अक्षर आकार:

शुक्रस्तोत्रम् २

shukrastotram 2

शुक्रस्तोत्रम् २

श्रीगणेशाय नमः । शुक्रः काव्यः शुक्ररेता शुक्लाम्बरधरः सुधीः । हिमाभः कुन्तधवलः शुभ्रांशुः शुक्लभूषणः ॥ १॥ नीतिज्ञो नीतिकृन्नीतिमार्गगामी ग्रहाधिपः । उशना वेदवेदाङ्गपारगः कविरात्मवित् ॥ २॥ भार्गवः करुणाः सिन्धुर्ज्ञानगम्यः सुतप्रदः । शुक्रस्यैतानि नामानि शुक्रं स्मृत्वा तु यः पठेत् ॥ ३॥ आयुर्धनं सुखं पुत्रं लक्ष्मींवसतिमुत्तमाम् । विद्यां चैव स्वयं तस्मै शुक्रस्तुष्टोददाति च ॥ ४॥ इति श्रीस्कन्दपुराणे शुक्रस्तोत्रं सम्पूर्णम् ।