अक्षर आकार:

शनिभार्या एवम् शनिस्तोत्रम्

shanibhAryAstotram

शनिभार्या एवम् शनिस्तोत्रम्

यः पुरा राज्यभ्रष्टाय नलाय प्रददो किल । स्वप्ने शौरिः स्वयं मन्त्रं सर्वकामफलप्रदम् ॥ १॥ क्रोडं नीलाञ्जनप्रख्यं नीलजीमूतसन्निभम् । छायामार्तण्डसम्भूतं नमस्यामि शनैश्चरम् ॥ २॥ ॐ नमोऽर्कपुत्राय शनैश्चराय नीहारवर्णाञ्जननीलकाय । स्मृत्वा रहस्यं भुवि मानुषत्वे फलप्रदो मे भव सूर्यपुत्र ॥ ३॥ नमोऽस्तु प्रेतराजाय कृष्णवर्णाय ते नमः । शनैश्चराय क्रूराय सिद्धिबुद्धिप्रदायिने ॥ ४॥ य एभिर्नामभिः स्तौति तस्य तुष्टो भवाम्यहम् । मामकानां भयं तस्य स्वप्नेष्वपि न जायते ॥ ५॥ गार्गेय कौशिकस्यापि पिप्पलादो महामुनिः । शनैश्चरकृता पीडा न भवति कदाचन ॥ ६॥ क्रोडस्तु पिङ्गलो बभ्रुः कृष्णो रौद्रोऽन्तको यमः । शौरिः शनैश्चरो मन्दः पिप्पलादेन संयुतः ॥ ७॥ एतानि शनिनामानि प्रातरुत्थाय यः पठेत् । तस्य शौरेः कृता पीडा न भवति कदाचन ॥ ८॥ ध्वजनी धामनी चैव कङ्काली कलहप्रिया । कलही कण्टकी चापि अजा महिषी तुरङ्गमा ॥ ९॥ नामानि शनिभार्याया नित्यं जपति यः पुमान् । तस्य दुःखा विनश्यन्ति सुखसौभाग्यं वर्धते ॥ १०॥ इति ।