अक्षर आकार:

श्रीशनिनामस्तुतिः

shrIshaninAmastutiH

श्रीशनिनामस्तुतिः

क्रोडं नीलाञ्जनप्रख्यम् नीलवर्णसमस्रजम् । छायामार्तण्डसम्भूतं नमस्यामि शनैश्चरम् ॥ नमोऽर्कपुत्राय शनैश्चराय नीहारवर्णाञ्जनमेचकाय । श्रुत्वा रहस्यं भवकामदश्च फलप्रदो मे भव सूर्यपुत्र ॥ नमोऽस्तु प्रेतराजाय कृष्णदेहाय वै नमः । शनैश्चराय क्रूराय शुद्धबुद्धिप्रदायिने ॥ ॥ फल्श्रुतिः ॥ य एभिर्नामभिः स्तौति तस्य तुष्टो भवाम्यहम् । मदीयं तु भयं तस्य स्वप्नेऽपि न भविष्यति ॥ ॥ श्रीभविष्यपुराणे श्रीशनिनामस्तुतिः सम्पूर्णा ॥