अक्षर आकार:

शनिस्तोत्रम्

shanistotram

शनिस्तोत्रम्

ॐ शनैश्चरः स्वधाकारी छायाभूः सूर्यनन्दनः । मार्तण्डजो यमः सौरिः पङ्गूश्च ग्रहनायकः ॥ १॥ ब्रह्मण्योऽक्रूरधर्मज्ञो नीलवर्णोऽञ्जनद्युतिः । द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ॥ २॥ तस्य पीडां नचैवाहं करिष्यामि न संशयः । गोचरे जन्मलग्ने च वापस्वन्तर्दशासु च ॥ ३॥ इति शनैश्चरस्तोत्रम् ।