अक्षर आकार:

निर्वाणमञ्जरी

Nirvanamanjari

निर्वाणमञ्जरी

अहं नामरो नैव मर्त्यो न दैत्यो न गन्धर्वयक्षः पिशाचप्रभेदः । पुमान्नैव न स्त्री तथा नैव षण्डः प्रकृष्टः प्रकाशस्वरूपः शिवोऽहम् ॥ १॥ अहं नैव बालो युवा नैव वृद्धो न वर्णी न च ब्रह्मचारी गृहस्थः । वनस्थोऽपि नाहं न संन्यस्तधर्मा जगज्जन्मनाशैकहेतुः शिवोऽहम् ॥ ३॥ अहं नैव मेयस्तिरोभूतमाया तथैवेक्षितुं मां पृथङ्नास्त्युपायः । समाश्लिष्टकायत्रयोऽप्यद्वितीयः सदातीन्द्रियः सर्वरूपः शिवोऽहम् ॥ ३॥ अहं नैव मन्ता न गन्ता न वक्ता न कर्ता न भोक्ता न मुक्ताश्रमस्थः । यथाहं मनोवृत्तिभेदस्वरूप- स्तथा सर्ववृत्तिप्रदीपः शिवोऽहम् ॥ ४॥ न मे लोकयात्राप्रवाहप्रवृत्ति- र्न मे बन्धबुद्ध्या दुरीहानिवृत्तिः । प्रवृत्तिर्निवृत्त्यास्य चित्तस्य वृत्ति- र्यतस्तन्वहं तत्स्वरूपः शिवोऽहम् ॥ ५॥ निदानं यदज्ञानकार्यस्य कार्यं विना यस्य सत्त्वं स्वतो नैव भाति । यदाद्यन्तमध्यान्तरालान्तराल- प्रकाशात्मकं स्यात्तदेवाहमस्मि ॥ ६॥ यतोऽहं न बुद्धिर्न मे कार्यसिद्धि- र्यतो नाहमङ्गं न मे लिङ्गभङ्गम् । हृदाकाशवर्ती गताङ्गत्रयार्तिः सदा सच्चिदानन्दमूर्तिः शिवोऽहम् ॥ ७॥ यदासीद्विलासाद्विकारं जगद्य- द्विकराश्रयं नाद्वितीयत्वतः स्यात् । मनोबुद्धिचित्ताहमाकारवृत्ति- प्रवृत्तिर्यतः स्यात्तदेवाहमस्मि ॥ ८॥ यदन्तर्बहिर्व्यापकं नित्यशुद्धं यदेकं सदा सच्चिदानन्दकन्दम् । यतः स्थूलसूक्ष्मप्रपञ्चस्य भानं यतस्तत्प्रसूतिस्तदेवाहमस्मि ॥ ९॥ यदर्केन्दुविद्युत्प्रभाजालमाला- विलासास्पदं यत्स्वभेदादिशून्यम् । समस्तं जगद्यस्य पादात्मकं स्या- द्यतः शक्तिभानं तदेवाहमस्मि ॥ १०॥ यतः कालमृत्युर्बिभेति प्रकामं यतश्चित्तबुद्धीन्द्रियाणां विलासः । हरिब्रह्मरुद्रेन्द्रचन्द्रादिनाम- प्रकाशो यतः स्यात्तदेवाहमस्मि ॥ ११॥ यदाकाशवत्सर्वगं शान्तरूपं परं ज्योतिराकारशून्यं वरेण्यम् । यदाद्यन्तशून्यं परं शङ्कराख्यं यदन्तर्विभाव्यं तदेवाहमस्मि ॥ १२॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ निर्वाणमञ्जरी सम्पूर्णा ॥