अक्षर आकार:

ब्रह्मानुचिन्तनम्

brahmAnucintanam

ब्रह्मानुचिन्तनम्

अहमेव परं ब्रह्म वासुदेवाख्यमव्ययम् । इति स्यान्निश्चितो मुक्तो बद्ध एवान्यथा भवेत् ॥ १॥ अहमेव परं ब्रह्म निश्चितं चित्त चिन्त्यताम् । चिद्रूपत्वादसङ्गत्वादबाध्यत्वात् प्रयत्नतः ॥ २॥ अहमेव परं ब्रह्म न चाहं ब्रह्मणः पृथक् । इत्येवं समुपासीत ब्राह्मणो ब्रह्मणि स्थितः ॥ ३॥ सर्वोपाधिविनिर्मुक्तं चैतन्यं च निरन्तरम् । तद्ब्रह्माहमिति ज्ञात्वा कथं वर्णाश्रमी भवेत् ॥ ४॥ अहं ब्रह्मास्मि यो वेद स सर्वं भवति त्विदम् । नाभूत्या ईशते देवास्तेषामात्मा भवेद्धि सः ॥ ५॥ अन्यो असावहमन्यो अस्मीत्युपास्ते यो अन्यदेवताम् । न स वेद नरो ब्रह्म स देवानां यथा पशुः ॥ ६॥ अहमात्मा न चान्योऽस्मि ब्रह्मैवाहं न शोकभाक् । सच्चिदानन्दरूपोऽहं नित्यमुक्तस्वभाववान् ॥ ७॥ आत्मानं सततं ब्रह्म संभाव्य विहरन्ति ये । न तेषां दुष्कृतं किञ्चिद्दुष्कृतोत्था न चापदः ॥ ८॥ आत्मानं सततं ब्रह्म संभाव्य विहरेत्सुखम् । क्षणं ब्रह्माहमस्मीति यः कुर्यादात्मचिन्तनम् ॥ ९॥ तन्महापातकं हन्ति तमः सूर्योदयो यथा । अज्ञानाद्ब्रह्मणो ज्ञातमात्माकाशं बुद्बुदोपमम् ॥ १०॥ आकाशाद्वायुरुत्पन्नो वायोस्तेजस्ततः पयः । अद्भ्यश्च पृथिवी ज्ञाता ततो व्रीहियवादिकम् ॥ ११॥ पृथिव्यप्सु पयो वह्नौ वह्निर्वायौ नभस्यसौ । नभोऽप्यव्याकृते तच्च शुद्धे शुद्धोऽस्म्यहं हरिः ॥ १२॥ अहं विष्णुरहं विष्णुरहं विष्णुरहं हरिः । कर्तृभोक्त्रादिकं सर्वं तदविद्योत्थमेव च ॥ १३॥ अच्युतोऽहमनन्तोऽहं गोविन्दोऽहमहंहरिः । आनन्दोऽहमशेषोऽहमजोऽहममृतोऽस्म्यहम् ॥ १४॥ नित्योऽहं निर्विकल्पोऽहं निराकारोऽहमव्ययः । सच्चिदानन्दरूपोऽहं पङ्चकोशातिगोऽस्म्यहम् ॥ १५॥ अकर्ताऽहमभोक्ताऽहमसङ्गः परमेश्वरः । सदा मत्सन्निधानेन चेष्टते सर्वमिन्द्रियं ॥ १६॥ आदिमध्यान्तमुक्तोऽहं न बद्धोऽहं कदाचन । स्वभावनिर्मलः शुद्धः स एवाहं न संशयः ॥ १७॥ ब्रह्मैवाहं न संसारी मुक्तोऽहमिति भावयेत् । अशक्नुवन्भावयितुं वाक्यमेतत्सदाऽभ्यसेत् ॥ १८॥ यदभ्यासेन तद्भावो भवेद्भ्रमरकीटवत् । अत्रापहाय सन्देहमभ्यसेत्कृतनिश्चयः ॥ १९॥ ध्यानयोगेन मासैकाद्ब्रह्महत्यां व्यपोहति । संवत्सरं सदाऽभ्यासात्सिद्ध्यष्टकमवाप्नुयात् ॥ २०॥ यावज्जीवं सदाऽभ्यासाज्जीवन्मुक्तो भवेद्यतिः । नाहं देहो न च प्राणो नेन्द्रियाणि तथैव च ॥ २१॥ न मनोऽहं न बुद्धिश्च नैव चित्तमहङ्कृतिः । नाहं पृथ्वी न सलिलं न च वह्निस्तथाऽनिलः ॥ २२॥ न चाकाशो न शब्दश्च न च स्पर्शस्तथा रसः । नाहं गन्धो न रूपं च न मायाऽहं न संसृतिः ॥ २३॥ सदा साक्षिस्वरूपत्वाच्छिव एवास्मि केवलः । मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् ॥ २४॥ मयि सर्वं लयं याति तद्ब्रह्मास्म्यहमद्वयम् । सर्वज्ञोऽहमनन्तोऽहं सर्वेशः सर्वशक्तिमान् ॥ २५॥ आनन्दः सत्यबोधोऽहमिति ब्रह्मानुचिन्तनम् । अयं प्रपञ्चो मिथ्यैव सत्यं ब्रह्माहमव्ययम् ॥ २६॥ अत्र प्रमाणं वेदान्ता गुरवोऽनुभवस्तथा । ब्रह्मैवाहं न संसारी न चाहं ब्रह्मणः पृथक् ॥ २७॥ नाहं देहो न मे देहः केवलोऽहं सनातनः । एकमेवादिवितीयं वै ब्रह्मणो नेह किंचन ॥ २८॥ हृदयकमलमध्ये दीपवद्वेदसारं प्रणवमयमतर्क्यं योगिभिर्ध्यानगम्यम् । हरिगुरुशिवयोगं सर्वभूतस्थमेकं सकृदपि मनसा वै चिन्तयेद्यः स मुक्तः ॥ २९॥ ॥ इति श्रीमद् शङ्कराचार्यविरचितं ब्रह्मानुचिन्तनं समाप्तं ॥