अक्षर आकार:

शनिमङ्गलस्तोत्रम्

shanimangalastotram

शनिमङ्गलस्तोत्रम्

मन्दः कृष्णनिभस्तु पश्चिममुखः सौराष्ट्रकः काश्यपः । स्वामी नक्रभकुम्भयोर्बुधसितौ मित्रे समश्चाऽङ्गिराः ॥ १॥ स्थानं पश्चिमदिक् प्रजापति यमौ देवौ धनुष्यासनः । षट्त्रिस्थः शुभकृच्छनी रविसुतः कुर्यात्सदा मङ्गलम् ॥ २॥ प्रार्थना आवाहनं न जानामि न जानामि विसर्जनम् । पूजां नैव हि जानामि क्षमस्व परमेश्वर ॥ मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर । यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥ कोणनीलाञ्जनप्रख्यं मन्दचेष्टाप्रसारिणम् । छायामार्तण्डसम्भूतं तं नमामि शनैश्चरम् ॥ ॐ अनया पूजया शनैश्चरः प्रीयताम् । ॐ मन्दाय नमः ॐ घटनाथाय नमः ॐ शनैश्चराय नमः । ॐ शान्तिः ॐ शान्तिः ॐ शान्तिः ॐ ॥ इति श्रीशनिमङ्गलस्तोत्रं सम्पूर्णम् ॥