अक्षर आकार:

श्रीशनिरक्षास्तवः

shrIshanirakShAstavaH

श्रीशनिरक्षास्तवः

॥ पूर्वपीठिका ॥ श्रीनारद उवाच । ध्यात्वा गणपतिं राजा धर्मराजो युधिष्ठिरः । धीरः शनैश्चरस्येमं चकार स्तवमुत्तमम् ॥ ॥ मूलपाठः ॥ ॥ विनियोगः ॥ ॐ अस्य श्रीशनिस्तवराजस्य सिन्धुद्वीप ऋषिः । गायत्री छन्दः । श्रीशनैश्चर देवता । श्रीशनैश्चरप्रीत्यर्थे पाठे विनियोगः ॥ ॥ ऋष्यादिन्यासः ॥ शिरसि सिन्धुद्वीपर्षये नमः । मुखे गायत्रीछन्दसे नमः । हृदि श्रीशनैश्चरदेवतायै नमः । सर्वाङ्गे श्रीशनैश्चरप्रीत्यर्थे विनियोगाय नमः ॥ ॥ स्तवः ॥ शिरो मे भास्करिः पातु भालं छायासुतोऽवतु । कोटराक्षो दृशौ पातु शिखिकण्ठनिभः श्रुती ॥ घ्राणं मे भीषणः पातु मुखं बलिमुखोऽवतु । स्कन्धौ संवर्तकः पातु भुजो मे भयदोऽवतु ॥ सौरिर्मे हृदयं पातु नाभिं शनैश्चरोऽवतु । ग्रहराजः कटिं पातु सर्वतो रविनन्दनः ॥ पादौ मन्दगतिः पातु कृष्णः पात्वखिलं वपुः ॥ ॥ फलश्रुतिः ॥ रक्षामेतां पठेन्नित्यं सौरेर्नामाबलैर्युतम् । सुखी पुत्री चिरायुश्च स भवेन्नात्र संशयः ॥ ॥ इति श्रीशनिरक्षास्तवः ॥