अक्षर आकार:

बालबोधसङ्ग्रहः

bAlabodhasa~NgrahaH

बालबोधसङ्ग्रहः

विषयसूचिका । १ आध्यात्मविद्याप्रबोधप्रकारः । २ ज्ञानस्वरूपम् ३ साधनचतुष्टयम् ४ आत्मैक्यज्ञानविचारणा ५ पञ्चविंशति तत्त्वानि ६ अन्तःकरणचतुष्टयम् ७ अनिर्वचनीयो आत्मा ८ देशिकस्य करुणया ज्ञानप्राप्तिः श्रीमच्छङ्करभगवत्पादचरणारविन्दाभ्यान्नमोनमः ॥ आध्यात्मविद्याप्रबोधप्रकारं व्याख्यास्यामः । आधिभौतिकाधिदैविकाध्यात्मिकादि तापत्रयाग्निसन्तप्तः सकलसाधनोपेतः संसाराद्विरम्य शिष्यः सद्गुरुं शरणं गत्वा साष्टाङ्गं प्रणिपत्य विज्ञप्तिं करोति । भो स्वामिन् ! मम संसारनिवृत्तिं कुरु । गुरुरुवाच - अरे शिष्य तव संसारनिवृत्तिः ज्ञानेन भवितव्या । ज्ञानं च श्रवणमनननिदिध्यासनैः ब्रह्मसाक्षात्कारो भवति । शिष्य उवाच - भो स्वामिन् श्रवणं नाम किम्? मननं नाम किम्? निदिध्यासनं नाम किम्? गुरुरुवाच - भो वत्स !श्रवणम् नाम वेदान्तवाक्यानामुपक्रमोपसंहारतात्पर्यलिङ्गानां साधनचतुष्टययुक्तः सन् श्राव्यम् । मननं नाम श्रुतार्थस्य उपपत्त्यनुपपत्तिभ्यां युक्तिभिरालोचनं मननम् । निदिध्यासनं नाम निश्चितार्थस्य तदेकनिष्ठत्वेन संशयविपर्यय त्यागेन अवस्थानं निदिध्यासनम् । स एव फलितसाक्षात्कारः । श्रुतिवाक्यं प्रमाणम् । भिद्यते हृदयग्रन्थिः छिद्यते सर्व संशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ [मुण्डक २:८] शिष्यः - भो स्वामिन् ! साधनचतुष्टयं नाम किम् ? गुरुरुवाच - नित्यानित्यवस्तुविवेकः । इहामुत्रार्थफलभोगविरागः । शमादिषट्कम् । मुमुक्षुता च । नित्यमात्मस्वरूपं हि दृश्यन्तद्विपरीतकम् । एवं यो निश्चयः सम्यक् विवेकोऽस्य नरस्य वै ॥ जगत्सर्वमनित्यम् । ब्रह्मैव नित्यम् । इहामुत्रफलभोग विरागोनाम ब्रह्मादिस्थावरान्तेषु वैराग्यं विषयेष्वनु । तथैव काकविष्ठायाः वैराग्यं तद्धि निर्मलम् ॥ इहपरसुखविषयेषु वैराग्यं विरागः । शमादिषट्कं नाम शमोदमउपरतिस्तितिक्षा श्रद्धासमाधानम् । शमो नाम - सदैव वासनात्यागः शमोऽयमिति शब्दितः । दमोनाम - निग्रहो बाह्यवृत्तीनां दम इत्यभिधीयते । उपरतिर्नाम - विषयेभ्यः परावृत्तिः परमोपरतिर्हि सा । तितिक्षा नाम - सहनं सर्वदुःखानां तितिक्षा शुभामता । श्रद्धा नाम - निगमाचार्यवाक्येषु भक्तिः श्रद्धेति विश्रुता । समाधानं नाम - चित्तैकाग्र्यं तु संलक्ष्ये समाधानमिति श्रुतम् । एतत् शमादिषट्कम्। मुमुक्षुता - संसारबन्धनान्मुक्तिः कथं स्यान्मे कदा विधे । इति यासु दृढा बुद्धिर्वक्तव्या सा मुमुक्षुता ॥ एवं साधनचतुष्टयसम्पन्नस्यैव ब्रह्मात्मैक्यज्ञाने अधिकारः । आत्मैकविज्ञानं विचारेण विना न जायते । विचारः कार्यः। शिष्य उवाच - विचारोनाम ? गुरुरुवाच - अहं कः ? इदं सर्वं कथं जातम् ? कुत्र वा लयं गच्छति ? सदा सद्भिः विचारः कार्यः । शिष्य उवाच - भो स्वामिन् ! अहं तु विचारं न जानामि सन्त कुत्र वा सन्ति ? को वेद ? त्वमेव मां करुणाकटाक्षपोतेन संसारवारिधेः पारं दर्शय त्वमेव मे गतिः । श्रीगुरुरुवाच - भो वत्स ! मय्येव तव दृढा भक्तिश्चेत् श‍ृणु । त्वं तु देहो न भवसि । अतः जडत्वात् दृश्यत्वात् दृश्यादन्यो द्रष्टेति न्यायात् । अमङ्गलत्वाच्च । नित्यत्वाच्च । सविकारत्वाच्च जात एव देहस्त्वं न भवसि । त्वं तु चैतन्यमात्रम् । शिष्य उवाच - भो स्वामिन् ! अहं देहो न भवामि चेत् देहस्य सुखदुःखं मां बाधते । अत एव देह एवाहम् । गुरुरुवाच - देहो जडः । शिष्य उवाच - कथं जडः देहस्तावत् बाल्यमारभ्य नित्यं वर्धते जडस्य वृद्धिर्न संभवति । एवमेव सर्वम् । गुरुरुवाच - भो शिष्य ! देहतादात्म्येन तव सुखदुःखं प्रतिभाति । यथा धनादिकन्नष्टं चेत् दुःख भवति । तेनैव द्रव्यादिकं स्वयं भवति वा सुखदुःखयोः कारणाभावेऽपीति । यथा लाभालाभे तादात्म्येन सुखदुःखे भासतः । तथैव देहतादात्म्येन सुखदुःखे प्रतिभासतः ॥ यथा द्रव्यादिभ्यः स्वयं भिन्नः तथैव देहात् स्वयं भिन्नः । जड त्वं च श‍ृणु - देहो वर्धते इति कृत्वा देहो जडो न भवतीति यद्वदसि तदसत् । जडस्यापि वृद्धिदर्शनात् । यथा वेदिका मृद्रूपा जडापि मृन्निक्षेपेण कुड्यादिरूपेण वर्धते । किं तन्मात्रेण चैतन्यं भवति वा । तथैवान्नमयशरीरस्य पुनःपुनः अन्नं नित्यं निक्षेपेण देहो वर्धते । अत एव जडः । अमङ्गळत्वाच्च । श‍ृणु - जन्मकालपरामर्शे अमङ्गळं सिद्धमेव । तव देहः दृश्यत्वं कथमिति चेत् मम शरीरे श्यामगौरवत्वादिना प्रतीयमाने कृश स्थूलत्वादिभिश्च सिद्धमेव । त्वं तु द्रष्टा । अनित्यत्वं श‍ृणु । बाल कौमाराद्यवस्थायुक्तत्वात् सविकारित्वम् । त्वं तु देहाद्यविकारः । नित्यश्च । योऽहं बाल्ये क्रीडासक्तः यौवने विषयासक्तः वार्धक्ये चिन्तायुक्तः तावत्तावत् सोऽहमित्यनुभवात् ताभिर्व्यवस्थाभिर्युक्तस्य नित्यत्वम् । तस्माद्देहो न भवसि । त्वं चिन्मात्रोऽसि साक्षी । शिष्य उवाच - भो स्वामिन् ! तव प्रसादलेशात् देहो न भवामीति मम ज्ञानं जातम् । तावता मम को लाभः ? गुरुरुवाच - यदा त्वं पञ्चीकृतपञ्चमहाभूत समभवस्थूलशरीरं न भवसि तदा नामरूपजातिवर्णाश्रमादयस्तव न सन्ति । एतत् सर्वं स्थूल शरीरस्यैव । शिष्य उवाच - भो स्वामिन् ! त्वत् प्रसादात् सत्यं त्वदाज्ञया अहं स्थूलदेहो न भवामि । तत्सम्बन्धाः वर्णाश्रमदयः स्त्रीपुंनपुंसकादयः श्यामगौरवत्वादि नामरूपादयः मम न सन्ति । अतः परमिन्द्रियाण्यहम् । इन्द्रियेषु सत्सु पश्यामि श‍ृणोमि स्पृशामि इत्याद्यनुभवाच्च इन्द्रियाण्यहमेव । गुरुरुवाच - भो वत्स ! इन्द्रियाण्यपि जडानि त्वं न भवसि पञ्चभूतकार्यत्वात् । शिष्यः - भो स्वामिन् ! इन्द्रियाणि जडानि कथं भूतकार्याणि कथम् ? गुरुरुवाच - यो वत्स इन्द्रियाणि आत्मानं जानन्ति परमपि न जानन्ति यथा प्रदीपवत् । भो श्रोत्र इदानीं त्वं अत्र तिष्ठसीत्युक्ते भो स्वामिन् अत्र स्थास्यामीति वक्तुमसमर्थं एवं सर्वाणि करणानि अत जडानि । भूतकार्यं कथमिति श‍ृणु । श्रोत्रेन्द्रियमाकाशकार्यम् । आकाशाध्यात्मिक गुणशब्दग्रहणे साधनम् । त्वगिन्द्रियं वायुकार्यम् । वाय्वाध्यात्मिकगुणस्पर्शग्रहणे साधनम् । चक्षुस्तेजः कार्यम् । तेज आध्यात्मिकगुणरूपग्रहणे साधनम् । रसनेन्द्रियमपां कार्यम् । जलाध्यात्मिकगुणरसग्रहणे साधनम् । एतानि ज्ञानेन्द्रियाणि । पञ्चभूतसत्त्वगुणादुत्पन्नानि । अथ कर्मेन्द्रियाणि श‍ृणु । कर्मेन्द्रियाणि - वाक् आकाशकार्यम् । आकाशाध्यात्मिकगुणशब्दो वदति । पाणीन्द्रियं वायुकार्यम् । वाय्वाध्यात्मिकगुणेन गृह्णाति । पादेन्द्रियं तेजः कार्यम् । तेज आध्यात्मिककार्यं गमनादिकं करोति । गुह्येन्द्रियमपां कार्यम् । जलाध्यात्मिककार्यम् । मूत्ररेतोत्सर्गादिकं करोति । गुदेन्द्रियं पृथिवीकार्यम् । पृथिव्याध्यात्मिकगुणम् । पुरीषादिकं करोति । एवं कर्मेन्द्रियाणि पञ्चभूतरजोगुणेभ्यः उत्पन्नानि । पञ्चभूततमोगुणात् विषया उत्पन्नाः । शब्दस्पर्शरूपरसगन्धाः वचनादानगमन विसर्गानन्दाः । एतानि सर्वाणीन्द्रियाणि पञ्चभूताध्यात्मिक कार्याणि जडानि । स्वस्वदेवतानुग्रहेण स्वस्वविषयान् प्रति वर्तन्ते । शिष्यः - कस्येन्द्रियस्य किं दैवतम् ? गुरुरुवाच - श्रोत्रेन्द्रियस्य दिगधिदैवतम् । त्वगिन्द्रियस्य वायुरधिदैवतम् । चक्षुरिन्द्रियस्य सूर्योऽधिदैवतम् । रसनेन्द्रियस्य वरुणोऽधिदैवतम् । घ्राणेन्द्रियस्याश्विनीदेवतावधिदैवतम् । वागिन्द्रियस्याग्निरधिदैवतम् । पाणीन्द्रियस्य इन्द्रोऽधिदैवतम् । पादेन्द्रियस्य विष्णुरधिदैवतम् । पाय्विन्द्रियस्य मृत्युरधिदैवतम् । गुह्येन्द्रियस्य प्रजापतिरधिदैवतम् । इन्द्रियाणामधिभूतं च श‍ृणु - श्रोत्रेन्द्रियस्य श्रोतव्यमधिभूतम् । नेत्रेन्द्रियस्य द्रष्टव्यमधिभूतम् । त्वगिन्द्रियस्य स्पर्शनोऽधिभूतम् । रसनेन्द्रियस्य रसग्रहणमधिभूतम् । घ्राणेन्द्रियस्य गन्धग्रहणमधिभूतम् । वागिन्द्रियस्य वक्तव्यमधिभूतम् । पाणिन्द्रियस्य दातव्यमधिभूतम् । पादेन्द्रियस्य गमनमधिभूतम् । पाय्विन्द्रियस्य विसर्जनमधिभूतम् । उपस्थेन्द्रियस्य उत्सर्जनमधिभूतम् । सर्वाणि करणानि स्वस्वदेवतानुग्रहणैव स्वस्वविषयान् जानन्ति । अत एव जडानि तानि त्वं न भवसि । शिष्य उवाच - भो स्वामिन् ! सत्यम् इन्द्रियाणि जडानीति मम ज्ञानं जातम् । परं मन एवाहम् । स्वस्थे मनसि पश्यामि श‍ृणोमि तदभावे न पश्यामि न श‍ृणोमि अत एव मन एवाहम् । गुरुरुवाच - भो वत्स ! मनः कथं त्वं भवसि ? मे मनः इदानीं समाधानतया तिष्ठतीत्यनुभवात् मनसोऽपि भिन्न एव त्वं मनस्तव दृश्यम् । मनसस्त्वं दृष्ट्वा मनस्तवाधीनत्वाच्चात एव मनो न भवसि । प्राणे पश्यामि श‍ृणोमि प्राणाभावे न पश्यामि न श‍ृणोमि अत एव । शिष्य उवाच - भो स्वामिन् ! सत्यं मनो न भवामि बुद्ध्या निश्चितेऽर्थे मनो धावति । अत एव बुद्धिरेवाहम् । साप्यन्तःकरणवृत्तित्वात् । अत एव प्राण एव अहमस्मि । गुरुरुवाच - भो वत्स ! प्राणस्त्वं न भवसि जडत्वात् । शिष्यः - भो स्वामिन् ! प्राणो जडः कथम् ? गुरुः - श‍ृणु रात्रौ प्रसुप्तस्य पुरुषस्य वस्तूनि चोरो गृहीत्वा गच्छति तदानीं प्राणस्तिष्ठत्येव । कथं नावबुध्यते । अत एव जडः । शिष्यः - भो स्वामिन् ! प्राणो जडश्चेत् जडशरीरं कथं चेष्टयति जडस्य चेतनायोगात् । गुरुः - श‍ृणु जडस्यापि जडचालकत्वं लोके दृष्टमस्ति यथा चण्डमारुतः गृहोपरिस्थिततृणादीन् नभसि भ्रामयित्वान्यत्र पातयति । किन्तावता वायुश्चैतन्यं भवति वा । एवं प्राणस्यापि देहचेष्टकत्वम् । अत एव प्राणोऽपि त्वं न भवसि । शिष्यः - भो स्वामिन् ! त्वदाज्ञया एतत्सर्वमहं न भवामि । तावता मम को लाभः ? गुरुः- अरे शिष्य ! सावधानतया श‍ृणु । एतत् सर्वं सप्तदशकं लिङ्गशरीरं त्वं यदा न भवसि । तदानीं देवतिर्यङ्मनुष्यादिजन्मादिकं नास्ति । यथा जानु भग्नपङ्गोरिव गमनागमनं तव नास्त्येव । शिष्यः - भो स्वामिन् ! त्वत्प्रसादादेव सत्यं परं च प्राणमनो बुद्धि दशेन्द्रिय समन्वितम् । अपञ्चीकृत भूतोत्थं सूक्ष्माङ्गं भोगसाधनम् । भो स्वामिन् ! एतत्सर्वं अहं न भवामि तर्हि कोऽहमिति मामहं न जानामि । कृपया स्वामिना वक्तव्यम् । गुरुः - भो शिष्य ! इदमेव तव कारणशरीरं कथम् ? भो शिष्य अरे सर्वं जानासि स्वात्मानमेव न जानामीति वदसि । इदमेव तवाज्ञानं सर्वेषां स्थूलसूक्ष्म शरीराणां कारणत्वात् कारणमित्याभिधीयते । इयमेवाविद्या संसारानर्थदायिनी । `` आब्रह्म ज्ञानैक निलया अस्या निवृत्तिरेव मुक्तिः । मुमुक्षिभिः प्रयत्नैः परिहर्तव्या । '' शिष्यः - भो स्वामिन् ! कथं परिहर्तव्या ? गुरुः - अरे शिष्य ! त्वमेव माऽहं न जानामीति वदसि । तर्हि त्वत्तोऽन्यः कोऽपि वदति वा ? वक्ता श्रोता द्रष्टा त्वमेव । शिष्यः - अस्मिन्नर्थे श्रुतिः प्रमाणं वर्तते वा ? गुरुः - अरे वत्स ! सर्वेषां वेदान्तानां अत्रैव श्रुतिवाक्यं प्रमाणम् । `` नान्यतोऽस्मि वक्ता नान्यतोऽस्मि श्रोता नान्यतोऽस्मि मन्ता नान्यतोऽस्मि द्रष्टा चेति '' येन वा पश्यति येन वा श‍ृणोतीत्यादि प्रमाणानि बहूनि सन्ति । त्रिषु धामसु यत् भोज्यं भोक्ता भोगश्च यत् भवेत् । तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः ॥ स्मृतिरपि - क्षेत्रज्ञं चापि मां विद्धि सर्वभूतस्तमात्मानमिति । पुराणं च - सकल इदमहं च वासुदेवः परमः पुमान् परमेश्वरः स एकः । इति मतिरमला भवत्यन्ते हृदयगते व्रज तां विहाय दूरात् । एवं विज्ञानेन स्वात्मरामः सन् यस्तिष्ठति स ब्रह्म स शिवः स हरिः सेन्द्रः सोऽक्षरः परमस्वराट् । ज्योतींषि विष्णुः भुवनानि विष्णुः वनानि विष्णुः गिरयो दिशश्च । नद्यः समुद्राश्च स एव सर्वम् । इदं त्वं नास्ति विप्रवर्य । एतादृशेनानुभवेन शिष्ययुक्तः सन् स्वानुभवस्थितिं दर्शयति । न हि बन्धपदं न हि मोक्षपदं न हि पापपदं न हि पदम् । न हि रिक्तपदं न हि पूर्णपदं किं रोदिषि मानस सर्वसमम् । अहो अहं नमो मह्यं दक्षो नास्तीति मत्समः । असंस्पर्शशरीरेण येन विश्वं चिरं धृतम् । मयि सुखबोधपयोधौ महति ब्रह्माण्ड बुदबुदसहस्रम् । मायामयेन मरुता भूत्वा भूत्वा पुनस्तिरोधत्ते । हव्यमहं कव्यमहं हेयोपादेयभावशून्योऽहम् । हरिरहमस्मि हरोऽहं विधिरप्यहमस्मि कारणं तेषाम् । धर्माधर्ममयोऽहं धर्माधर्मादिबन्धरहितोऽहम् । धार्मिकजनसुलभोऽहं धन्योऽस्मि धातुरादिभूतोऽहम् ॥ मन्योऽहमस्मि महतां मन्दमतीनां माननीयोऽहम् । मद मान राग मोहित मानस दुर्वासना दुरापोऽहम् । नाहं नमामि देवान् एते नमस्यन्ति च नित्यं माम् । मत्तः परतरो नास्ति चिन्मात्रोऽहं सदाशिवः । किमिदं किमस्य रूपं कथमिदमुदभूदमुष्य को हेतुः । इति न कदापि चिन्त्यम् । चिन्त्यं मायेति धीमता विश्वम् । गुरुणैव नावा प्राक्तनभाग्यानुकूलमारुतेन ॥ दुस्सहदुःखतरङ्गोत्तुङ्ग संसार सागरोत्तीर्णः । शरणं न हि मम जननी सुतो न सोदरश्चान्ये ॥ परमं शरणं इदं मे चरणं मम मूर्ध्नि देशिकन्यस्तम् । आस्ते देशिकचरणं निरवधिरास्ते मदीक्षणे करुणा ॥ आस्ते किमपि तदुक्तं किमितःपरमस्मि जन्मसाफल्यम् ॥ इदं ज्ञानं परं श्रेष्ठं सतां संमतमादरात् । यः श‍ृणोति च मेधावी स मुक्तो नात्र संशयः । ॥ इति श्रीपरमहंसपरिव्राजकाचार्य श्रीमत् शङ्कराचार्यविरचितबालबोधसङ्ग्रहः समाप्तः ।