अक्षर आकार:

सप्तसप्तिसप्तकम्

Saptasaptisaptakam

सप्तसप्तिसप्तकम्

(चामर) ध्वान्त-दन्ति-केसरी हिरण्य-कान्ति-भासुरः कोटि-रश्मि-भूषितस्तमोहरोऽमितद्युतिः । वासरेश्वरो दिवाकरः प्रभाकरः खगो भास्करः सदैव पातु मां विभावसू रविः ॥ १॥ यक्ष-सिद्ध- किन्नरादि-देवयोनि-सेवितं तापसैरृषीश्वरैश्च नित्यमेव वन्दितम् । तप्त-काञ्चनाभमर्कमादिदैवतं रविं विश्व-चक्षुषं नमामि सादरं महाद्युतिम् ॥ २॥ भानुना वसुन्धरा पुरैव निमिता, तथा भास्करेण तेजसा सदैव पालिता मही । भूर्विलीनतां प्रयाति काश्यपेयवर्चसा तं रवि भजाम्यहं सदैव भक्तिचेतसा ॥ ३॥ अंशुमालिने तथा च सप्त-सप्तये नमो बुद्धिदायकाय शक्तिदायकाय ते नमः । अक्षराय दिव्य-चक्षुषेऽमृताय ते नमः शङ्ख-चक्र-भूषणाय विष्णु-रूपिणे नमः ॥ ४॥ भानवीय-भानुभिर्नभस्तलं प्रकाशते भास्करस्य तेजसा निसर्ग एष वर्धते । भास्करस्य भा सदैव मोदमातनोत्यसौ भास्करस्य दिव्य-दीप्तये सदा नमो नमः ॥ ५॥ अन्धकार-नाशकोऽसि रोगनाशकस्तथा भो ममापि नाशयाशु देह-चित्त-दोषताम् । पाप-दुःख-दैन्यहारिणं नमामि भास्करं शक्ति-धैर्य-बुद्धि-मोद-दायकाय ते नमः ॥ ६॥ भास्करं दयार्णवं मरीचिमन्तमीश्वरं लोकरक्षणाय नित्यमुद्यतं तमोहरम् । चक्रवाक-युग्म-योग-कारिणं जगत्पतिं पद्मिनीमुखारविन्द-कान्तिवर्धनं भजे ॥ ७॥ सप्तसप्ति-सप्तकं सदैव यः पठेन्नरो भक्तियुक्तचेतसा हृदि स्मरन् दिवाकरम् । अज्ञता-तमो विनाश्य तस्य वासरेश्वरो नीरुजं तथा च तं करोत्यसौ रविः सदा ॥ ८॥ इति श्री आपटीकरविरचितं सप्तसप्तिसप्तकं सम्पूर्णम् ।