अक्षर आकार:

शनैश्चरस्तवराजः

shanaishcharastavarAjaH

शनैश्चरस्तवराजः

श्री गणेशाय नमः ॥ नारद उवाच ॥ ध्यात्वा गणपतिं राजा धर्मराजो युधिष्ठिरः । धीरः शनैश्चरस्येमं चकार स्तवमुत्तमम् ॥ १॥ शिरो मे भास्करिः पातु भालं छायासुतोऽवतु । कोटराक्षो दृशौ पातु शिखिकण्ठनिभः श्रुती ॥ २॥ घ्राणं मे भीषणः पातु मुखं बलिमुखोऽवतु । स्कन्धौ संवर्तकः पातु भुजौ मे भयदोऽवतु ॥ ३॥ सौरिर्मे हृदयं पातु नाभिं शनैश्चरोऽवतु । ग्रहराजः कटिं पातु सर्वतो रविनन्दनः ॥ ४॥ पादौ मन्दगतिः पातु कृष्णः पात्वखिलं वपुः । रक्षामेतां पठेन्नित्यं सौरेर्नामबलैर्युताम् ॥ ५॥ सुखी पुत्री चिरायुश्च स भवेन्नात्र संशयः । सौरिः शनैश्चरः कृष्णो नीलोत्पलनिभः शनिः ॥ ६॥ शुष्कोदरो विशालाक्षो दुर्निरीक्ष्यो विभीषणः । शिखिकण्ठनिभो नीलश्छायाहृदयनन्दनः ॥ ७॥ कालदृष्टिः कोटराक्षः स्थूलरोमावलीमुखः । दीर्घो निर्मांसगात्रस्तु शुष्को घोरो भयानकः ॥ ८॥ नीलांशुः क्रोधनो रौद्रो दीर्घश्मश्रुर्जटाधरः । मन्दो मन्दगतिः खंजो तृप्तः संवर्तको यमः ॥ ९॥orअतृप्तः ग्रहराजः कराली च सूर्यपुत्रो रविः शशी । कुजो बुधो गुरुः काव्यो भानुजः सिंहिकासुतः ॥ १०॥ केतुर्देवपतिर्बाहुः कृतान्तो नैरृतस्तथा । शशी मरुत्कुबेरश्च ईशानः सुर आत्मभूः ॥ ११॥ विष्णुर्हरो गणपतिः कुमारः काम ईश्वरः । कर्ता हर्ता पालयिता राज्यभुग् राज्यदायकः ॥ १२॥orराज्येशो छायासुतः श्यामलाङ्गो धनहर्ता धनप्रदः । क्रूरकर्मविधाता च सर्वकर्मावरोधकः ॥ १३॥ तुष्टो रुष्टः कामरूपः कामदो रविनन्दनः । ग्रहपीडाहरः शान्तो नक्षत्रेशो ग्रहेश्वरः ॥ १४॥ स्थिरासनः स्थिरगतिर्महाकायो महाबलः । महाप्रभो महाकालः कालात्मा कालकालकः ॥ १५॥ आदित्यभयदाता च मृत्युरादित्यनन्दनः । शतभिरुक्षदयिता त्रयोदशीतिथिप्रियः ॥ १६॥ तिथ्यात्मा तिथिगणनो नक्षत्रगणनायकः ।orतिथ्यात्मकस्तिथिगणो योगराशिर्मुहूर्तात्मा कर्ता दिनपतिः प्रभुः ॥ १७॥ शमीपुष्पप्रियः श्यामस्त्रैलोक्याभयदायकः । नीलवासाः क्रियासिन्धुर्नीलाञ्जनचयच्छविः ॥ १८॥ सर्वरोगहरो देवः सिद्धो देवगणस्तुतः । अष्टोत्तरशतं नाम्नां सौरेश्छायासुतस्य यः ॥ १९॥ पठेन्नित्यं तस्य पीडा समस्ता नश्यति ध्रुवम् । कृत्वा पूजां पठेन्मर्त्यो भक्तिमान्यः स्तवं सदा ॥ २०॥ विशेषतः शनिदिने पीडा तस्य विनश्यति । जन्मलग्ने स्थितिर्वापि गोचरे क्रूरराशिगे ॥ २१॥ दशासु च गते सौरौ तदा स्तवमिमं पठेत् । पूजयेद्यः शनिं भक्त्या शमीपुष्पाक्षताम्बरैः ॥ २२॥ विधाय लोहप्रतिमां नरो दुःखाद्विमुच्यते । बाधा याऽन्यग्रहाणां च यः पठेत्तस्य नश्यति ॥ २३॥ भीतो भयाद्विमुच्येत बद्धो मुच्येत बन्धनात् । रोगी रोगाद्विमुच्येत नरः स्तवमिमं पठेत् ॥ २४॥ पुत्रवान्धनवान् श्रीमान् जायते नात्र संशयः ॥ २५॥ नारद उवाच ॥ स्तवं निशम्य पार्थस्य प्रत्यक्षोऽभूत् शनैश्चरः । दत्त्वा राज्ञे वरः कामं शनिश्चान्तर्दधे तदा ॥ २६॥ ॥ इति श्री भविष्यपुराणे शनैश्चरस्तवराजः सम्पूर्णः ॥