अक्षर आकार:

सोमस्तोत्रम्

somastotraM

सोमस्तोत्रम्

अथ सोमस्तोत्रप्रारम्भः । अस्य श्रीसोमस्तोत्रमहामन्त्रस्य गौतम ऋषिः । अनुष्टुप्छन्दः । सोमो देवता । सोमप्रीत्यर्थे जपे विनियोगः । वां अङ्गुष्ठाभ्यां नमः । वीं तर्जनीभ्यां नमः । वूं मध्यमाभ्यां नमः । वैं अनामिकाभ्यां नमः । वौं कनिष्ठिकाभ्यां नमः । वः करतलकरपृष्ठाभ्यां नमः । वां हृदयाय नमः । वीं शिरसे स्वाहा । वूं शिखायै वषट् । वैं कवचाय हुम् । वौं नेत्रत्रयाय वौषट् । वः अस्त्राय फट् । भूर्भुवः सुवरोमिति दिग्बन्धः । ध्यानम् । श्वेताम्बरोज्ज्वलतनुं सितमाल्यगन्धं श्वेताश्वयुक्तरथगं सुरसेविताङ्घ्रिम् । दोर्भ्यां धृताभयगदं वरदं सुधांशुं श्रीवत्समौक्तिकधरं प्रणमामि चन्द्रं ॥ १॥ आग्नेयभागे सरथो दशाश्वश्चात्रेयजो यामुनदेशजश्च । प्रत्यङ्मुखस्थश्चतुरश्रपीठे गदाधरो नोऽवतु रोहिणीशः ॥ २॥ चन्द्रं नमामि वरदं शङ्करस्य विभूषणम् । कलानिधिं कान्तरूपं केयूरमकुटोज्ज्वलम् ॥ ३॥ वरदं वन्द्यचरणं वासुदेवस्य लोचनम् । वसुधाह्लादनकरं विधुं तं प्रणमाम्यहम् ॥ ४॥ श्वेतमाल्याम्बरधरं श्वेतगन्धानुलेपनम् । श्वेतछत्रोल्लसन्मौलिं शशिनं प्रणमाम्यहम् ॥ ५॥ सर्वं जगज्जीवयसि सुधारसमयैः करैः । सोम देहि ममारोग्यं सुधापूरितमण्डलम् ॥ ६॥ राजा त्वं ब्राह्मणानां च रमाया अपि सोदरः । राजा नाथश्चौषधीनां रक्ष मां रजनीकर ॥ ७॥ शङ्करस्य शिरोरत्नं शार्ङ्गिणश्च विलोचनम् । तारकाणामधीशस्त्वं तारयाऽस्मान्महापदः ॥ ८॥ कल्याणमूर्ते वरद करुणारसवारिधे । कलशोदधिसञ्जातकलानाथ कृपां कुरु ॥ ९॥ क्षीरार्णवसमुद्भूत चिन्तामणिसहोद्भव । कामितार्थान् प्रदेहि त्वं कल्पद्रुमसहोदर ॥ १०॥ श्वेताम्बरः श्वेतविभूषणाढ्यो गदाधरः श्वेतरुचिर्द्विबाहुः । चन्द्रः सुधात्मा वरदः किरीटी श्रेयांसि मह्यं प्रददातु देवः ॥ ११॥ इदं निशाकरस्तोत्रं यः पठेत् प्रत्यहं नरः । उपद्रवात्स मुच्येत नात्र कार्या विचारणा ॥ १२॥ इति सोमस्तोत्रं सम्पूर्णम् ।