अक्षर आकार:

जगद्गुरुश्रीशङ्कराचार्याभिमतं गीतारहस्यम्

Gitarahasyam According to Shri Shankaracharya

जगद्गुरुश्रीशङ्कराचार्याभिमतं गीतारहस्यम्

लेखकः - डाॅ श्रीधरभास्करवर्णेकरः, नागपुरम् जगद्गुरुश्रीशङ्कराचार्यचरणैः श्रीमद्भगवद्गीतोपनिषद्भाष्यस्य प्रथमाध्यायारम्भे तथा द्वितीयाध्यायस्य ``अशोच्यानन्वशोचस्त्वम्'' इत्यस्मान् श्लोकात् प्राक् स्वाभिमतं गीतारहस्यं युक्तियुक्तैर्वचोभिः प्रतिपादितम् । ``तस्माद् गीतासु केवलाद् एव तत्त्वज्ञानात् मोक्षप्राप्तिः, न कर्मसमुचितादिति निश्चितोऽर्थः ।'' (अध्याय २) ``तस्मात् केवलादेव ज्ञानान्मोक्ष इत्येषोऽर्थो निश्चितो गीतासु सर्वोपनिषत्सु च ।'' (अध्याय ३) इत्येतद् गीतारहस्यं सुनिश्चितं प्रतिपाद्य तदेव सर्वत्र गीतासु प्रकरणशो विभज्य तत्र तत्र दर्शितम् । तदिदं जगद्गुरुसम्मतं गीतारहस्यमस्माभिः ४४ कारिकासु संक्षेपत उपनिबद्धम् । जगद्गुरुसम्मतं गीतारहस्यं सम्यक् स्मृतिगतं कर्तुमिमाः कारिका अतीवोपकारिण्यो भवेयुरित्याशास्महे ॥ वेदोक्तो द्विविधो धर्मो गीतासु प्रतिपादितः । प्रवृत्तिलक्षणो ह्येकश्चान्यो निर्वृत्तिलक्षणः ॥ १॥ धर्मस्य द्विविधो हेतुर्जगतः संस्थितिस्तथा । प्राणिनोऽभ्युदयश्चान्यो निःश्रेयससमन्वितः ॥ २॥ क्षीणे विवेकविज्ञाने विदुषां कामवर्धने । ग्लानिमापद्यते धर्मो ह्यधर्मः कामवर्धने ॥ ३॥ ब्राह्मण्याधीनमेवेह वर्णाश्रमविभाजनम् । ब्राह्मण्ये रक्षिते धर्मो वैदिकः स्यात् सुरक्षितः ॥ ४॥ ब्राह्मणत्वं विजानीयाद् भौमं ब्रह्म सनातनम् । तद्रक्षणार्थं कृष्णत्वं प्राप नारायणः स्वयम् ॥ ५॥ शोकमोहाब्धिनिर्मग्नं पार्थं प्रत्याह केशवः । द्विविधं वैदिकं धर्मं सर्वलोकाद्दिधीर्षया । प्रचीयते हि धर्मोऽसौ पाल्यते यो गुणाधिकैः ॥ ६॥ सङ्ग्रहः सर्ववेदार्थसाराणामीश्वरोदितः । व्यासः सप्तशतश्लोकैस्तमेवोपनिबद्धवान् ॥ ७॥ निःश्रेयसं परं ज्ञेयं गीताशास्त्रप्रयोजनम् । सहेतुकस्य संसारस्यात्यन्तोपरमो हि तत् ॥ ८॥ निःश्रेयसं तदाध्यात्मज्ञाननिष्ठास्वरूपिणः । प्राप्यते धर्मतः सर्वकर्मसंन्यासापूर्वकात् ॥ ९॥ भगवाननुगीतासु गीताधर्मप्रयोजनम् । समस्तकर्म संन्यासापरमित्यब्रवीत् स्वयम् ॥ १०॥ वर्णानामाश्रमाणां योऽभ्युदयैकप्रयोजनः । प्रवृत्तिलक्षणो धर्मः स स्वर्गप्राप्तिसाधनम् ॥ ११॥ फलाभिसन्धिरहितो ब्रह्मार्पणधिया तथा । प्रवृत्तिलक्षणो धर्मोऽनुष्ठेयः सत्वशुद्धये ॥ १२॥ सत्त्वशुद्धतया ज्ञाननिष्ठापात्रत्वमाप्तवान् । विन्दते परम ज्ञानं निःश्रेयसफलप्रदम् ॥ १३॥ प्रवृत्तिलक्षणो धर्मो गीतासु प्रतिपादितः । ज्ञानोत्पत्तिनिदानत्वान्निःश्रेयसपरो हि सः ॥ १४॥ योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये । हेतुः प्रवृत्तिधर्मस्य गीतावाक्येऽत्र दृश्यते ॥ १५॥ तं शाश्वतं वैदिकमेव धर्म द्विधा हि निःश्रेयसमात्रहेतुम् । तथा परं ब्रह्म च केशवाख्यं गीतामहाशास्त्रमभिव्यनक्ति ॥ १६॥ यो हि सम्यग विजानीते गीताशास्त्रार्थमान्तरम् ॥ समस्तपुरुषार्थानां स सिद्धिमधिगच्छति ॥ १७॥ (गीता-द्वितीयाध्यायप्रास्ताविकम्) शोकमोहादयो दोषाः संसारोत्पत्तिहेतवः । विषादयोगो बोद्धव्यस्तदुत्पत्तिप्रबुद्धये ॥ १८॥ विवेकः शोकमोहाभ्यां विज्ञानं चाभिभूयते । ततः स्वधर्मं सन्त्यज्य प्रतिषिद्धे प्रवर्तते ॥ १९॥ यथा स्वयं प्रवृत्तोऽपि क्षात्रधर्म निजेऽर्जुनः । उपरम्य ततो मेने परधर्मं हितावहम् ॥ २०॥ स्वधर्मेऽपि प्रवृत्तानां प्रवृत्तिः प्रायशो नृणाम् । फलाभिसन्धिसहिता साहङ्कारा च दृश्यते । फलाभिलाषाऽहङ्कारौ धर्मदोषकरावुभौ ॥ २१॥ सकामकर्मतो बुद्धिर्जायते पापपुण्ययोः । तत एव हि संसारे जीवोऽयं परिवर्तते ॥ २२॥ इष्टजन्मसुखानिष्टजन्मदुःखाप्तिलक्षणः संसारः परिहर्तव्यः शोकमोहसमुद्भवः ॥ २३॥ समस्तकर्मसंन्यासापूर्वकादतिनिर्मलात् । आत्मज्ञानादृते नैव निवृत्तिः शोकमोहयोः ॥ २४॥ निमित्तीकृत्य तत् पार्थं शोकमोहसमाकुलम् । भगवानदिशद् गीतां सर्वानुग्रहहेतवे ॥ २५॥ (पूर्वपक्षः) कुरु कर्मेति ब्रुवतोऽभिप्रायः श्रीहरेः स्फुटो नूनम् । ज्ञानाद्धि कर्मसहितात् कैवल्यप्राप्तिरिति वदन्त्येके ॥ २६॥ धर्म्यं युद्धमकृत्वा पापं स्यादिति निवेदयन् कृष्णः । श्रौतं स्मार्तं हिंसाक्रूरं कर्मापि मुक्तये प्राह ॥ २७॥ (उत्तरपक्षः) कैवल्यप्राप्तये ज्ञान-कर्मयोगसमुच्चयम् । ये दर्शयन्ति गीतासु तेषां हि तद्सन्मतम् ॥ २८॥ साङ्ख्य-योगाभिधं बुद्धिद्वयं लोकेषु वर्तते । ज्ञान-कर्माभिधा द्वेधा निष्ठा गीतोदिता ततः ॥ २९॥ षड्विक्रियाविहीनत्वादकर्तात्मैति या मतिः । सा साङ्ख्यबुद्धिः साङ्ख्याख्यज्ञानिनामुचिता मम ॥ ३०॥ प्रायेण साङ्ख्यबुद्धेः प्राग् योगबुद्धिः प्रजायते । ययात्मा देहसम्भिन्नः कर्ता भोक्तेति भासते ॥ ३१॥ धर्माधर्मविवेकेन मोक्षसाधनकर्मणाम् । निरन्तरमनुष्ठानं तद् योग इति कथ्यते ॥ ३२॥ योगबुद्धि समाश्रित्य येऽन्तःकरणशुद्धये ॥ योगाख्यं कर्म कुर्वन्ति ते योगिन इति स्मृताः ॥ ३३॥ ज्ञान-कर्मामिधं निष्ठाद्वयं प्राहेश्वरः पृथक् । पश्यन्नेकत्र पुरुषे वृद्धिद्वयमसम्भवम् ॥ ३४॥ बृहदारण्यकेऽप्येतद् निष्ठाद्वयमुदीरितम् । यत्राकामस्य संन्यासाः प्रोक्तं कर्म च काम्यतः ॥ ३५॥ यदि स्यात् सम्मतः श्रौतकर्मज्ञानसमुच्चयः । गीतासु नोपपद्येत विभागवचनं तदा । ज्यायसी चेदिति प्रश्नः पार्थस्यापि न युज्यते ॥ ३६॥ असम्भवमनुष्ठानमेकेन ज्ञानकर्मणोः । न चेदिदं हरेरुक्तं श्रृणुयादर्जुनः कथम् ॥ ३७॥ अश्रुतं च कथं बुद्धेर्ज्यायस्त्वं कर्मणोऽर्जुनः । ज्यायसीत्यादिभिर्वाक्यैर्मृषाऽध्यारोपयेत् प्रभौ ॥ ३८॥ उक्तः स्याद् यदि सर्वेषां ज्ञानकर्मसमुच्चयः । पार्थस्यापि कृते तर्हि स एव हि निवेदितः ॥ ३९॥ उभयोरुपदेशेऽपि प्रश्नोत्तरसमाश्रितः ॥ 'यच्छ्रेय एतयोरेक''मिति नैवोपपद्यते ॥ ४०॥ शीतं च मधुरं चान्नं भोक्तव्यं पित्तशान्तये । इत्युक्तेऽन्यतरश्रेयोजिज्ञासा नोपपद्यते ॥ ४१॥ पार्थप्रश्नोऽथ कल्प्येत कृष्णोक्तानवधारणात् । तदुत्तरे कथं नोक्तो बुद्धि-कर्म-समुच्चयः ॥ ४२॥ लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्तेति चोत्तरम् । पृष्टादननुरूपं तन्नेश्वरस्योपपद्यते ॥ ४३॥ समुच्चयस्तथा बुद्धेः श्रौतवत् स्मार्तकर्मणा । नाभिप्रेतोऽन्यथा सर्व विभागवचनं वृथा ॥ ४४॥ युद्ध कर्म क्षत्रियस्य स्मार्त मित्यपि जाननः । उपालम्भो वृथा 'घोरे कर्मणी'त्यर्जुनस्य च ॥ ४५॥ तस्माद् गीतासु नैवेषन्मात्रेणापि प्रदर्श्यताम् । कर्मणा द्विविधेनात्मज्ञानस्य हि समुच्चयः ॥ ४६॥ कर्मण्यभिप्रवृत्तस्याज्ञानरागादिदोषतः । सत्वशुद्धतया ज्ञानं सर्वं ब्रह्मेति जायते ॥ ४७॥ निवृत्तं ज्ञान्नतो यस्य कर्म वा तत्प्रयोजनम् । स हि कर्म प्रवृत्तश्चेल्लोकसङ्ग्रहहेतवे । तस्मिन्नपि न सम्भाव्यो ज्ञानकर्मसमुच्चयः ॥ ४८॥ यथा भगवति क्षात्रकर्मज्ञानसमुच्चयः । न सम्भवति निष्कामे तथा तादृशि पण्डिते ॥ ४९॥ न करोमीति तत्त्वज्ञो मन्यते भगवत्समः । फलं च नाभिसन्धत्ते क्रियमाणस्य कर्मणः ॥ ५०॥ काम्ये यज्ञे प्रवृत्तस्य कामे सामिकृते हते । क्रियमाणः पुनर्यज्ञो निष्कामः खलु जायते । प्रमाणं भगवद्वाक्य- ``कुर्वन्नपि न लिप्यते'' ॥ ५१॥ ``कर्मणैव हि संसिद्धिमास्थिता जनकादयः'' । वाक्यमेवंविधं ज्ञेयं प्रविभज्यैव तत्त्वतः ॥ ५२॥ अथ चेज्जनकाद्यास्ते नैव तत्त्वविदो मताः । कर्मणा चित्तशुद्धिं ते प्राप्ता इत्यवगम्यताम् ॥ ५३॥ ``योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये'' । इत्यस्मिन् भगवद्वाक्ये ज्ञेयं कर्मप्रयोजनम् ॥ ५४॥ न हि निःश्रेयसप्राप्तिर्ज्ञान-कर्मसमुच्चयात् । अभिप्रायेण गीतायास्तत्त्वज्ञानात्तु केवलात् ॥ ५५॥ इति श्रीश्रीधरभास्करवर्णेकरः विरचितं जगद्गुरुश्रीशङ्कराचार्याभिमतं गीतारहस्यं सम्पूर्णम् ।