अक्षर आकार:

मायापञ्चकम्

Maya-panchakam

मायापञ्चकम्

निरुपमनित्यनिरंशकेऽप्यखण्डे मयि चिति सर्वविकल्पनादिशून्ये । घटयति जगदीशजीवभेदं त्वघटितघटनापटीयसी माया ॥ १॥ श्रुतिशतनिगमान्तशोधकान- प्यहह धनादिनिदर्शनेन सद्यः । कलुषयति चतुष्पदाद्यभिन्ना- नघटितघटनापटीयसी माया ॥ २॥ सुखचिदखण्डविबोधमद्वितीयं वियदनलादिविनिर्मिते नियोज्य । भ्रमयति भवसागरे नितान्तं त्वघटितघटनापटीयसी माया ॥ ३॥ अपगतगुणवर्णजातिभेदे सुखचिति विप्रविडाद्यहंकृतिं च । स्फुटयति सुतदारगेहमोहं त्वघटितघटनापटीयसी माया ॥ ४॥ विधिहरिहरविभेदमप्यखण्डे बत विरचय्य बुधानपि प्रकामम् । भ्रमयति हरिहरभेदभावा- नघटितघटनापटीयसी माया ॥ ५॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ मायापञ्चकम् सम्पूर्णम् ॥