अक्षर आकार:

तरणिवाक्कुसुमाज्जलिः

taraNivAkkusumAjjaliH

तरणिवाक्कुसुमाज्जलिः

श्रीगणेशाय नमः । अरुणकमलासनस्थं त्रिनयनवेदत्रयाकृतिं हस्तैः । दानाभये सरोजे दधतं वन्देऽहमर्कमरुणाभम् ॥ १॥ केयूरकटककुण्डलहारविभूषाविभूषणोत्तंसम् । उदयाचलचूडामणिमनिशं धामैव वेद्मि किमपि परम् ॥ २॥ हित्वा चरणाम्भोजं भोजं भोजं ह विषयविषवल्लिम् । माद्यन्मनोमिलिन्दस्त्वया त्रपो मेऽज किमुपेक्ष्यः ॥ ३॥ विषकन्दलौ, तरुण्याः कुचौ विजानन्नमृतकुम्भौ । घूर्णंस्तत्र निमग्नः पूर्णं परिमन्यमानः एव स्वम् ॥ ४॥ परिणामदुःखसाधनमखिलं सुखसा[ध]नत्वेन । गृह्णन् परापवादं परनिन्दां परविमत्सरं कुर्वन् ॥ ५॥ मदमत्ययं त्वदन्यैखार्यमाप्ते मनोमिलिन्दे मे । यदिहौदासि(सी)न्यं ते गदहन्तृत्त्वं तवैव हतम् ॥ ६॥ संसारसा(शा)खिशाखामृगया मे हा मनोवृत्त्या । कामातिशीतशान्त्यै त्वत्स्मृतिवह्निर्न कामकाकिन्यः ॥ ७॥ त्रातो मयूरमुख्यो जातो यशसः समुद्रेकः । किमतः प्रयोजनं ते स्वयशःसङ्कोचनिर्भीकः ॥ ८॥ यद्यतिपापिष्ठोऽहं तथापि ते नाथ नोपेक्ष्यः । मात्रोदरपतितः किं सर्पः परिपाल्यते नैव ॥ ९॥ मोहान्धतमसबहुतरपरिभृत्यपरसुन्दरीदर्याम् । मय्यशक्ते कौशिकबुद्‍ध्या करुणोऽसि किमित नेन्द्रे हा ॥ १०॥ त्वमदीनोऽहं दीनस्त्वं सर्वज्ञो ह्यहं तु किञ्चिज्ज्ञः । त्वं शक्तोऽहमशक्तः कथमुभयोः शोभनाचर्य्यम् ॥ ११॥ त्वदुपेक्षितं त्वनाथ । वदति जने मां न लज्जसे नाथ । उचितं का गुणचिन्तां वेदान्ते निर्गुणे गीते ॥ १२॥ पापशवादुत्पन्ना मन्मतिजायैव तेन विहरन्ती । आशापाशं दत्त्वा भवकूपे क्षिपति पाहि दीन पुमान् ॥ १३॥ करुणागौरवहितं लिप्सालघुमल्पमनिशं माम् । अल्पोऽपि विषयवायुर्भ्रमयति बहु तूलमलसोऽसि ॥ १४॥ त्वद्भक्तिसारशून्यं विषयमरुद्भ्रामितं कृपाचन्द्र । करुणाकटाक्षकिरणस्तृणमिव किं मां विहाय विस्फुरति ॥ १५॥ त्रिभुवनपाल महेश म्लायति ते बालकुलोऽसौ । कामदवानलदग्धः करुणामृतसेचने कथं कठिनः ॥ १६॥ तृष्णोत्कलिकाकुलितान्काममहानक्रकवलितान्तनयान् । संसारसागरे मग्नाद्भीतः कथं सहस्रकरः ॥ १७॥ विश्वम्भर त्वदाज्ञोल्लङ्घिनमव मां गले पतितम् । पाययति न पयोधरमम्बा कुटिलं शिशुं गले लग्नम् ॥ १८॥ दिशि दिशि सरस्सु सरसीरुहेषु कृपया करः कथं स्फुरति । दीनदयालय तव मम शिरोऽम्बुजे नो स्वतन्त्रस्य ॥ १९॥ गुणगुर्वी त्वन्माया नवरसमय मां नटं भुवनरङ्गे । नर्त्तयति त्वत्पुरतस्तुष्यसि नानेकजन्मभूमिकया ॥ २०॥ बलिपदवीं न न च सुधां प्रभुत्वमैन्द्रं पदं न याचेऽहम् । करुणाकटाक्षलेशं शेषे भवतः कथं निमीलितदृक् ॥ २१॥ रागद्वेषारण्यक कण्डगरीयातिजनितपङ्कमलम् । संशोष्य मानसं मे सरः कथं पूर्यते न बोधजलैः ॥ २२॥ रटनां श‍ृणोषि नो मे विकर्तनानेकशोऽर्थितोऽपि बटोः । सुप्तः किं गुरुकार्याशक्तः किं वा विकर्णोऽसि ॥ २३॥ कामादिशत्रुभिर्मे पुरं वशीकृत्य पुण्यधनम् । बोभुज्यते दयालो नैव शयालुत्वमुचितं ते ॥ २४॥ शरणागते तु पामरबुद्‍ध्या मयि नावहेलनं घटते । शबरी रामेण कथं कथय कृपालो कृता कृपापात्रम् ॥ २५॥ दुःखचपेटां दातुं यद्युद्युक्तोऽसि तेऽंशुकप्राप्तम् । मुञ्चेयं त्वपराधी लालनमभिलाषुकः कथं तात ॥ २६॥ विष्णो मदीयसुमतिदुपदसुतां धर्मदुर्बलेशां हा । कर्षति केशग्राहं मत्सरदुःशासनो गतः क्वासि ॥ २७॥ उदरे नारककुण्डे पुनःपुनश्चेन्न तुष्यसि क्षिपसि । क्षिप निःसृतं सृतौ मां मायापाशैर्बधान हृत्स्वामिन् ॥ २८॥ तेजोऽभावस्तम इति वितथं किं नो भणन्ति काणादाः । भवति त्रिभुवनदीपेऽन्यथा कथं तधृदि स्यान्मे ॥ २९॥ त्रिभुवनदीपालोके तेऽर्थाञ्ज गतोऽवभास्यति तूर्णम् । दूरीकृत्य तमो मे मनसि ततस्त्वं स्वयं न भासि कथम् ॥ ३०॥ तरणौ मामपराधिनमति यदि जानास्यखण्डविततगुणैः । स्वैर्बद्ध्वा करुणाब्धौ विरूपितं किं न मिहिर मज्जयसि ॥ ३१॥ सप्ताश्वमनसतुरगः कामवशो मे स्ववृत्तिपरिणतिषु । वडवासु किं वृषस्यति नारुह्य द्राक् कथं वशीकुरुषे ॥ ३२॥ समदृष्टेस्तव 'करुणा मयि भूतलवज्जपासु लौहित्यम् । अन्यत्र स्फटिक इव प्रभाति वैषम्यमिति कुतोऽधीतम् ॥ ३३॥ रटयसि बहुलं घटयसि मयि न स्नेहं मनाङ्विरमति मे । चेतस्तत् कटुवाग्भिर्यद्यसि रुष्टः कथं न नाशयसि ॥ ३४॥ त्वत्करुणा द्वापरिणा त्वत्स्मृतिदुःखे मया प्रभो भजता । सेषन्मुमुक्षुणाप्तानुमीयतेऽतो विरम्यते नैव ॥ ३५॥ यद्यङ्कुरितानुमिता जन्यजनकभावभञ्जनापत्तेः । साऽस्त्येव पामरे मयि पूर्णय पूर्णोऽसि नैव तेऽपेक्षा ॥ ३६॥ गुणवर्णनोपदेशः प्रतारणेयं न विश्वरूपकृता । गुणवर्णनं त्वदीयं जन्मशतेनापि केन कर्तव्यम् ॥ ३७॥ मन्मतिरत्यल्पातोऽल्पमपि त्वां स्तोतुमीश ह्रेषेयम् । करुणाकटाक्षरहितस्तस्त्रहि तस्यां न शक्तिह्रासः स्यात् ॥ ३८॥ भवभयहारमहार्यं निगुर्णधार्यं भयादनुत्तार्यम् । परमानन्दाचार्यं तमयानार्यं जहातु मा मूढः ॥ ३९॥ पूरयति मानसं यस्त्वत्स्मृतिधाराभिरवकरव्याप्तम् । भूषयति परमहंसस्तत्तेऽस्या लोलिताः प्रगततीराः ॥ ४०॥ त्वन्नामस्मृत्यरणी समुद्गते ज्ञानहुतभुजि जितकालाः । विषयहवींष्याजुहाति ये वैराग्यत्रुरुचा बुधाः खकुण्डस्थे ॥ ४१॥ मानसररक्तो हंसो भवत्कथाकामधेनुपीयूषम् । यः पिबति विषयनीरादुद्धत्यास्मान्न परमहंसोऽन्यः ॥ ४२॥ कल्पतरुकामदोग्धीचिन्तामणयोऽपि यन्मनोरथदाः । फलसि स्वं फलमुचितं स्वसेवितुस्तन्मनःपथातीतम् ॥ ४३॥ क्षुण्णं यन्मनसा तत् स्वविलसितं कल्पपादपः फलति । त्वमतः स्वसेवितुः स्वं फलं विजाने मनःपथातीतम् ॥ ४४॥ त्वद्भक्तिकामधेनुं दोग्ध्यमृतं दुग्धरत्नगोर्मेरोः । शिर आक्रमते कलयति कुटिलं कालं पलालसदृशं सः ॥ ४५॥ त्वज्जन्ममधुरिमा यैरनुभूतस्ते बुधा बुधा न बुधाः । स्पृहयन्ति त्वन्निपीताधरैम्बायै न रम्भायै ॥ ४६॥ आरूढभक्तिवीरुद्भवदाह्वा मन्दाचलक्षुभितात् । करुणाब्धेर्भवतोऽमृतमाप्तमनन्तं त एव बुधाः ॥ ४७॥ अग्रस्थितमुखचन्द्राद्गलोदयाद्रेरुदितमात्तम् । त्वन्नमहृद्गुहायास्तमस्ततिं हरति किं भवत्स्पर्धि ॥ ४८॥ शतकोटिदानदक्षं विदग्धपापौघपर्वतस्मरणम् । विमदीकृतपविपरिणतमैन्द्रपदत्वेन नाम भवदीयम् ॥ ४९॥ पैतामहीं तनुं तां तदुज्झितां रागिणीं यदुदयास्ते । यत् सम्पर्कात् प्रणमति हरोऽप्यतरोऽस्मात् परं न मन्येऽहम् ॥ ५०॥ यश्चरिकरिति हि विश्वम्बरी भरित्यपि च सञ्जरिहरतितमाम् । अञ्जलिरकारि तैरपि सायं प्रातर्यदग्रतो वन्दे ॥ ५१॥ उदये विधिरूपस्त्वं मध्याह्ने शङ्करः स्वयं सायम् । विष्णुरिति वदन्तु विमला वयं तु यत्त्वं न तन्न जानीमः ॥ ५२॥ सप्तस्वरोदकान्तं रसमिव शान्तं सुवर्णसप्ताश्वैः । सप्तभिरिव सामभिरहमूढं धामैव वेद्मि किमपि परम् ॥ ५३॥ प्राक्तनमनुदिनमुदितं विरजस्कं रागिणं सदयमदयम् । फलदमफलदं शरणं कुरु कुरु रे जीव जहिहि मृत्युभयम् ॥ ५४॥ दीनदयालय रङ्कं शङ्कर कामानलातिपरितप्तम् । गङ्गाधर भवजलधौ मग्नं मां पाहि परतन्त्रम् ॥ ५५॥ अशुचिं चण्डचरित्रं मां यदि जानासि चण्डिकाजाने । हालाहलं कपालं व्यालं भालानलप्रभो जहिहि ॥ ५६॥ पापं त्वदेकशरणं हालाहलमेव मन्यसे यदि माम् । तद्वत्कण्ठविलग्नं तत्र निमग्नं कथं कुरुषे वा ॥ ५७॥ त्वन्महिममदपराधौ पारेसङ्ख्यं त्वपादपरिमाणौ । तदनुपमत्वं गच्छति परिकरबन्धं कथं न कुरुषे द्राक् ॥ ५८॥ मत्सदृशः पतितः स्यान्न पतितपावन कथं तथा त्वं ते । मामतिपतितं मत्वा हित्वा वोढासि कां यशोग्रन्थिम् ॥ ५९॥ यदि पतितपावनत्वं लब्धुं पतितोऽपि सृष्टाऽस्ति । तल्लब्ध्वा मदुपेक्षाव्याधिनिवृत्तौ भिषग्द्रोहः ॥ ६०॥ कलिकाले जनतायाः स्वार्थपरत्वं कथं हि दोषाय । प्रभुरपि तथाविधः किं यन्मां कीनाश आर्पयसि पतितम् ॥ ६१॥ सधृदयं नवनीतं मुञ्च कठोरत्वमुचितं ते । संसारानलतप्तं मज्जय करुणामृतान्बुधौ मां ते ॥ ६२॥ अपराधाम्बुधिवल्लभ रामसुतोत्थं वचो विषं कण्ठे । सह राक्षेपकटुत्वं दधाति हरता न हस्तगा तस्य ॥ ६३॥ साहुनृपतिबहुमान्यो गोकुलतनयः सुखानन्दः । तदनुजवल्लभरामात्मेच्छारामेण मिहिरमग्नहृदा ॥ ६४॥ श्रीमन्माधवनरपतिविरचितजीवातुजनितसत्त्ववता । विलसितपदपत्रार्पितनन्दकसद्गन्धमुदितसमधुपम् ॥ रचितं वाक्कुसुमाञ्जलि मीने फलदं युधोऽर्पयतु ॥ ६५॥ ॥ इति श्रीइच्छारामशास्त्रिविरचितस्तरणिवाक्कुसुमाज्जलिः समाप्तः ॥