अक्षर आकार:

सोमोत्पत्तिस्तोत्रम्

Somotpatti Stotram

सोमोत्पत्तिस्तोत्रम्

याजुर्वैदिकी पारमात्मिकोपनिषदन्तर्गतं ॥ हरिः ॐ ॥ ऋषय ऊचुः - कौतूहलं समुत्पन्नं देवता ऋषिभिः सह । संशयं परिपृच्छन्ति व्यासं धर्मार्थकोविदम् ॥ १॥ कथं वा क्षीयते सोमः क्षीणो वा वर्धते कथम् । इमं प्रश्नं महाभाग ब्रूहि सर्वमशेषतः ॥ २॥ व्यास उवच - श‍ृण्वन्तु देवताः सर्वे यदर्थमिह आगताः । तमर्थं सम्प्रवक्ष्यामि सोमस्य गतिमुत्तमाम् ॥ ३॥ अग्नौ हुतं च दत्तं च सर्वं सोमगतं भवेत् । तत्र सोमः समुत्पन्नः स्मितांशुहिमवर्षणः ॥ ४॥ अष्टाशीति सहस्राणि विस्तीर्णो योजनानि तु । प्रमाणं तत्र विज्ञेयं कलाः पञ्चदशैव तत् ॥ ५॥ षोडशी तु कलाप्यत्र इत्येकोऽपि विधिर्भवेत् । तं च सोमं पपुर्देवाः पर्यायेणानुपूर्बशः ॥ ६॥ प्रथमां पिबते वह्निः द्वितियां पिबते रविः । विश्वेदेवास्तृतीयां तु चतुर्थीं सलिलाधिपः ॥ ७॥ पञ्चमीं तु वषट्कारः षष्टीं पिबत वासवः । सप्तमीं ऋषयो दिव्याः अष्टमीमज एकपात् ॥ ८॥ नवमीं कृष्णपक्षस्य यमः प्राश्नाति वै कलाम् । दशमीं पिबते वायुः पिबत्येकादशीमुमा ॥ ९॥ द्वादशीं पितरः सर्वे सम्प्राश्नन्ति भागशः । त्रयोदशीं धनाध्यक्षः कुबेरः पिबते कलाम् ॥ १०॥ चतुर्दशीं पशुपतिः पञ्चदशीं प्रजापतिः । निष्पीत एककलाशेषः चन्द्रमा न प्रकाशते ॥ ११॥ कला षोडशकायां तु आपः प्रविशते सदा । अमायां तु सदा सोमः ओषधिः प्रतिपद्यते ॥ १२॥ तमोषधिगतं गावः पिबन्त्यम्बुगतं च यत् । यत्क्षीरममृतं भूत्वा मन्त्रपूतं द्विजातिभिः ॥ १३॥ हुतमग्निषु यज्ञेषु पुनराप्यायते शशी । दिने दिने कलावृद्धिः पौर्णिमास्यां तु पूर्णतः ॥ १४॥ नवो नवो भवति जायमानोऽह्नां केतुरुषसामेत्यग्रे । भागं देवेभ्यो विदधात्यायन् प्रचन्द्रमास्तगति दीर्घमायुः ॥ १५॥ त्रिमुहूर्तं वसेदर्के त्रिमुहूर्तं जले वसेत् । त्रिमुहूर्तं वसेद्गोषु त्रिमुहूर्तं वनस्पतौ ॥ १६॥ वनस्पतिगते सोमे यस्तु हिंस्याद्वनस्पतिम् । घोरायां ब्रूणहत्यायां युज्यते नात्र संशयः ॥ १७॥ वनस्पतिगते सोमे अनडुहो यस्तु वाहयेत् । नाश्नन्ति पितरस्तस्य दशवर्षाणि पञ्च च ॥ १८॥ वनस्पतिगते सोमे पन्थानं यस्तु कारयेत् । गावस्तस्य प्रणश्यन्ति चिरकालमुपस्थिताः ॥ १९॥ वनस्पतिगते सोमे स्त्रियं वा योऽधिगच्छति । स्वर्गस्थाः पितरस्तस्य च्यवन्ते नात्र सेशयः ॥ २०॥ वनस्पतिगते सोमे परान्नं यस्तु भुञ्जति । तस्य मासकृतो होमः दातारमधिगच्छति ॥ २१॥ वनस्पतिगते सोमे यः कुर्याद्दन्तधावनम् । चन्द्रमा भक्षितो येन पितृवंशस्य घातकः ॥ २२॥ सोमोत्पत्तिमिमां यस्तु श्राद्धकाले सदा पठेत् । तदन्नममृतं भूत्वा पितॄणां दत्तमक्षयम् ॥ २३॥ सोमोत्पत्तिमिमां यस्तु गुर्विणीं श्रावयेत्प्रियाम् । ऋषभं जनयेत्पुत्रं सर्वज्ञं वेदपारगम् ॥ २४॥ सोमोत्पत्तिमिमां यस्तु पर्वकाले सदा पठेत् । सर्वान् कामानवाप्नोति सोमलोकं स गच्छति ॥ २५॥ श्रीसोमलोकं स गच्छत्यों नम इति ॥ शुक्ले देवान्, पितॄन् कृष्णे, तर्पयत्यमृतेन च यश्च राजा द्विजातीनां तस्मै सोमात्मने नमः ॥ २६॥ इति सोमोत्पत्तिः स्तोत्रं सम्पूर्णम् । ॥ श्रीकृष्णार्पणमस्तु ॥