अक्षर आकार:

सदाचारानुसन्धानम्

Sadacharanusandhanami

सदाचारानुसन्धानम्

॥ श्रीः ॥ सच्चिदानन्दकन्दाय जगदङ्कुरहेतवे । सदोदिताय पूर्णाय नमोऽनन्ताय विष्णवे ॥ १॥ सर्ववेदान्तसिद्धान्तैर्ग्रथितं निर्मलं शिवम् । सदाचारं प्रवक्ष्यामि योगिनां ज्ञानसिद्धये ॥ २॥ प्रातःस्मरामि देवस्य सवितुर्भर्ग आत्मनः । वरेण्यं तद्धियो यो नश्चिदानन्दे प्रचोदयात् ॥ ३॥ अन्वयव्यतिरेकाभ्यां जाग्रत्स्वप्नसुषुप्तिषु । यदेकं केवलं ज्ञानं तदेवास्मि परं बृहत् ॥ ४॥ ज्ञानाज्ञानविलासोऽयं ज्ञानाज्ज्ञाने च शाम्यति । ज्ञानाज्ञाने परित्यज्य ज्ञानमेवावशिष्यते ॥ ५॥ अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः । असङ्गोऽहमिति ज्ञात्वा शौचमेतत्प्रचक्षते ॥ ६॥ मन्मनो मीनवन्नित्यं क्रीडत्यानन्दवारिधौ । सुस्नातस्तेन पूतात्मा सम्यग्विज्ञानवारिणा ॥ ७॥ अथाघमर्षणं कुर्यात्प्राणापाननिरोधतः । मनः पूर्णे समाधाय मग्नकुम्भो यथार्णवे ॥ ८॥ लयविक्षेपयोः सन्धौ मनस्तत्र निरामिषम् । स सन्धिः साधितो येन स मुक्तो नात्र संशयः ॥ ९॥ सर्वत्र प्राणिनां देहे जपो भवति सर्वदा । हंसः सोऽहमिति ज्ञात्वा सर्वबन्धैर्विमुच्यते ॥ १०॥ तर्पणं स्वसुखेनैव स्वेन्द्रियाणां प्रतर्पणम् । मनसा मन आलोक्य स्वयमात्मा प्रकाशते ॥ ११॥ आत्मनि स्वप्रकाशाग्नौ चित्तमेकाहुतिं क्षिपेत् । अग्निहोत्री स विज्ञेयश्चेतरा नामधारकाः ॥ १२॥ देहो देवालयः प्रोक्तो देही देवो निरञ्जनः । अर्चितः सर्वभावेन स्वानुभूत्या विराजते ॥ १३॥ मौनं स्वाध्ययनं ध्यानं ध्येयं ब्रह्मानुचिन्तनम् । ज्ञानेनेति तयोः सम्यङ्निषेधात्तत्त्वदर्शनम् ॥ १४॥ अतीतानागतं किञ्चिन्न स्मरामि न चिन्तये । रागद्वेषं विना प्राप्तं भुञ्जाम्यत्र शुभाशुभम् ॥ १५॥ देहाभ्यासो हि संन्यासो नैव काषायवाससा । नाहं देहोऽहमात्मेति निश्चयो न्यासलक्षणम् ॥ १६॥ अभयं सर्वभूतानां दानमाहुर्मनीषिणः । निजानन्दे स्पृहा नान्ये वैराग्यस्यावधिर्मता ॥ १७॥ वेदान्तश्रवणं कुर्यान्मननं चोपपत्तिभिः । योगेनाभ्यसनं नित्यं ततो दर्शनमात्मनः ॥ १८॥ शब्दशक्तेरचिन्त्यत्वाच्छब्दादेवापरोक्षधीः । प्रसुप्तः पुरुषो यद्वच्छब्देनैवावबुद्ध्यते ॥ १९॥ आत्मानात्मविवेकेन ज्ञानं भवति निश्चलम् । गुरुणा बोधितः शिष्यः शब्दब्रह्मातिवर्तते ॥ २०॥ न त्वं देहो नेन्द्रियाणि न प्राणो न मनो न धीः । विकारित्वाद्विनाशित्वाद्दृश्यत्वाच्च घटो यथा ॥ २१॥ विशुद्धं केवलं ज्ञानं निर्विशेषं निरञ्जनम् । यदेकं परमानन्दं तत्त्वमस्यद्वयं परम् ॥ २२॥ शब्दस्याद्यन्तयोः सिद्धं मनसोऽपि तथैव च । मध्ये साक्षितया नित्यं तदेव त्वं भ्रमं जहि ॥ २३॥ स्थूलवैराजयोरैक्यं सूक्ष्महैरण्यगर्भयोः । अज्ञानमाययोरैक्यं प्रत्यग्विज्ञानपूर्णयोः ॥ २४॥ चिन्मात्रैकरसे विष्णौ ब्रह्मात्मैक्यस्वरूपके । भ्रमेणैव जगज्जातं रज्ज्वां सर्पभ्रमो यथा ॥ २५॥ तार्किकाणां तु जीवेशौ वाच्यावेतौ विदुर्बुधाः । लक्ष्यौ च साङ्ख्ययोगाभ्यां वेदान्तैरैक्यता तयोः ॥ २६॥ कार्यकारणवाच्यांशौ जीवेशौ यौ जहच्च तौ । अजहच्च तयोर्लक्ष्यौ चिदंशावेकरूपिणौ ॥ २७॥ कर्मशास्त्रे कुतो ज्ञानं तर्के नैवास्ति निश्चयः । साङ्ख्ययोगौ भिदापन्नौ शाब्दिकाः शब्दतत्पराः ॥ २८॥ अन्ये पाषण्डिनः सर्वे ज्ञानवार्तासुदुर्लभाः । एकं वेदान्तविज्ञानं स्वानुभूत्या विराजते ॥ २९॥ अहं ममेत्ययं बन्धो ममाहं नेति मुक्तता । बन्धमोक्षौ गुणैर्भाति गुणाः प्रकृतिसम्भवाः ॥ ३०॥ ज्ञानमेकं सदा भाति सर्वावस्थासु निर्मलम् । मन्दभाग्या न जानन्ति स्वरूपं केवलं बृहत् ॥ ३१॥ सङ्कल्पसाक्षि यज्ज्ञानं सर्वलोकैकजीवनम् । तदेवास्मीति यो वेद स मुक्तो नात्र संशयः ॥ ३२॥ प्रमाता च प्रमाणं च प्रमेयं प्रमितिस्तथा । यस्य भासावभासन्ते मानं ज्ञानाय तस्य किम् ॥ ३३॥ अर्थाकारा भवेद्वृत्तिः फलेनार्थः प्रकाशते । अर्थज्ञानं विजानाति स एवार्थः प्रकाशते ॥ ३४॥ वृत्तिव्याप्यत्वमेवास्तु फलव्याप्तिः कथं भवेत् । स्वप्रकाशस्वरूपत्वात्सिद्धत्वाच्च चिदात्मनः ॥ ३५॥ चित्तं चैतन्यमात्रेण संयोगाच्चेतना भवेत् । अर्थादर्थान्तरे वृत्तिर्गन्तुं चलति चान्तरे ॥ ३६॥ निराधारा निर्विकारा या दशा सोन्मनी स्मृता । चित्तं चिदिति जानीयात्तकाररहितं यदा ॥ ३७॥ तकारो विषयाध्यासो जपारागो यथा मणौ । ज्ञेयवस्तु परित्यागाज्ज्ञानं तिष्ठति केवलम् ॥ ३८॥ त्रिपुटी क्षीणतामेति ब्रह्मनिर्वाणमृच्छति । मनोमात्रमिदं सर्वं तन्मनो ज्ञानमात्रकम् ॥ ३९॥ अज्ञानं भ्रम इत्याहुर्विज्ञानं परमं पदम् । अज्ञानं चान्यथाज्ञानं मायामेतां वदन्ति ते ॥ ४०॥ ईश्वरं मायिनं विद्यान्मायातीतं निरञ्जनम् । सदानन्दे चिदाकाशे मायामेघस्तटिन्मनः ॥ ४१॥ अहन्ता गर्जनं तत्र धारासारा हि वृत्तयः । महामोहान्धकारेऽस्मिन्देवो वर्षति लीलया ॥ ४२॥ तस्या वृष्टेर्विरामाय प्रबोधैकसमीरणः । ज्ञानं दृग्दृश्ययोर्भावं विज्ञानं दृश्यशून्यता ॥ ४३॥ एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन । क्षेत्रक्षेत्रज्ञयोर्ज्ञानं तज्ज्ञानं ज्ञानमुच्यते ॥ ४४॥ विज्ञानं चोभयोरैक्यं क्षेत्रज्ञपरमात्मनोः । परोक्षं शास्त्रजं ज्ञानं विज्ञानं चात्मदर्शनम् ॥ ४५॥ आत्मनो ब्रह्मणः सम्यगुपाधिद्वयवर्जितम् । त्वमर्थविषयं ज्ञानं विज्ञानं तत्पदाश्रयम् ॥ ४६॥ पदयोरैक्यबोधस्तु ज्ञानविज्ञानसंज्ञितम् । आत्मानात्मविवेकस्य ज्ञानमाहुर्मनीषिणः ॥ ४७॥ अज्ञानं चान्यता लोके विज्ञानं तन्मयं जगत् । अन्वयव्यतिरेकाभ्यां सर्वत्रैकं प्रपश्यति ॥ ४८॥ यत्तत्तु वृत्तिजं ज्ञानं विज्ञानं ज्ञानमात्रकम् । अज्ञानध्वंसकं ज्ञानं विज्ञानं चोभयात्मकम् ॥ ४९॥ ज्ञानविज्ञाननिष्ठोऽयं तत्सद्ब्रह्मणि चार्पणम् । भोक्ता सत्त्वगुणः शुद्धो भोगानां साधनं रजः ॥ ५०॥ भोग्यं तमोगुणः प्राहुरात्मा चैषां प्रकाशकः । ब्रह्माध्ययनसंयुक्तो ब्रह्मचर्यारतः सदा ॥ ५१॥ सर्वं ब्रह्मेति यो वेद ब्रह्मचारी स उच्यते । गृहस्थो गुणमध्यस्थः शरीरं गृहमुच्यते ॥ ५२॥ गुणाः कुर्वन्ति कर्माणि नाहं कर्तेति बुद्धिमान् । किमुग्रैश्च तपोभिश्च यस्य ज्ञानमयं तपः ॥ ५३॥ हर्षामर्षविनिर्मुक्तो वानप्रस्थः स उच्यते । स गृही यो गृहातीतः शरीरं गृहमुच्यते ॥ ५४॥ सदाचारमिमं नित्यं योऽनुसंदधते बुधः । संसारसागराच्छीघ्रं स मुक्तो नात्र संशयः ॥ ५५॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ सदाचारानुसन्धानं सम्पूर्णम् ॥