अक्षर आकार:

श्रीसूर्यसहस्रनामस्तोत्रम् १ भविष्यपुराणान्तर्गता

Shri Surya Sahasranama Stotram 1

श्रीसूर्यसहस्रनामस्तोत्रम् १ भविष्यपुराणान्तर्गता

सुमन्तुरुवाच माघे मासि सिते पक्षे सप्तम्याङ्कुरुनन्दन । निराहारो रविम्भक्त्या पूजयेद्विधिना नृप ॥ १॥ पूर्वोक्तेन जपेज्जप्यन्देवस्य पुरतः स्थितः । शुद्धैकाग्रमना राजञ्जितक्रोधो जितेन्द्रियः ॥ २॥ शतानीक उवाच केन मन्त्रेण जप्तेन दर्शनं भगवान्व्रजेत् । स्तोत्रेण वापि सविता तन्मे कथय सुव्रत ॥ ३॥ सुमन्तुरुवाच स्तुतो नामसहस्रेण यदा भक्तिमता मया । तदा मे दर्शनं यातः साक्षाद् देवो दिवाकरः ॥ ४॥ शतानीक उवाच - नाम्नां सहस्रं सवितुः श्रोतुमिच्चामि हे द्विज । येन ते दर्शनं यातः साक्षाद्देवो दिवाकरः ॥ १॥ सर्वमङ्गलमङ्गल्यं सर्वपापप्रणाशनम् । स्तोत्रमेतन्महापुण्यं सर्वोपद्रवनाशनम् ॥ २॥ न तदस्ति भयं किञ्चिद्यदनेन न नश्यति । ज्वराद्यैर्मुच्यते राजन् स्तोत्रेऽस्मिन् पठिते नरः ॥ ३॥ अन्ये च रोगाः शाम्यन्ति पठतः श‍ृण्वतस्तथा । सम्पद्यन्ते यथा कामाः सर्व एव यथेप्सिताः ॥ ४॥ य एतदादितः श्रुत्वा सङ्ग्रामं प्रविशेन्नरः । स जित्वा समरे शत्रूनभ्येति गृहमक्षतः ॥ ५॥ वन्ध्यानां पुत्रजननं भीतानां भयनाशनम् । भूतिकारि दरिद्राणां कुष्ठिनां परमौषधम् ॥ ६॥ बालानां चैव सर्वेषां ग्रहरक्षोनिवारणम् । पठते संयतो राजन् स श्रेयः परमाप्नुयात् ॥ ७॥ स सिद्धः सर्वसङ्कल्पः सुखमत्यन्तमश्नुते । धर्मार्थिभिर्धर्मलुब्धैः सुखाय च सुखार्थिभिः ॥ ८॥ राज्याय राज्यकामैश्च पठितव्यमिदं नरैः । विद्यावहं तु विप्राणां क्षत्रियाणां जयावहम् ॥ ९॥ पश्वावहं तु वैश्यानां शूद्राणां धर्मवर्धनम् । पठतां श‍ृण्वतामेतद्भवतीति न संशयः ॥ १०॥ तच्चृणुष्व नृपश्रेष्ठ प्रयतात्मा ब्रवीमि ते । नाम्नां सहस्रं विख्यातं देवदेवस्य धीमतः ॥ ११॥ ध्यानम् - ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासनसन्निविष्टः । केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥ अथ स्तोत्रम् - ॐ विश्वविद्विश्वजित्कर्ता विश्वात्मा विश्वतोमुखः । विश्वेश्वरो विश्वयोनिर्नियतात्मा जितेन्द्रियः ॥ १॥ कालाश्रयः कालकर्ता कालहा कालनाशनः । महायोगी महासिद्धिर्महात्मा सुमहाबलः ॥ २॥ प्रभुर्विभुर्भूतनाथो भूतात्मा भुवनेश्वरः । भूतभव्यो भावितात्मा भूतान्तःकरणं शिवः ॥ ३॥ शरण्यः कमलानन्दो नन्दनो नन्दवर्धनः । वरेण्यो वरदो योगी सुसंयुक्तः प्रकाशकः ॥ ४॥ प्राप्तयानः परप्राणः पूतात्मा प्रयतः प्रियः । नयः सहस्रपात् साधुर्दिव्यकुण्डलमण्डितः ॥ ५॥ अव्यङ्गधारी धीरात्मा सविता वायुवाहनः । समाहितमतिर्दाता विधाता कृतमङ्गलः ॥ ६॥ कपर्दी कल्पपाद्रुद्रः सुमना धर्मवत्सलः । समायुक्तो विमुक्तात्मा कृतात्मा कृतिनां वरः ॥ ७॥ अविचिन्त्यवपुः श्रेष्ठो महायोगी महेश्वरः । कान्तः कामारिरादित्यो नियतात्मा निराकुलः ॥ ८॥ कामः कारुणिकः कर्ता कमलाकरबोधनः । सप्तसप्तिरचिन्त्यात्मा महाकारुणिकोत्तमः ॥ ९॥ सञ्जीवनो जीवनाथो जयो जीवो जगत्पतिः । अयुक्तो विश्वनिलयः संविभागी वृषध्वजः ॥ १०॥ वृषाकपिः कल्पकर्ता कल्पान्तकरणो रविः । एकचक्ररथो मौनी सुरथो रथिनां वरः ॥ ११॥ सक्रोधनो रश्मिमाली तेजोराशिर्विभावसुः । दिव्यकृद्दिनकृद्देवो देवदेवो दिवस्पतिः ॥ १२॥ दीननाथो हरो होता दिव्यबाहुर्दिवाकरः । यज्ञो यज्ञपतिः पूषा स्वर्णरेताः परावरः ॥ १३॥ परापरज्ञस्तरणिरंशुमाली मनोहरः । प्राज्ञः प्राज्ञपतिः सूर्यः सविता विष्णुरंशुमान् ॥ १४॥ सदागतिर्गन्धवहो विहितो विधिराशुगः । पतङ्गः पतगः स्थाणुर्विहङ्गो विहगो वरः ॥ १५॥ हर्यश्वो हरिताश्वश्च हरिदश्वो जगत्प्रियः । त्र्यम्बकः सर्वदमनो भावितात्मा भिषग्वरः ॥ १६॥ आलोककृल्लोकनाथो लोकालोकनमस्कृतः । कालः कल्पान्तको वह्निस्तपनः संप्रतापनः ॥ १७॥ विरोचनो विरूपाक्षः सहस्राक्षः पुरन्दरः । सहस्ररश्मिर्मिहिरो विविधाम्बरभूषणः ॥ १८॥ खगः प्रतर्दनो धन्यो हयगो वाग्विशारदः । श्रीमानशिशिरो वाग्मी श्रीपतिः श्रीनिकेतनः ॥ १९॥ श्रीकण्ठः श्रीधरः श्रीमान् श्रीनिवासो वसुप्रदः । कामचारी महामायो महोग्रोऽविदितामयः ॥ २०॥ तीर्थक्रियावान् सुनयो विभक्तो भक्तवत्सलः । कीर्तिः कीर्तिकरो नित्यः कुण्डली कवची रथी ॥ २१॥ हिरण्यरेताः सप्ताश्वः प्रयतात्मा परन्तपः । बुद्धिमानमरश्रेष्ठो रोचिष्णुः पाकशासनः ॥ २२॥ समुद्रो धनदो धाता मान्धाता कश्मलापहः । तमोघ्नो ध्वान्तहा वह्निर्होताऽन्तःकरणो गुहः ॥ २३॥ पशुमान् प्रयतानन्दो भूतेशः श्रीमतां वरः । नित्योऽदितो नित्यरथः सुरेशः सुरपूजितः ॥ २४॥ अजितो विजितो जेता जङ्गमस्थावरात्मकः । जीवानन्दो नित्यगामी विजेता विजयप्रदः ॥ २५॥ पर्जन्योऽग्निः स्थितिः स्थेयः स्थविरोऽथ निरञ्जनः । प्रद्योतनो रथारूढः सर्वलोकप्रकाशकः ॥ २६॥ ध्रुवो मेषी महावीर्यो हंसः संसारतारकः । सृष्टिकर्ता क्रियाहेतुर्मार्तण्डो मरुतां पतिः ॥ २७॥ मरुत्वान् दहनस्त्वष्टा भगो भर्गोऽर्यमा कपिः । वरुणेशो जगन्नाथः कृतकृत्यः सुलोचनः ॥ २८॥ विवस्वान् भानुमान् कार्यः कारणस्तेजसां निधिः । असङ्गगामी तिग्मांशुर्घर्मांशुर्दीप्तदीधितिः ॥ २९॥ सहस्रदीधितिर्ब्रध्नः सहस्रांशुर्दिवाकरः । गभस्तिमान् दीधितिमान् स्रग्वी मणिकुलद्युतिः ॥ ३०॥ भास्करः सुरकार्यज्ञः सर्वज्ञस्तीक्ष्णदीधितिः । सुरज्येष्ठः सुरपतिर्बहुज्ञो वचसां पतिः ॥ ३१॥ तेजोनिधिर्बृहत्तेजा बृहत्कीर्तिर्बृहस्पतिः । अहिमानूर्जितो धीमानामुक्तः कीर्तिवर्धनः ॥ ३२॥ महावैद्यो गणपतिर्धनेशो गणनायकः । तीव्रप्रतापनस्तापी तापनो विश्वतापनः ॥ ३३॥ कार्तस्वरो हृषीकेशः पद्मानन्दोऽतिनन्दितः । पद्मनाभोऽमृताहारः स्थितिमान् केतुमान् नभः ॥ ३४॥ अनाद्यन्तोऽच्युतो विश्वो विश्वामित्रो घृणिर्विराट् । आमुक्तकवचो वाग्मी कञ्चुकी विश्वभावनः ॥ ३५॥ अनिमित्तगतिः श्रेष्ठः शरण्यः सर्वतोमुखः । विगाही वेणुरसहः समायुक्तः समाक्रतुः ॥ ३६॥ धर्मकेतुर्धर्मरतिः संहर्ता संयमो यमः । प्रणतार्तिहरो वायुः सिद्धकार्यो जनेश्वरः ॥ ३७॥ नभो विगाहनः सत्यः सवितात्मा मनोहरः । हारी हरिर्हरो वायुरृतुः कालानलद्युतिः ॥ ३८॥ सुखसेव्यो महातेजा जगतामेककारणम् । महेन्द्रो विष्टुतः स्तोत्रं स्तुतिहेतुः प्रभाकरः ॥ ३९॥ सहस्रकर आयुष्मान् अरोषः सुखदः सुखी । व्याधिहा सुखदः सौख्यं कल्याणः कलतां वरः ॥ ४०॥ आरोग्यकारणं सिद्धिरृद्धिर्वृद्धिर्बृहस्पतिः । हिरण्यरेता आरोग्यं विद्वान् ब्रध्नो बुधो महान् ॥ ४१॥ प्राणवान् धृतिमान् घर्मो घर्मकर्ता रुचिप्रदः । सर्वप्रियः सर्वसहः सर्वशत्रुविनाशनः ॥ ४२॥ प्रांशुर्विद्योतनो द्योतः सहस्रकिरणः कृती । केयूरी भूषणोद्भासी भासितो भासनोऽनलः ॥ ४३॥ शरण्यार्तिहरो होता खद्योतः खगसत्तमः । सर्वद्योतो भवद्योतः सर्वद्युतिकरो मतः ॥ ४४॥ कल्याणः कल्याणकरः कल्यः कल्यकरः कविः । कल्याणकृत् कल्यवपुः सर्वकल्याणभाजनम् ॥ ४५॥ शान्तिप्रियः प्रसन्नात्मा प्रशान्तः प्रशमप्रियः । उदारकर्मा सुनयः सुवर्चा वर्चसोज्ज्वलः ॥ ४६॥ वर्चस्वी वर्चसामीशस्त्रैलोक्येशो वशानुगः । तेजस्वी सुयशा वर्ष्मी वर्णाध्यक्षो बलिप्रियः ॥ ४७॥ यशस्वी तेजोनिलयस्तेजस्वी प्रकृतिस्थितः । आकाशगः शीघ्रगतिराशुगो गतिमान् खगः ॥ ४८॥ गोपतिर्ग्रहदेवेशो गोमानेकः प्रभञ्जनः । जनिता प्रजनो जीवो दीपः सर्वप्रकाशकः ॥ ४९॥ सर्वसाक्षी योगनित्यो नभस्वानसुरान्तकः । रक्षोघ्नो विघ्नशमनः किरीटी सुमनःप्रियः ॥ ५०॥ मरीचिमाली सुमतिः कृताभिख्यविशेषकः । शिष्टाचारः शुभाकारः स्वचाराचारतत्परः ॥ ५१॥ मन्दारो माठरो वेणुः क्षुधापः क्ष्मापतिर्गुरुः । सुविशिष्टो विशिष्टात्मा विधेयो ज्ञानशोभनः ॥ ५२॥ महाश्वेतः प्रियो ज्ञेयः सामगो मोक्षदायकः । सर्ववेदप्रगीतात्मा सर्ववेदलयो महान् ॥ ५३॥ वेदमूर्तिश्चतुर्वेदो वेदभृद्वेदपारगः । क्रियावानसितो जिष्णुर्वरीयांशुर्वरप्रदः ॥ ५४॥ व्रतचारी व्रतधरो लोकबन्धुरलङ्कृतः । अलङ्काराक्षरो वेद्यो विद्यावान् विदिताशयः ॥ ५५॥ आकारो भूषणो भूष्यो भूष्णुर्भुवनपूजितः । चक्रपाणिर्ध्वजधरः सुरेशो लोकवत्सलः ॥ ५६॥ वाग्मिपतिर्महाबाहुः प्रकृतिर्विकृतिर्गुणः । अन्धकारापहः श्रेष्ठो युगावर्तो युगादिकृत् ॥ ५७॥ अप्रमेयः सदायोगी निरहङ्कार ईश्वरः । शुभप्रदः शुभः शास्ता शुभकर्मा शुभप्रदः ॥ ५८॥ सत्यवान् श्रुतिमानुच्चैर्नकारो वृद्धिदोऽनलः । बलभृद्बलदो बन्धुर्मतिमान् बलिनां वरः ॥ ५९॥ अनङ्गो नागराजेन्द्रः पद्मयोनिर्गणेश्वरः । संवत्सर ऋतुर्नेता कालचक्रप्रवर्तकः ॥ ६०॥ पद्मेक्षणः पद्मयोनिः प्रभावानमरः प्रभुः । सुमूर्तिः सुमतिः सोमो गोविन्दो जगदादिजः ॥ ६१॥ पीतवासाः कृष्णवासा दिग्वासास्त्विन्द्रियातिगः । अतीन्द्रियोऽनेकरूपः स्कन्दः परपुरञ्जयः ॥ ६२॥ शक्तिमाञ्जलधृग्भास्वान् मोक्षहेतुरयोनिजः । सर्वदर्शी जितादर्शो दुःस्वप्नाशुभनाशनः ॥ ६३॥ माङ्गल्यकर्ता तरणिर्वेगवान् कश्मलापहः । स्पष्टाक्षरो महामन्त्रो विशाखो यजनप्रियः ॥ ६४॥ विश्वकर्मा महाशक्तिर्द्युतिरीशो विहङ्गमः । विचक्षणो दक्ष इन्द्रः प्रत्यूषः प्रियदर्शनः ॥ ६५॥ अखिन्नो वेदनिलयो वेदविद्विदिताशयः । प्रभाकरो जितरिपुः सुजनोऽरुणसारथिः ॥ ६६॥ कुनाशी सुरतः स्कन्दो महितोऽभिमतो गुरुः । ग्रहराजो ग्रहपतिर्ग्रहनक्षत्रमण्डलः ॥ ६७॥ भास्करः सततानन्दो नन्दनो नरवाहनः । मङ्गलोऽथ मङ्गलवान् माङ्गल्यो मङ्गलावहः ॥ ६८॥ मङ्गल्यचारुचरितः शीर्णः सर्वव्रतो व्रती । चतुर्मुखः पद्ममाली पूतात्मा प्रणतार्तिहा ॥ ६९॥ अकिञ्चनः सतामीशो निर्गुणो गुणवाञ्चुचिः । सम्पूर्णः पुण्डरीकाक्षो विधेयो योगतत्परः ॥ ७०॥ सहस्रांशुः क्रतुमतिः सर्वज्ञः सुमतिः सुवाक् । सुवाहनो माल्यदामा कृताहारो हरिप्रियः ॥ ७१॥ ब्रह्मा प्रचेताः प्रथितः प्रयतात्मा स्थिरात्मकः । शतविन्दुः शतमुखो गरीयाननलप्रभः ॥ ७२॥ धीरो महत्तरो विप्रः पुराणपुरुषोत्तमः । विद्याराजाधिराजो हि विद्यावान् भूतिदः स्थितः ॥ ७३॥ अनिर्देश्यवपुः श्रीमान् विपाप्मा बहुमङ्गलः । स्वःस्थितः सुरथः स्वर्णो मोक्षदो बलिकेतनः ॥ ७४॥ निर्द्वन्द्वो द्वन्द्वहा सर्गः सर्वगः संप्रकाशकः । दयालुः सूक्ष्मधीः क्षान्तिः क्षेमाक्षेमस्थितिप्रियः ॥ ७५॥ भूधरो भूपतिर्वक्ता पवित्रात्मा त्रिलोचनः । महावराहः प्रियकृद्दाता भोक्ताऽभयप्रदः ॥ ७६॥ चक्रवर्ती धृतिकरः सम्पूर्णोऽथ महेश्वरः । चतुर्वेदधरोऽचिन्त्यो विनिन्द्यो विविधाशनः ॥ ७७॥ विचित्ररथ एकाकी सप्तसप्तिः परात्परः । सर्वोदधिस्थितिकरः स्थितिस्थेयः स्थितिप्रियः ॥ ७८॥ निष्कलः पुष्कलो विभुर्वसुमान् वासवप्रियः । पशुमान् वासवस्वामी वसुधामा वसुप्रदः ॥ ७९॥ बलवान् ज्ञानवांस्तत्त्वमोङ्कारस्त्रिषु संस्थितः । सङ्कल्पयोनिर्दिनकृद्भगवान् कारणापहः ॥ ८०॥ नीलकण्ठो धनाध्यक्षश्चतुर्वेदप्रियंवदः । वषट्कारोद्गाता होता स्वाहाकारो हुताहुतिः ॥ ८१॥ जनार्दनो जनानन्दो नरो नारायणोऽम्बुदः । सन्देहनाशनो वायुर्धन्वी सुरनमस्कृतः ॥ ८२॥ विग्रही विमलो विन्दुर्विशोको विमलद्युतिः । द्युतिमान् द्योतनो विद्युद्विद्यावान् विदितो बली ॥ ८३॥ घर्मदो हिमदो हासः कृष्णवर्त्मा सुताजितः । सावित्रीभावितो राजा विश्वामित्रो घृणिर्विराट् ॥ ८४॥ सप्तार्चिः सप्ततुरगः सप्तलोकनमस्कृतः । सम्पूर्णोऽथ जगन्नाथः सुमनाः शोभनप्रियः ॥ ८५॥ सर्वात्मा सर्वकृत् सृष्टिः सप्तिमान् सप्तमीप्रियः । सुमेधा मेधिको मेध्यो मेधावी मधुसूदनः ॥ ८६॥ अङ्गिरःपतिः कालज्ञो धूमकेतुः सुकेतनः । सुखी सुखप्रदः सौख्यं कामी कान्तिप्रियो मुनिः ॥ ८७॥ सौख्यं कान्तिः सन्तापनः सन्तपन आतपस्तपसां पतिः । उमापतिः सहस्रांशुः प्रियकारी प्रियङ्करः ॥ ८८॥ प्रीतिर्विमन्युरम्भोत्थः खञ्जनो जगतां पतिः । जगत्पिता प्रीतमनाः सर्वः खर्वो गुहोऽचलः ॥ ८९॥ सर्वगो जगदानन्दो जगन्नेता सुरारिहा । श्रेयः श्रेयस्करो ज्यायान् महानुत्तम उद्भवः ॥ ९०॥ उत्तमो मेरुमेयोऽथ धरणो धरणीधरः । धराध्यक्षो धर्मराजो धर्माधर्मप्रवर्तकः ॥ ९१॥ रथाध्यक्षो रथगतिस्तरुणस्तनितोऽनलः । उत्तरोऽनुत्तरस्तापी अवाक्पतिरपां पतिः ॥ ९२॥ पुण्यसङ्कीर्तनः पुण्यो हेतुर्लोकत्रयाश्रयः । स्वर्भानुर्विगतानन्दो विशिष्टोत्कृष्टकर्मकृत् ॥ ९३॥ व्याधिप्रणाशनः क्षेमः शूरः सर्वजितां वरः । एकरथो रथाधीशः पिता शनैश्चरस्य हि ॥ ९४॥ वैवस्वतगुरुर्मृत्युर्धर्मनित्यो महाव्रतः । प्रलम्बहारासञ्चारी प्रद्योतो द्योतितानलः ॥ ९५॥ सन्तापहृत् परो मन्त्रो मन्त्रमूर्तिर्महाबलः । श्रेष्ठात्मा सुप्रियः शम्भुर्मरुतामीश्वरेश्वरः ॥ ९६॥ संसारगतिविच्चेत्ता संसारार्णवतारकः । सप्तजिह्वः सहस्रार्ची रत्नगर्भोऽपराजितः ॥ ९७॥ धर्मकेतुरमेयात्मा धर्माधर्मवरप्रदः । लोकसाक्षी लोकगुरुर्लोकेशश्चण्डवाहनः ॥ ९८॥ धर्मयूपो यूपवृक्षो धनुष्पाणिर्धनुर्धरः । पिनाकधृङ्महोत्साहो महामायो महाशनः ॥ ९९॥ वीरः शक्तिमतां श्रेष्ठः सर्वशस्त्रभृतां वरः । ज्ञानगम्यो दुराराध्यो लोहिताङ्गो विवर्धनः ॥ १००॥ खगोऽन्धो धर्मदो नित्यो धर्मकृच्चित्रविक्रमः । भगवानात्मवान् मन्त्रस्त्र्यक्षरो नीललोहितः ॥ १०१॥ एकोऽनेकस्त्रयी कालः सविता समितिञ्जयः । शार्ङ्गधन्वाऽनलो भीमः सर्वप्रहरणायुधः ॥ १०२॥ सुकर्मा परमेष्ठी च नाकपाली दिविस्थितः । वदान्यो वासुकिर्वैद्य आत्रेयोऽथ पराक्रमः ॥ १०३॥ द्वापरः परमोदारः परमो ब्रह्मचर्यवान् । उदीच्यवेषो मुकुटी पद्महस्तो हिमांशुभृत् ॥ १०४॥ सितः प्रसन्नवदनः पद्मोदरनिभाननः । सायं दिवा दिव्यवपुरनिर्देश्यो महालयः ॥ १०५॥ महारथो महानीशः शेषः सत्त्वरजस्तमः । धृतातपत्रप्रतिमो विमर्षी निर्णयः स्थितः ॥ १०६॥ अहिंसकः शुद्धमतिरद्वितीयो विवर्धनः । सर्वदो धनदो मोक्षो विहारी बहुदायकः ॥ १०७॥ चारुरात्रिहरो नाथो भगवान् सर्वगोऽव्ययः । मनोहरवपुः शुभ्रः शोभनः सुप्रभावनः ॥ १०८॥ सुप्रभावः सुप्रतापः सुनेत्रो दिग्विदिक्पतिः । राज्ञीप्रियः शब्दकरो ग्रहेशस्तिमिरापहः ॥ १०९॥ सैंहिकेयरिपुर्देवो वरदो वरनायकः । चतुर्भुजो महायोगी योगीश्वरपतिस्तथा ॥ ११०॥ अनादिरूपोऽदितिजो रत्नकान्तिः प्रभामयः । जगत्प्रदीपो विस्तीर्णो महाविस्तीर्णमण्डलः ॥ १११॥ एकचक्ररथः स्वर्णरथः स्वर्णशरीरधृक् । निरालम्बो गगनगो धर्मकर्मप्रभावकृत् ॥ ११२॥ धर्मात्मा कर्मणां साक्षी प्रत्यक्षः परमेश्वरः । मेरुसेवी सुमेधावी मेरुरक्षाकरो महान् ॥ ११३॥ आधारभूतो रतिमांस्तथा च धनधान्यकृत् । पापसन्तापहर्ता च मनोवाञ्चितदायकः ॥ ११४॥ रोगहर्ता राज्यदायी रमणीयगुणोऽनृणी । कालत्रयानन्तरूपो मुनिवृन्दनमस्कृतः ॥ ११५॥ सन्ध्यारागकरः सिद्धः सन्ध्यावन्दनवन्दितः । साम्राज्यदाननिरतः समाराधनतोषवान् ॥ ११६॥ भक्तदुःखक्षयकरो भवसागरतारकः भयापहर्ता भगवानप्रमेयपराक्रमः । मनुस्वामी मनुपतिर्मान्यो मन्वन्तराधिपः ॥ ११७॥ फलश्रुतिः एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्चसि । नाम्नां सहस्रं सवितुः पाराशर्यो यदाह मे ॥ १॥ धन्यं यशस्यमायुष्यं दुःखदुःस्वप्ननाशनम् । बन्धमोक्षकरं चैव भानोर्नामानुकीर्तनात् ॥ २॥ यस्त्विदं श‍ृणुयान्नित्यं पठेद्वा प्रयतो नरः । अक्षयं सुखमन्नाद्यं भवेत्तस्योपसाधितम् ॥ ३॥ नृपाग्नितस्करभयं व्याधितो न भयं भवेत् । विजयी च भवेन्नित्यमाश्रयं परमाप्नुयात् ॥ ४॥ कीर्तिमान् सुभगो विद्वान् स सुखी प्रियदर्शनः । जीवेद्वर्षशतायुश्च सर्वव्याधिविवर्जितः ॥ ५॥ नाम्नां सहस्रमिदमंशुमतः पठेद्यः प्रातः शुचिर्नियमवान् सुसमृद्धियुक्तः । दूरेण तं परिहरन्ति सदैव रोगाः भूताः सुपर्णमिव सर्वमहोरगेन्द्राः ॥ ६॥ ॥ इति श्री भविष्यपुराणे सप्तमकल्पे श्रीभगवत्सूर्यस्य सहस्रनामस्तोत्रं सम्पूर्णम् ॥ Revised by PSA Easwaran from Gita press to avoid errors.