अक्षर आकार:

शुक्रस्तोत्रम्

shukrastotraM

शुक्रस्तोत्रम्

अथ शुक्रस्तोत्रप्रारम्भः । श‍ृण्वन्तु मुनयः सर्वे शुक्रस्तोत्रमिदं शुभम् । रहस्यं सर्वभूतानां शुक्रप्रीतिकरं शुभम् ॥ १॥ येषां सङ्कीर्तनान्नित्यं सर्वान् कामानवाप्नुयात् । तानि शुक्रस्य नामानि कथयामि शुभानि च ॥ २॥ शुक्रः शुभग्रहः श्रीमान् वर्षकृद्वर्षविघ्नकृत् । तेजोनिधिर्ज्ञानदाता योगी योगविदां वरः ॥ ३॥ दैत्यसञ्जीवनो धीरो दैत्यनेतोशना कविः । नीतिकर्ता ग्रहाधीशो विश्वात्मा लोकपूजितः ॥ ४॥ शुक्लमाल्याम्बरधरः श्रीचन्दनसमप्रभः । अक्षमालाधरः काव्यः तपोमूर्तिर्धनप्रदः ॥ ५॥ चतुर्विंशतिनामानि अष्टोत्तरशतं यथा । देवस्याग्रे विशेषेण पूजां कृत्वा विधानतः ॥ ६॥ य इदं पठति स्तोत्रं भार्गवस्य महात्मनः । विषमस्थोऽपि भगवान् तुष्टः स्यान्नात्र संशयः ॥ ७॥ स्तोत्रं भृगोरिदमनन्तगुणप्रदं यो भक्त्या पठेच्च मनुजो नियतः शुचिः सन् । प्राप्नोति नित्यमतुलां श्रियमीप्सितार्थान् राज्यं समस्तधनधान्ययुतां समृद्धिम् ॥ ८॥ इति शुक्रस्तोत्रं समाप्तम् ।