अक्षर आकार:

शुक्रस्तवराजः

Shukra Stava

शुक्रस्तवराजः

अस्य श्रीशुक्रस्तवराजस्य प्रजापतिः ऋषिः अनुष्टुप् छन्दः शुक्रो देवता श्रीशुक्रप्रीत्यर्थे पाठे विनियोगः ॥ नमस्ते भार्गवश्रेष्ठ दैत्यदानवपूजित । वृष्टिरोधप्रकर्त्रे च वृष्टिकर्त्रे नमो नमः ॥ १॥ देवयानिपतिस्तुभ्यं वेदवेदाङ्गपारग । परेण तपसा शुद्धः शङ्करो लोकसुन्दरः ॥ २॥ प्राप्तौ विद्यां जीवनाख्यां तस्मै शुक्रात्मने नमः । नमस्तस्मै भगवते भृगुपुत्राय वेधसे ॥ ३॥ तारामण्डलमध्यस्थ स्वभासाभासिताम्बरः । यस्योदये जगत्सर्वं मङ्गलार्हं भवेदिह ॥ ४॥ अस्तं याते ह्यरिष्टं स्यात्तस्मै मङ्गलरूपिणे । त्रिपुरावासिनो दैत्यान् शिवबाणप्रपीडितान् ॥ ५॥ विद्ययाऽजीवयच्छुक्रो नमस्ते भृगुनन्दन । ययातिगुरवे तुभ्यं नमस्ते कविनन्दन ॥ ६॥ वलिराज्यप्रदो जीवस्तस्मै जीवात्मने नमः । भार्गवाय नमस्तुभ्यं पूर्वगीर्वाणवन्दित ॥ ७॥ जीवपुत्राय यो विद्यां प्रादात्तस्मै नमो नमः । नमः शुक्राय काव्याय भृगुपुत्राय धीमहि ॥ ८॥ नमः कारणरूपाय नमस्ते कारणात्मने । स्तवराजमिमं पुण्यं भार्गवस्य महात्मनः ॥ ९॥ यः पठेच्छृणुयाद्वापि लभते वाञ्छितं फलम् । पुत्रकामो लभेत्पुत्रान् श्रीकामो लभते श्रियम् ॥ १०॥ राज्यकामो लभेद्राज्यं स्त्रीकामः स्त्रियमुत्तमाम् । भृगुवारे प्रयत्नेन पठितव्यं समाहितेः ॥ ११॥ अन्यवारे तु होरायां पूजयेद्भृगुनन्दनम् । रोगार्तो मुच्यते रोगाद्भयार्तो मुच्यते भयात् ॥ १२॥ यद्यत्प्रार्थयते जन्तुस्तत्तत्प्राप्नोति सर्वदा । प्रातःकाले प्रकर्तव्या भृगुपूजा प्रयत्नतः । सर्वपापविनिर्मुक्तः प्राप्नुयाच्छिवसन्निधिम् ॥ १३॥ इति श्रीब्रह्मयामले शुक्रस्तवराजः सम्पूर्णः ॥ Vineet Menon