ॥ ६९॥ अद्वैते तु तदेकं दृश्यं द्रष्टा च नो किञ्चित् । रूपं मृग्यं जातं केवलमेकं हि तत्त्वं तत् ॥ ७०॥ नूनं तस्या एवोच्चाया भूमेरवाप्त्यर्थम् । नानाजन्म गृहीतं नानारूपाणि चाप्तानि ॥ ७१॥ नाना-भाव-विलोपोऽपि च नानात्वेनैव सम्भाव्यः । एतत्तत्त्वं मत्वा स्तोत्राणां पद्धतिः सेयम् ॥ ७२॥ द्वैताऽवस्थास्थितिरप्येषा निर्मलतां यायात् । तस्मिन्नर्थे चैते देवा एवोपकुर्वन्ति ॥ ७३॥ अद्वैताऽवस्थायां यदा स्थितिर्जायते नाम । नूनं तदा न संस्तुतिरप्येषा चादृता भवति ॥ ७४॥ या साहित्ये सेवा विहिता श्रीशङ्कराचार्यैः । नैकशताब्दीं यावत्साऽद्याप्यायात्यविच्छिन्ना ॥ ७५॥ पुनः समाजदृष्टिर्याता श्रीशङ्कराचार्याणाम् । वैदिकमार्गविलोपस्तेषां क्षणमपि न सह्यतां यातः ॥ ७६॥ वैचारिकसङ्घर्षे बौद्धान् सम्यक् पराजित्य । वैदिकविश्वासानां दीप्तिः स्थानं परं लेभे ॥ ७७॥ आस्तिकताया घोषो नूनं तैरेव तादृशो विहितः । भूमण्डलमिदमखिलं दिव्यैर्भावैर्विमण्डितं येन ॥ ७८॥ नानावतारचर्चा परमेश्वररूपचित्रेषु । जनतायां हृन्मन्दिरमध्यस्थेयं पुनर्जाता ॥ ७९॥ वर्णाश्रममर्यादा देशे संस्थापिता जाता । शान्तिः काऽप्यवतीर्णा समृद्धिमयता समायाता ॥ ८०॥ वैराग्याविष्कारे नूनं तैर्यन्मनो दत्तम् । संन्यासआश्रमधारा नवावतारा स्थितिं प्राप ॥ ८१॥ दशनाम्नां संन्यासआश्रमनिष्ठानां विभूतिरूपाणाम् । आविर्भावे जाते लोको वैराग्यमापेदे ॥ ८२॥ वैराग्यमयी धारा नतमां साधारणी काचित् । नैवेयं सङ्घर्षात्पलायने कापि सरणिः स्यात् ॥ ८३॥ जीवनसफलीकरणे वैराग्यस्यैव धारेयम् । पूर्णतमं स्वाराज्यं जीवनमध्ये समादिशति ॥ ८४॥ सर्वासां सिद्धीनां साम्राज्ये संस्थितो भूत्वा । दूरे संस्थित आसीन्मुक्तो मुक्तिप्रदाताऽयम् ॥ ८५॥ देशस्य चतुष्कोणे पीठानां स्थापनां कृत्वा । धार्मिकमर्यादानां परिपालनभावमातेने ॥ ८६॥ अद्यापि तेषु पीठेष्वासीनाः शङ्कराचार्याः । धार्मिकसद्भावानां प्रचारकार्येषु सज्जन्ते ॥ ८७॥ शङ्करभगवत्पादैर्या या सरणिः प्रवर्तिता दिव्या । सा सैवाऽद्य समस्ते देशे परिपाल्यते सकलैः ॥ ८८॥ सोऽयं भारतदेशोऽद्यत्वे तद्दिष्टमार्गाणाम् । अवलम्बनमथ कृत्वा जगद्गुरुत्वं वहन् जयति ॥ ८९॥ इतिहासे स्वर्णमये लिखितं कालेन करुणारम्यम् । नानाऽसङ्ख्यैश्चरितैस्तदिदं विभ्राजते ज्योतिः ॥ ९०॥ दर्शन-विचार-सरणौ शाङ्करसिद्धान्तमुज्झित्वा । कोऽपि विचारः कर्तुन्नतमामद्याऽस्ति शक्यसम्पादः ॥ ९१॥ स्तोत्राणां साहित्ये शङ्करवाक्यावलिः सेयम् । सन्तर्पयति नितान्तं मानसमद्यापि सहृदयावल्याः ॥ ९२॥ शङ्करचरितसमर्चनविधया नूनं महाकवयः । छन्दोवितानमसमं नूनं विस्तारयन्त्यद्य ॥ ९३॥ शास्त्रविचारावसरे शीर्षस्थः शङ्कराचार्यः । सर्वैरेवोद्ध्रियते नास्तिकहास्तिकपञ्चाननः सद्यः ॥ ९४॥ खण्डनमण्डनसरणिः काऽपि समायोज्यतां नाम । शङ्करभगवत्पादा नो विस्मरणीयतां यान्ति ॥ ९५॥ संन्यासैमण्डलानां सर्वस्वं शङ्कराचार्याः । संन्यासैनां समाजे श्रेष्ठत्वं सर्वसम्मतं चाऽस्ते ॥ ९६॥ ग्रन्थाऽगारे तावद् विलोक्यते ग्रन्थनिचयेषु । शाङ्करसिद्धान्तानां ग्रन्थानां सा महीयसी सङ्ख्या ९७॥ उत्तरदक्षिणभेदं विलोपयन्नूनमाचार्यः । दक्षिणदेशोत्पन्नश्चोत्तरदेशेषु बभ्राम ॥ ९८॥ जडजङ्गमजगतामथ सिद्धान्तेऽद्वैतमास्थाय । ननु देशकालभेदे का भाषा शङ्कराचार्ये ॥ ९९॥ गङ्गा-रेवामज्जनव्यत्यन्तेनादरेण संसाध्य । नूनं पूतचरित्रो नेताऽऽसीच्छङ्कराचार्यः ॥ १००॥ इति तावच्छीगिरिधरशर्मचतुर्वेदतनुजन्मा । शिवदत्तचतुर्वेदः शङ्करशतकं निवेदयति ॥ १०१॥