अक्षर आकार:

शनैश्चरस्तोत्रम्

shanaishcharastotraM

शनैश्चरस्तोत्रम्

अथ शनैश्चरस्तोत्रप्रारम्भः । अस्य श्रीशनैश्चरस्तोत्रमहामन्त्रस्य काश्यप ऋषिः । अनुष्ट्प्छन्दः ।शनैश्चरो देवता । शं बीजम् । नं शक्तिः । मं कीलकम् । शनैश्चरप्रसादसिद्ध्यर्थे जपे विनियोगः । शनैश्चराय अङ्गुष्ठाभ्यां नमः । मन्दगतये तर्जनीभ्यां नमः । सौराय अनामिकाभ्यां नमः । शुष्कोदराय कनिष्ठिकाभ्यां नमः । छायात्मजाय करतलकरपृष्ठाभ्यां नमः । शनैश्चराय हृदयाय नमः । मन्दगतये शिरसे स्वाहा । अधोक्षजाय शिखायै वषट् । सौराय कवचाय हुम् । शुष्कोदराय नेत्रत्रयाय वौषट् । छायात्मजाय अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्बन्धः । ध्यानम् । चापासनो गृध्ररथस्तु नीलः प्रत्यङ्मुखः काश्यपगोत्रजातः । सशूलचापेषुगदाधरोऽव्यात् सौराष्ट्रदेशप्रभवश्च सौरिः ॥ १॥ नीलाम्बरो नीलवपुः किरीटी गृध्रासनस्थो विकृताननश्च । केयूरहारादिविभूषिताङ्गः सदास्तु मे मन्दगतिः प्रसन्नः ॥ २॥ शनैश्चराय शान्ताय सर्वाभीष्टप्रदायिने । नमः सर्वात्मने तुभ्यं नमो नीलाम्बराय च ॥ ३॥ द्वादशाष्टमजन्मानि द्वितीयान्तेषु राशिषु । ये ये मे सङ्गता दोषाः सर्वे नश्यन्तु वै प्रभो ॥ ४॥ सूत उवाच । श‍ृणुध्वं मुनयः सर्वे शनिपीडाहरं शुभम् । शनिप्रीतिकरं स्तोत्रं सर्वाभीष्टफलप्रदम् ॥ ५॥ पुरा कैलासशिखरे पार्वत्यै शङ्करेण च । उपदिष्टं शनिस्तोत्रं प्रवक्ष्यामि तपोधनाः ॥ ६॥ रघुवंशेऽतिविख्यातो राजा दशरथः प्रभुः । बभूव चक्रवर्ती च सप्तद्वीपाधिपो बली ॥ ७॥ कृत्तिकान्ते शनौ याते दैवज्ञैर्ज्ञापितो हि सः । रोहिणीशकटं भित्वा शनिर्यास्यति साम्प्रतम् ॥ ८॥ इत्थं शकटभेदेन सुरासुरभयङ्करम् । द्वादशाब्दं तु दुर्भिक्षं भविष्यति सुदारुणम् ॥ ९॥ देशाश्च नगरग्रामाः भयभीताः समन्ततः । ब्रुवन्ति सर्वलोकानां भयमेतत्समागमम् ॥ १०॥ एवमुक्तस्ततो वाक्यं मन्त्रिभिः सह पार्थिवः । व्याकुलं तु जगद्दृष्ट्वा पौरजानपदादिकम् ॥ ११॥ पप्रच्छ प्रयतो राजा वसिष्ठप्रमुखान् ऋषीन् । समाधानं किमस्यास्ति ब्रूत मे मुनिसत्तमाः ॥ १२॥ प्रजानां परिरक्षायै सर्वज्ञाः सर्वदर्शिनः । तच्छ्रुत्वा मुनयः सर्वे प्रोचुरस्य बलं महत् ॥ १३॥ शनैश्चरेण शकटे तस्मिन् भिन्ने कुतः प्रजाः । अयं योगो ह्यसाध्यं तु शक्रब्रह्मादिभिस्तथा ॥ १४!! स तु सञ्चिन्त्य मनसा सहसा पुरुषर्षभः । समादाय धनुर्दिव्यं दिव्यायुधसमन्वितम् ॥ १५॥ रथमारुह्य वेगेन गतो नक्षत्रमण्डलम् । सपादयोजनं लक्षं सूर्यस्योपरि संस्थितम् ॥ १६॥ रोहिणीं पॄष्ठ्तः स्थाप्य राजा दशरथस्तदा । रथे तु काञ्चने दिव्ये सर्वरत्नविभूषिते ॥ १७॥ हंसवर्णहयैर्युक्ते महाकेतुसमुच्छ्रिते ॥ दीप्यमानो महारक्तकिरीटकटकादिभिः ॥ १८॥ बभ्राज स तदाकाशे द्वितीय इव भास्करः । आकर्णपूर्णचापेन संहारास्त्रं न्ययोजयत् ॥ १९॥ संहारास्त्रं शनिर्दृष्ट्वा सुरासुरभयङ्करम् । कृत्तिकान्ते तदा स्थित्वा प्रविशन् किल रोहिणीम् ॥ २०॥ दॄष्ट्वा दशरथं चाग्रे तस्थौ स भ्रुकुटीमुखः । हसित्वा तद्भयात्सौरिरिदं वचनमब्रवीत् ॥ २१॥ पौरुषं तव राजेन्द्र सुरासुरभयङ्करम् । देवासुरमनुष्याश्च सिद्धविद्याधरोरगाः ॥ २२॥ मयावलोकिताः सर्वे दैन्यमाशु व्रजन्ति ते । तुष्टोऽहं तव राजेन्द्र तपसा पौरुषेण च ॥ २३॥ वरं ब्रूहि प्रदास्यामि मनसा यदभीप्सितम् । दशरथ उवाच । (प्रसादं कुरु मे सौरे वरदो यदि मे स्थितः ।) अद्य प्रभृति मे राष्ट्रे पीडा कार्या न कस्यचित् ॥ २४॥ रोहिणीं भेदयित्वा तु न गन्तव्यं त्वया शने । सरितः सागराः सर्वे यावच्चन्द्रार्कमेदिनी ॥ २५॥ द्वादशाब्दं तु दुर्भिक्षं न कदाचिद्भविष्यति । याचितं तु मया सौरे नान्यमिच्छाम्यहं वरम् ॥ २६॥ एवमस्त्विति सुप्रीतो वरं प्रादात्तु शाश्वतम् । कीर्तिरेषा त्वदीया च त्रैलोक्ये सम्भविष्यति ॥ २७॥ प्राप्य चैनं वरं राजा कृतकृत्योऽभवत्तदा । एवं वरं तु सम्प्राप्य हृष्टरोमा स पार्थिवः ॥ २८॥ रथोपस्थे धनुः स्थाप्य भूत्वा चैव कृताञ्जलिः । ध्यात्वा सरस्वतीं देवीं गणनाथं विनायकम् ॥ २९॥ राजा दशरथः स्तोत्रं सौरेरिदमथाकरोत् । दशरथ उवाच । नमः कृष्णाय नीलाय शिखिकण्ठनिभाय च ॥ ३०॥ नमो नीलमुखाब्जाय नीलोत्पलनिभाय च । नमो निर्मांसदेहाय दीर्घश्मश्रुजटाय च ॥ ३१॥ नमो विशालनेत्राय शुष्कोदर भयानक । नमः परुषनेत्राय स्थूलरोंणे नमो नमः ॥ ३२॥ नमो नित्यं क्षुधार्ताय अतृप्ताय नमो नमः । नमो दीर्घाय शुष्काय कालदंष्ट्राय ते नमः ॥ ३३॥ नमस्ते घोररूपाय दुर्निरीक्ष्याय ते नमः । नमो घोराय रौद्राय भीषणाय कराळिने॥ ३४॥ नमस्ते सर्वभक्षाय वलीमुख नमो।स्तु ते । सूर्यपुत्र नमस्तेस्तु भास्करोऽभयदायिने ॥ ३५॥ अधोदृष्टे नमस्तेऽस्तु संवर्तक नमो नमः । नमो मन्दगते तुभ्यं निस्त्रिंशाय नमो नमः ॥ ३६॥ नमो दुःसहदेहाय नित्ययोगरताय च । ज्ञानदृष्टे नमस्तेऽस्तु कश्यपात्मजसूनवे ॥ ३७॥ तुष्टो ददासि त्वं राज्यं क्रुद्धो हरसि तत्क्षणात् । देवासुरमनुष्याश्च सिद्धविद्याधरोरगाः ॥ ३८॥ त्वयावलोकिताः सर्वे दैन्यमाशु व्रजन्ति ते । ब्रह्मा शक्रो यमश्चैव ऋषयः सप्त सागराः ॥ ३९॥ राज्यभ्रष्टा भवन्तीह तव दृष्ट्यावलोकिताः । देशाश्च नगरग्रामाः द्वीपाश्च गिरयस्तथा ॥ ४०॥ सरितः सागराः सर्वे नाशं यान्ति समूलतः । प्रसादं कुरु मे सौरे वरदोऽसि महाबल ॥ ४१॥ एवमुक्तस्तदा सौरिः ग्रहराजो महाबलः । अब्रवीच्च शनिर्वाक्यं हृष्टरोमा स भास्करिः ॥ ४२॥ शनिरुवाच। तुष्टोऽहं तव राजेन्द्र स्तोत्रेणानेन सुव्रत । वरं ब्रूहि प्रदास्यामि मनसा यदभीप्सितम् ॥ ४३॥ दशरथ उवाच । प्रसन्नो यदि मे सौरे पीडां कुरु न कस्यचित् । देवासुरमनुष्याणां पशुपन्नगपक्षिणाम् ॥ ।४४॥ शनिरुवाच । ग्रहणाच्च ग्रहाज्ञेयाः ग्रहाः पीडाकराः स्मॄताः । अदेयोऽपि वरोऽस्माभिः तुष्टोऽहं तु ददामि ते ॥ ४५॥ देवासुरमनुष्याश्च सिद्धविद्याधरोरगाः । पशुपक्षिमृगा वृक्षाः पीडां मुञ्चन्तु सर्वदा ॥ ४६॥ त्वया प्रोक्तमिदं स्तोत्रं यः पठेदिह मानवः । एककालं क्वचित्कालं पीडां मुञ्चामि तस्य वै ॥ ४७॥ मृत्युस्थानगतो वापि जन्मव्ययगतोऽपि वा । पठति श्रद्धया युक्तः शुचिः स्नात्वा समाहितः ॥ ४८॥ शमीपत्रैः समभ्यर्च्य प्रतिमां लोहजां मम । माषौदनं तिलैर्मिश्रं दद्याल्लोहं तु दक्षिणाम् ॥ ४९॥ कृष्णाङ्गां महिषीं वस्त्रं मामुद्दिश्य द्विजातये । मद्दिने तु विशेषेण स्तोत्रेणानेन पूजयेत् ॥ ५०॥ पूजयित्वा जपेत्स्तोत्रं भुक्त्वा चैव कृताञ्जलिः । तस्य पीडां न चैवाहं करिष्यामि कदाचन ॥ ५१॥ गोचरे जन्मलग्ने वा दशास्वन्तर्दशासु च । रक्षामि सततं तस्य पीडास्वन्यग्रहस्य च ॥ ५२॥ अनेनैव प्रकारेण पीडामुक्तं जगद्भवेत् । सूत उवाच । वरद्वयं तु सम्प्राप्य राजा दशरथस्तदा ॥ ५३॥ मेने कृतार्थमात्मानं नमस्कृत्य शनैश्चरम् । शनिना चाभ्यनुज्ञातः स्वस्थानमगमत् नृपः ॥ ५४॥ स्वस्थानं च ततो गत्वा प्राप्तकामोऽभवत्तदा । कोणः शनैश्चरो मन्दः छायाहृदयनन्दनः ॥ ५५॥ मार्ताण्डजस्तथा सौरिः पातङ्गिर्ग्रहनायकः । ब्रह्मण्यः क्रूरकर्मा च नीलवस्त्रोऽञ्जनद्युतिः ॥ ५६॥ द्वादशैतानि नामानि यः पठेच्च दिने दिने । विषमस्थोऽपि भगवान् सुप्रीतस्तस्य जायते ॥ ५७॥ मन्दवारे शुचिः स्नात्वा मिताहारो जितेन्द्रियः । तद्वर्णकुसुमैर्युक्तं सर्वाङ्गं द्विजसत्तमाः ॥ ५८॥ पूरयित्वान्नपानाद्यैः स्तोत्रं यः प्रयतः पठेत् । पुत्रकामो लभेत्पुत्रं धनकामो लभेद्धनम् ॥ ५९॥ राज्यकामो लभेद्राज्यं जयार्थी विजयी भवेत् । आयुष्कामो लभेदायुः श्रीकामः श्रियमाप्नुयात् ॥ ६०॥ यद्यदिच्छति तत्सर्वं भगवान् भक्तवत्सलः । चिन्तितानि च सर्वाणि ददाति च न संशयः ॥ ६१॥ इति श्री दशरथमहाराजकृतं शनैश्चरस्तोत्रं सम्पूर्णम् ।