अक्षर आकार:

मणिरत्नमाला

Maniratnamala

मणिरत्नमाला

अपारसंसारसमुद्रमध्ये निमज्जतो मे शरणं किमस्ति । गुरो कृपालो कृपया वदैत- द्विश्वेशपादाम्बुजदीर्घनौका ॥ १॥ बद्धो हि को यो विषयानुरागी को वा विमुक्तो विषये विरक्तः । विषयैर्विमुक्तः को वाऽस्ति घोरो नरकः स्वदेह- स्तृष्णाक्षयः स्वर्गपदं किमस्ति ॥ २॥ संसारहृत्कस्तु निजात्मबोधः को मोक्षहेतुः प्रथितः स एव । द्वारं किमेकं नरकस्य नारी का स्वर्गदा प्राणभृतामहिंसा ॥ ३॥ शेते सुखं कस्तु समाधिनिष्ठो जागर्ति को वा सदसद्विवेकी । के शत्रवः सन्ति निजेन्द्रियाणि तान्येव मित्राणि जितानि कानि ॥ ४॥ को वा दरिद्रो हि विशालतृष्णः श्रीमांश्च को यस्य समस्ततोषः । जीवन्मृतो कस्तु निरुद्यमो यः कोवाऽमृतः स्यात्सुखदा निराशा ॥ ५॥ पाशो हि को यो ममताभिधानः संमोहयत्येव सुरेव का स्त्री । को वा महान्धो मदनातुरो यो मृत्युश्च को वापयशः स्वकीयम् ॥ ६॥ को वा गुरुर्यो हि हितोपदेष्टा शिष्यस्तु को यो गुरु भक्त एव । को दीर्घ रोगो भव एव साधो किमौषधिं तस्य विचार एव ॥ ७॥ किं भूषणाद्भूषणमस्ति शीलं तीर्थं परं किं स्वमनो विशुद्धम् । किमत्र हेयं कनकं च कान्ता श्राव्यं सदा किं गुरुवेदवाक्यम् ॥ ८॥ के हेतवो ब्रह्मगतेस्तु सन्ति सत्सङ्गतिर्दानविचारतोषाः । शान्तिविचारतोषाः के सन्ति सन्तोऽखिलवीतरागाः अपास्तमोहाः शिवतत्त्वनिष्ठाः ॥ ९॥ को वा ज्वरः प्राणभृतां हि चिन्ता मूर्खोऽस्ति को यस्तु विवेकहीनः । कार्या मया का शिवविष्णुभक्तिः किं जीवनं दोषविवर्जितं यत् ॥ १०॥ विद्या हि का ब्रह्मगतिप्रदा या बोधो हि को यस्तु विमुक्ति हेतुः । बोधोऽस्ति को लाभ आत्मावगमो हि यो वै जितं जगत्केन मनो हि येन ॥ ११॥ शूरान्महाशूरतमोऽस्ति को वा मनोजबाणैर्व्यथितो न यस्तु । प्राज्ञोऽतिधीरश्च समोऽस्ति को वा प्राप्तो न मोहं ललनाकटाक्षैः ॥ १२॥ विषाद्विषं किं विषयाः समस्ता दुःखी सदा को विषयानुरागी । धन्योऽस्ति को यस्तु परोपकारी कः पूजनीयो ननु तत्त्वनिष्ठः ॥ १३॥ सर्वास्ववस्थास्वपि किं न कार्यं किंवा विधेयं विदुषां प्रयत्नात् । स्नेहश्च पापं पठनं च धर्मः संसारमूलं हि किमस्ति चिन्ता ॥ १४॥ विज्ञान्महाविज्ञतमोऽस्ति को वा नार्या पिशाच्या न च वञ्चितो यः । का श‍ृङ्खला प्राणभृतां च नारी दिव्यं व्रतं किं च निरस्तदैन्यम् ॥ १५॥ ज्ञातुं न शक्यं हि किमस्ति सर्वै- र्योषिन्मनो यच्चरितं तदीयम् । का दुस्त्यजा सर्वजनैर्दुराशा विद्याविहीनः पशुरस्ति को वा ॥ १६॥ वासो न सङ्गः सह कैर्विधेयो मूर्खैश्च नीचैश्च खलैश्च पापैः । मुमुक्षुणा किं त्वरितं विधेयं सत्सङ्गतिर्निर्ममतेश भक्तिः ॥ १७॥ लघुत्वमूलं च किमर्थितैव गुरुत्वबीजं यदयाचनं किम् । जातोऽस्ति को यस्य पुनर्न जन्म को वाऽमृतो यस्य पुनर्न मृत्युः ॥ १८॥ मूकोऽस्ति को वा बधिरश्च को वा वक्तुं न युक्तं समये समर्थः । तथ्यं सुपथ्यं न श‍ृणोति वाक्यं विश्वासपात्रं न किमस्ति नारी ॥ १९॥ तत्त्वं किमेकं शिवमद्वितीयं किमुत्तमं सच्चरितं यदस्ति । किं कर्म कृत्वा न च शोचनीयः कामारिकंसारिसमर्चनाख्यम् ॥ २०॥ शत्रोर्महाशत्रु तमोऽस्ति को वा कामःसकोपानृतलोभतृष्णः । न पूर्यते को विषयैः स एव किं दुःखमूलं ममताभिधानम् ॥ २१॥ किं मण्डनं साक्षरता मुखस्य सत्यं च किं भूतहितं तदेव । त्यक्त्वा सुखं किं स्त्रियमेव सम्यक् देयं परं किं त्वभयं सदैव ॥ २२॥ कस्यास्ति नाशे मनसो हि मोक्षः क्व सर्वथा नास्ति भयं विमुक्तौ । शल्यं परं किं निजमूर्खतैव के के ह्युपास्या गुरुवश्च वृद्धाः ॥ २३॥ उपस्थिते प्राणहरे कृतान्ते किमाशु कार्यं सुधिया प्रयत्नात् । वाक्कायचित्तैः सुखदं यमघ्नं var हृद्बुद्धिचित्तैः मुरारिपादाम्बुजमेव चिन्त्यम् ॥ २४॥ के दस्यवः सन्ति कुवासनाख्याः कः शोभते यः सदसि प्रविद्यः । मातेव का या सुखदा सुविद्या किमेधते दान वशात्सुविद्या ॥ २५॥ कुतो हि भीतिः सततं विधेया लोकापवादाद्भवकाननाच्च । को वास्ति बन्धुः पितरौ च कौ वा विपत्सहायः परिपालकौ यौ ॥ २६॥ बुद्ध्या न बोध्यं परिशिष्यते किं शिव प्रशान्तं सुख बोध रूपम् । ज्ञाते तु कस्मिन् विदितं जगत्स्या- त्सर्वात्मके ब्रह्मणि पूर्ण रूपे ॥ २७॥ किं दुर्लभं सद्गुरुरस्ति लोके सत्सङ्गतिर्ब्रह्मविचारणा च । त्यागो हि सर्वस्य निजात्मबोधः var शिवात्मबोधः किं दुर्जयं सर्वजनैर्मनोजः ॥ २८॥ पशोः पशुः को न करोति धर्म प्राधीतशास्त्रोऽपि न चात्मबोधः । किं तद्विषं भाति सुधोपमं स्त्री के शत्रवो मित्रवदात्मजाद्याः ॥ २९॥ विद्युच्चलं किं धन यौवनायु- र्दानं परं किं च सुपात्र दत्तम् । कण्ठे गतेरप्यसुभिर्न कार्यं किंवा विधेयं मलिनं शिवार्चा ॥ ३०॥ किं कर्म यत्प्रीतिकरं मुरारेः क्वास्था न कार्या सततं भवाब्धौ । अहर्निशं किं परिचिन्तनीयं संसारमिथ्यात्वशिवात्मतत्त्वम् ॥ ३१॥ कण्ठं गता वा श्रवणं गता वा प्रश्नोत्तराख्या मणिरत्नमाला । तनोतु मोदं विदुषां प्रयत्नात् रमेशगौरीशपदौ सुसेव्यौ ॥ ३२॥ इति श्रीमुक्तीन्द्रशङ्करमिश्रविरचिता मणिरत्नमाला समाप्ता । Thirtytwo Catechetical Verses on Morals and Religion by Shankaracharya Maynot be correctly attributed to Shankaracharya