सूर्यकवच
वज्रपञ्जराख्यसूर्यकवचम् । श्रीभैरव उवाच यो देवदेवो भगवान् भास्करो महसां निधिः। गयत्रीनायको भास्वान् सवितेति प्रगीयते ॥ १॥ तस्याहं कवचं दिव्यं वज्रपञ्जरकाभिधम्। सर्वमन्त्रमयं गुह्यं मूलविद्यारहस्यकम् ॥ २॥ सर्वपापापहं देवि दुःखदारिद्र्यनाशनम्। महाकुष्ठहरं पुण्यं सर्वरोगनिवर्हणम् ॥ ३॥ सर्वशत्रुसमूहघ्नं सम्ग्रामे विजयप्रदम्। सर्वतेजोमयं सर्वदेवदानवपूजितम् ॥ ४॥ रणे राजभये घोरे सर्वोपद्रवनाशनम्। मातृकावेष्टितं वर्म भैरवानननिर्गतम् ॥ ५॥ ग्रहपीडाहरं देवि सर्वसङ्कटनाशनम्। धारणादस्य देवेशि ब्रह्मा लोकपितामहः ॥ ६॥ विष्णुर्नारायणो देवि रणे दैत्याञ्जिओष्यति। शङ्करः सर्वलोकेशो वासवोऽपि दिवस्पतिः ॥ ७॥ ओषधीशः शशी देवि शिवोऽहं भैरवेश्वरः। मन्त्रात्मकं परं वर्म सवितुः सारमुत्तमम् ॥ ८॥ यो धारयेद् भुजे मूर्ध्नि रविवारे महेश्वरि। स राजवल्लभो लोके तेजस्वी वैरिमर्दनः ॥ ९॥ बहुनोक्तेन किं देवि कवचस्यास्य धारणात्। इह लक्ष्मीधनारोग्य-वृद्धिर्भवति नान्यथा ॥ १०॥ परत्र परमा मुक्तिर्देवानामपि दुर्लभा। कवचस्यास्य देवेशि मूलविद्यामयस्य च ॥ ११॥ वज्रपञ्जरकाख्यस्य मुनिर्ब्रह्मा समीरितः। गायत्र्यं छन्द इत्युक्तं देवता सविता स्मृतः ॥ १२॥ माया बीजं शरत् शक्तिर्नमः कीलकमीश्वरि। सर्वार्थसाधने देवि विनियोगः प्रकीर्तितः ॥ १३॥ ओं अं आं इं ईं शिरः पातु ओं सूर्यो मन्त्रविग्रहः। उं ऊं ऋं ॠं ललाटं मे ह्रां रविः पातु चिन्मयः ॥ १४॥ ऌं ॡं एं ऐं पातु नेत्रे ह्रीं ममारुणसारथिः। ओं औं अं अः श्रुती पातु सः सर्वजगदीश्वरः ॥ १५॥ कं खं गं घं पातु गण्डौ सूं सूरः सुरपूजितः। चं छं जं झं च नासां मे पातु या^र्ं अर्यमा प्रभुः ॥ १६॥ टं ठं डं ढं मुखं पायाद् यं योगीश्वरपूजितः। तं थं दं धं गलं पातु नं नारायणवल्लभः ॥ १७॥ पं फं बं भं मम स्कन्धौ पातु मं महसां निधिः। यं रं लं वं भुजौ पातु मूलं सकनायकः ॥ १८॥ शं षं सं हं पातु वक्षो मूलमन्त्रमयोइ ध्रुवः। ळं क्षः कुक्ष्सिं सदा पातु ग्रहाथो दिनेश्वरः ॥ १९॥ ङं ञं णं नं मं मे पातु पृष्ठं दिवसनायकः। अं आं इं ईं उं ऊं ऋं ॠं नाभिं पातु तमोपहः ॥ २०॥ ऌं ॡं एं ऐं ओं औं अं अः लिङ्गं मेऽव्याद् ग्रहेश्वरः। कं खं गं घं चं छं जं झं कटिं भानुर्ममावतु ॥ २१॥ टं ठं डं ढं तं थं दं धं जानू भास्वान् ममावतु। पं फं बं भं यं रं लं वं जङ्घे मे।आव्याद् विभाकरः ॥ २२॥ शं षं सं हं ळं क्षः पातु मूलं पादौ त्रयितनुः। ङं ञं णं नं मं मे पातु सविता सकलं वपुः ॥ २३॥ सोमः पूर्वे च मां पातु भौमोऽग्नौ मां सदावतु। बुधो मां दक्षिणे पातु नैऋत्या गुररेव माम् ॥ २४॥ पश्चिमे मां सितः पातु वायव्यां मां शनैश्चरः। उत्तरे मां तमः पायादैशान्यां मां शिखी तथा ॥ २५॥ ऊर्ध्वं मां पातु मिहिरो मामधस्ताञ्जगत्पतिः। प्रभाते भास्करः पातु मध्याह्ने मां दिनेश्वरः ॥ २६॥ सायं वेदप्रियः पातु निशीथे विस्फुरापतिः। सर्वत्र सर्वदा सूर्यः पातु मां चक्रनायकः ॥ २७॥ रणे राजकुले द्यूते विदादे शत्रुसङ्कटे। सङ्गामे च ज्वरे रोगे पातु मां सविता प्रभुः ॥ २८॥ ओं ओं ओं उत ओंउॐ ह स म यः सूरोऽवतान्मां भयाद्। ह्रां ह्रीं ह्रुं हहहा हसौः हसहसौः हंसोऽवतात् सर्वतः। सः सः सः सससा नृपाद्वनचराच्चौराद्रणात् संकटात्। पायान्मां कुलनायकोऽपि सविता ओं ह्रीं ह सौः सर्वदा ॥ २९॥ द्रां द्रीं द्रूं दधनं तथा च तरणिर्भांभैर्भयाद् भास्करो रां रीं रूं रुरुरूं रविर्ज्वरभयात् कुष्ठाच्च शूलामयात्। अं अं आं विविवीं महामयभयं मां पातु मार्तण्डको मूलव्याप्ततनुः सदावतु परं हंसः सहस्रांशुमान् ॥ ३०॥ इति श्रीकवच्चं दिव्यं वज्रपञ्जरकाभिधम्। सर्वदेवरहस्यं च मातृकामन्त्रवेष्टितम् ॥ ३१॥ महारोगभयघ्नं च पापघ्नं मन्मुखोदितम्। गुह्यं यशस्करं पुण्यं सर्वश्रेयस्करं शिवे ॥ ३२॥ लिखित्वा रविवारे तु तिष्ये वा जन्मभे प्रिये। अष्टगन्धेन दिव्येन सुधाक्षीरेण पार्वति ॥ ३३॥ अर्कक्षीरेण पुण्येन भूर्जत्वचि महेश्वरि। कनकीकाष्ठलेखन्या कवचं भास्करोदये ॥ ३४॥ श्वेतसूत्रेण रक्तेन श्यामेनावेष्टयेद् गुटीम्। सौवर्णेनाथ संवेष्ठ्य धारयेन्मूर्ध्नि वा भुजे ॥ ३५॥ रणे रिपूञ्जयेद् देवि वादे सदसि जेष्यति। राजमान्यो भवेन्नित्यं सर्वतेजोमयो भवेत् ॥ ३६॥ कण्ठस्था पुत्रदा देवि कुक्षिस्था रोगनाशिनी। शिरःस्था गुटिका दिव्या राकलोकवशङ्करी ॥ ३७॥ भुजस्था धनदा नित्यं तेजोबुद्धिविवर्धिनी। वन्ध्या वा काकवन्ध्या वा मृतवत्सा च याङ्गना ॥ ३८॥ कण्ठे सा धारयेन्नित्यं बहुपुत्रा प्रजायये। यस्य देहे भवेन्नित्यं गुटिकैषा महेश्वरि ॥ ३९॥ महास्त्राणीन्द्रमुक्तानि ब्रह्मास्त्रादीनि पार्वति। तद्देहं प्राप्य व्यर्थानि भविष्यन्ति न संशयः ॥ ४०॥ त्रिकालं यः पठेन्नित्यं कवचं वज्रपञ्जरम्। तस्य सद्यो महादेवि सविता वरदो भवेत् ॥ ४१॥ अज्ञात्वा कवचं देवि पूजयेद् यस्त्रयीतनुम्। तस्य पूजार्जितं पुण्यं जन्मकोटिषु निष्फलम् ॥ ४२॥ शतावर्तं पठेद्वर्म सप्तम्यां रविवासरे। महाकुष्ठार्दितो देवि मुच्यते नात्र संशयः ॥ ४३॥ निरोगो यः पठेद्वर्म दरिद्रो वज्रपञ्जरम् । लक्ष्मीवाञ्जायते देवि सद्यः सूर्यप्रसादतः ॥ ४४॥ भक्त्या यः प्रपठेद् देवि कवचं प्रत्यहं प्रिये। इह लोके श्रियं भुक्त्वा देहान्ते मुक्तिमाप्नुयात् ॥ ४५॥ इति श्रीरुद्रयामले तन्त्रे श्रीदेविरहस्ये वज्रपञ्जराख्यसूर्यकवचनिरूपणं त्रयस्त्रिंशः पटलः ॥ ३३ ॥ Surya kavacha is attributed to Rudrayamala and quoted in DevirahasyaShloka aturday, July 22, 2000 5:14 AM