अक्षर आकार:

शुक्रस्तोत्रम् ३

shukrastotram 3

शुक्रस्तोत्रम् ३

ॐ कवीश्वर नमस्तुभ्यं हव्यकव्यविदां वर । उपासक सरस्वत्या मृतसञ्जीवनप्रिय ॥ १॥ दैत्यपूज्य नमस्तुभ्यं दैत्येन्द्रशासनाकर । नीतिशास्त्रकलाभिज्ञ बलिजीवप्रभावन ॥ २॥ प्रह्लादपरमाह्लाद विरोचनगुरो सित । आस्फूर्जज्जितशिष्यारे नमस्ते भृगुनन्दन ॥ ३॥ सुराशन सुरारातिचित्तसंस्थितिभावन । उशना सकलप्राणिप्राणाश्रय नमोऽस्तु ते ॥ ४॥ नमस्ते खेचराधीश शुक्र शुक्लयशस्कर । वारुण वारुणीनाथ मुक्तामणिसमप्रभ ॥ ५॥ क्षीबचित्त कचोद्भूतिहेतो जीवरिपो नमः । देवयानीययातीष्ट दुहितृस्थेयवत्सल ॥ ६॥ वह्निकोणपते तुभ्यं नमस्ते खगनायक । त्रिलोचन तृतीयाक्षिसंस्थित शुकवाहन ॥ ७॥ इत्थं दैत्यगुरोः स्तोत्रं यः स्मरेन्मानवः सदा । दशादौ गोचरे तस्य भवेद्विघ्नहरः सितः ॥ ८॥ सोमतुल्या प्रभा यस्य चासुराणां गुरुस्तथा । जेता यः सर्वशत्रूणां स काव्यः प्रीयतां मम ॥ ९॥ इति शुक्रस्तोत्रं सम्पूर्णम् ।