अक्षर आकार:

लघुवाक्यवृत्तिः

Laghu-Vakya-Vritti

लघुवाक्यवृत्तिः

स्थूलो मांसमयो देहो सूक्ष्मः स्याद्वासनामयः । ज्ञानकर्मेन्द्रियैः सार्धं धीप्राणौ तच्छरीरगौ ॥ १॥ अज्ञानं कारणं साक्षी बोधस्तेषां विभासकः । बोधाभासो बुद्धिगतः कर्ता स्यात्पुण्यपापयोः ॥ २॥ स एव संसरेत्कर्मवशाल्लोकद्वये सदा । बोधाभासाच्छुद्धबोधं विविच्यादतियत्नतः ॥ ३॥ जागरस्वप्नयोरेव बोधाभासविडम्बना । सुप्तौ तु तल्लये बोधः शुद्धो जाड्यं प्रकाशयेत् ॥ ४॥ जागरेऽपि धियस्तूष्णीम्भावः शुद्धेन भास्यते । धीव्यापाराश्च चिद्भास्याश्चिदाभासेन संयुताः ॥ ५॥ वह्नितप्तजलं तापयुक्तं देहस्य तापकम् । चिद्भास्या धीस्तदाभासयुक्तान्यं भासयेत्तथा ॥ ६॥ रूपादौ गुणदोषादिविकल्पा बुद्धिगाः क्रियाः । ताः क्रिया विषयैः सार्धं भासयन्ती चितिर्मता ॥ ७॥ रूपाच्च गुणदोषाभ्यां विविक्ता केवला चितिः । सैवानुवर्तते रूपरसादीनां विकल्पने ॥ ८॥ क्षणे क्षणेऽन्यथाभूता धीविकल्पाश्चितिर्न तु । मुक्तासु सूत्रवद्बुद्धिविकल्पेषु चितिस्तथा ॥ ९॥ मुक्ताभिरावृतं सूत्रं मुक्तयोर्मध्य ईक्ष्यते । तथा वृत्तिविकल्पैश्चित्स्पष्टा मध्ये विकल्पयोः ॥ १०॥ नष्टे पूर्वविकल्पे तु यावदन्यस्य नोदयः । निर्विकल्पकचैतन्यं स्पष्टं तावद्विभासते ॥ ११॥ एकद्वित्रिक्षणेष्वेवं विकल्पस्य निरोधनम् । क्रमेणाभ्यस्यतां यत्नाद्ब्रह्मानुभवकाङ्क्षिभिः ॥ १२॥ सविकल्पजीवोऽयं ब्रह्म तन्निर्विकल्पकम् । अहं ब्रह्मेति वाक्येन सोऽयमर्थोऽभिधीयते ॥ १३॥ सविकल्पकचिद्योऽहं ब्रह्मैकं निर्विकल्पकम् । स्वतःसिद्धा विकल्पास्ते निरोद्धव्याः प्रयत्नतः ॥ १४॥ शक्यः सर्वनिरोधेन समाधिर्योगिनं प्रियः । तदशक्तौ क्षणं रुद्ध्वा श्रद्धालुर्ब्रह्मतात्मनः ॥ १५॥ श्रद्धालुर्ब्रह्मतां स्वस्य चिन्तयेद्बुद्धिवृत्तिभिः । वाक्यवृत्त्या यथाशक्ति ज्ञात्वाद्धाभ्यस्यतां सदा ॥ १६॥ तच्चिन्तनं तत्कथनमन्योन्यं तत्प्रबोधनम् । एतदेकपरत्वं च ब्रह्माभ्यासं विदुर्बुधाः ॥ १७॥ देहात्मधीवद्ब्रह्मात्मधीदार्ढ्ये कृतकृत्यता । यदा तदायं म्रियतां मुक्तोऽसौ नात्र संशयः ॥ १८॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ लघुवाक्यवृत्तिः सम्पूर्णा ॥