अक्षर आकार:

मन्त्र मातृका पुष्पमाला स्तवः

mantra mAtRikA puShpamAlA stavaH

मन्त्र मातृका पुष्पमाला स्तवः

कल्लोलोल्लसितामृताब्धिलहरीमध्ये विराजन्मणि- द्वीपे कल्पकवाटिकापरिवृते कादम्बवाट्युज्ज्वले । रत्नस्तम्भसहस्रनिर्मितसभामध्ये विमानोत्तमे चिन्तारत्नविनिर्मितं जननि ते सिह्मासनं भावये ॥ १॥ एणाङ्कानलभानुमण्डललसच्छ्रीचक्रमध्ये स्थितां बालार्कद्युतिभासुरां करतलैः पाशाङ्कुशौ बिभ्रतीम् । चापं बाणमपि प्रसन्नवदनां कौसुम्भवस्त्रान्वितां तां त्वां चन्द्रकलावतम्समकुटां चारुस्मितां भावये ॥ २॥ ईशनादिपदं शिवैकफलदं रत्नासनं ते शुभं var फलकं पाद्यं कुङ्कुमचन्दनादिभरितैरर्घ्यं सरत्नाक्षतैः । शुद्धैराचमनीयकं तव जलैर्भक्त्या मया कल्पितं कारुण्यामृतवारिधे तदखिलं सन्तुष्टये कल्पताम् ॥ ३॥ लक्ष्ये योगिजनस्य रक्षितजगज्जाले विशालेक्षणे प्रालेयाम्बुपटीरकुङ्कुमलसत्कर्पूरमिश्रोदकैः । गोक्षीरैरपि नारिकेलसलिलैः शुद्धोदकैर्मन्त्रितैः स्नानं देवि धिया मयैतदखिलं सन्तुष्टये कल्पताम् ॥ ४॥ ह्रीङ्काराङ्कितमन्त्रलक्षिततनो हेमाचलात्सञ्चितैः रत्नैरुज्ज्वलमुत्तरीयसहितं कौसुम्भवर्णांशुकम् । मुक्तासन्ततियज्ञसूत्रममलं सौवर्णतन्तूत्भवं दत्तं देवि धिया मयैतदखिलं सन्तुष्टये कल्पताम् ॥ ५॥ हम्सैरप्यतिलोभनीयगमने हारावलीमुज्ज्वलां हिन्दोलद्युतिहीरपूरिततरे हेमाङ्गदेकङ्कणे । मञ्जीरौ मणिकुण्डले मकुटमप्यर्धेन्दुचूडामणिं नासामौक्तिकमङ्गुलीयकटकौ काञ्चीमपि स्वीकुरु ॥ ६॥ सर्वाङ्गे घनसारकुङ्कुमघनश्रीगन्धपङ्काङ्कितं कस्तूरीतिलकञ्च फालफलके गोरोचनापत्रकम् । गण्डादर्शनमण्डले नयनयोर्दिव्याञ्जनं तेऽञ्चितं कण्ठाब्जे मृगनाभिपङ्कममलं त्वत्प्रीतये कल्पताम् ॥ ७॥ कल्हारोत्पलमल्लिकामरुवकैः सौवर्णपङ्केरुहै- र्जातीचम्पकमालतीवकुलकैर्मन्दारकुन्दादिभिः । केतक्या करवीरकैर्बहुविधैः कॢप्ताः स्रजो मालिकाः सङ्कल्पेन समर्पयामि वरदे सन्तुष्टये गृह्यताम् ॥ ८॥ हन्तारं मदनस्य नन्दयसि यैरङ्गैरनङ्गोज्ज्वलै- र्यैर्भृङ्गावलिनीलकुन्तलभरैर्बध्नासि तस्याशयम् । तानीमानि तवाम्ब कोमलतराण्यामोदलीला गृहा- ण्यामोदाय दशाङ्गगुग्गुलुघृतैर्धूपैरहं धूपये ॥ ९॥ लक्ष्मीमुज्ज्वलयामि रत्ननिवहोत्भास्वत्त्तरे मन्दिरे मालारूपविलम्बितैर्मणिमयस्तम्भेषु सम्भावितैः । चित्रैर्हाटकपुत्रिकाकरधृतैःगव्यैर्घृतैर्वर्धितै- र्दिव्यैर्दीपगणैर्धिया गिरिसुते सन्तुष्टये कल्पताम् ॥ १०॥ ह्रीङ्कारेश्वरि तप्तहाटककृतैः स्थालीसहस्रैर्भृतं दिव्यान्नं घृतसूपशाकभरितं चित्रान्नभेदं तथा । दुग्धान्नं मधुशर्करादधियुतं माणिक्यपात्रे स्थितं माषापूपसहस्रमम्ब सफलं नैवेद्यमावेदये ॥ ११॥ सच्छायैर्वरकेतकीदलरुचा ताम्बूलवल्लीदलैः पूगैर्भूरिगुणैः सुगन्धिमधुरैः कर्पूरखण्डोज्ज्वलैः । मुक्ताचूर्णविराजितैर्बहुविधैर्वक्त्राम्बुजामोदनैः पूर्णा रत्नकलाचिका तव मुदे न्यस्ता पुरस्तादुमे ॥ १२॥ कन्याभिः कमनीयकान्तिभिरलङ्कारामलारार्तिका पात्रे मौक्तिकचित्रपङ्क्तिविलसद्कर्पूरदीपावलिः । var दीपालिभिः उतत्तत्तालमृदङ्गगीतसहितं नृत्यत्पदाम्भोरुहं मन्त्राराधनपूर्वकं सुविहितं नीराजनं गृह्यताम् ॥ १३॥ लक्ष्मीर्मौक्तिकलक्षकल्पितसितच्छत्रं तु धत्ते रसाद्- इन्द्राणी च रतिश्च चामरवरे धत्ते स्वयं भारती । वीणामेणविलोचनाः सुमनसां नृत्यन्ति तद्रागव- द्भावैराङ्गिकसात्त्विकैः स्फुटरसं मातस्तदाकर्ण्यताम् ॥ १४॥ ह्रीङ्कारत्रयसम्पुटेन मनुनोपास्ये त्रयीमौलिभि- र्वाक्यैर्लक्ष्यतनो तव स्तुतिविधौ को वा क्षमेताम्बिके । सल्लापाः स्तुतयः प्रदक्षिणशतं सञ्चार एवास्तु ते संवेशो नमसः सहस्रमखिलं त्वत्प्रीतये कल्पताम् ॥ १५॥ श्रीमन्त्राक्षरमालया गिरिसुतां यः पूजयेच्चेतसा सन्ध्यासु प्रतिवासरं सुनियतस्तस्यामलं स्यान्मनः । चित्ताम्भोरुहमण्डपे गिरिसुता नृत्तं विधत्तेरसा- द्वाणी वक्त्रसरोरुहे जलधिजा गेहे जगन्मङ्गला ॥ १६॥ इति गिरिवरपुत्रीपादराजीवभूषा भुवनममलयन्ती सूक्तिसौरभ्यसारैः । शिवपदमकरन्दस्यन्दिनीयं निबद्धा मदयतु कविभृङ्गान्मातृकापुष्पमाला ॥ १७॥ इति श्रीमच्छङ्करभगवत्पादविरचितः मन्त्रमातृकापुष्पमालास्तवः सम्पूर्णः ॥