अक्षर आकार:

शुक्रमङ्गलस्तोत्रम्

shukramangalastotram

शुक्रमङ्गलस्तोत्रम्

शुक्रो भार्गवगोत्रजः सितनिभः प्राचीमुखः पूर्वदिक् । पञ्चाङ्गो वृषभस्तुलाधिपमहाराष्ट्राधिपोदुम्बरः ॥ १॥ इन्द्राणी मघवानुभौ बुधशनी मित्रार्कचन्द्रौ रिपू । षष्ठो द्विर्दशवर्जितो भृगुसुतः कुर्यात्सदा मङ्गलम् ॥ २॥ प्रार्थना आवाहनं न जानामि न जानामि विसर्जनम् । पूजां नैव हि जानामि क्षमस्व परमेश्वर ॥ १॥ मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर । यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥ २॥ भार्गवो भर्गजननः शुचिः श्रुतिविशारदः । हत्वा ग्रहकृतान्दोषानारोग्यं देहि मे सदा ॥ ३॥ ॐ अनया पूजया शुक्रदेवः प्रीयताम् । ॐ शुक्राय नमः ॐ काव्याय नमः ॐ भार्गवाय नमः । ॥ ॐ शान्तिः ॐ शान्तिः ॐ शान्तिः ॐ ॥ इति श्रीशुक्रमङ्गलस्तोत्रं सम्पूर्णम् ॥