अक्षर आकार:

सूर्यस्तोत्रं श्रीयाज्ञवल्क्यकृतम्

Suryastotra by Sage Yagnyavalkya

सूर्यस्तोत्रं श्रीयाज्ञवल्क्यकृतम्

॥ श्रीगुरुभ्यो नमः॥ ॥ ॐ श्रीमहागणाधिपतये नमः ॥ ॐ नमो भगवते आदित्यायाखिलजगतां आत्मस्वरूपेण कालस्वरूपेण चतुर्विधभूत-निकायानां ब्रह्मादिस्तम्भ-पर्यन्तानां अन्तर्हृदयेषु बहिरपि चाकाश इव उपाधिनाऽव्यवधीयमानो भवानेक एव क्षणलव-निमेषावयवोपचित-संवत्सरगणेन अपा-मादान-विसर्गाभ्यां इमां लोकयात्रां अनुवहति ॥ १ यदुह वाव विबुधर्षभ सवितरदस्तपत्यनुसवनं अहरहः आम्नायविधिना उपतिष्ठमानानां अखिल-दुरित-वृजिनबीजावभर्जन भगवतः समभिधीमहि तपनमण्डलम् ॥ २ य इह वाव स्थिरचरनिकराणां निजनिकेतनानां मन-इन्द्रियासुगणान् अनात्मनः स्वयमात्मा अन्तर्यामी प्रचोदयति ॥ ३ य एवेमं लोकं अतिकराल-वदनान्धकार-संज्ञा-जगरग्रह-गिलितं मृतकमिव विचेतनं अवलोक्य अनुकम्पया परमकारुणिकः ईक्षयैव उत्थाप्य अहरहरनुसवनं श्रेयसि स्वधर्माख्यात्मावस्थाने प्रवर्तयति अवनिपतिरिव असाधूनां भयमुदीरयन्नटति ॥ ४ परित आशापालैः तत्र तत्र कमलकोशाञ्जलिभिः उपहृतार्हणः ॥ ५ अथह भगवन् तव चरणनलिनयुगलं त्रिभुवनगुरुभिर्वन्दितं अहं अयातयामयजुःकामः उपसरामीति ॥ ६ एवं स्तुतः स भगवान् वाजिरूपधरो हरिः । यजूंष्ययातयामानि मुनयेऽदात् प्रसादितः ॥ ७ ॥ इति श्रीमद्भागवते द्वादशस्कन्धे श्रीयाज्ञवल्क्यकृतं श्रीसूर्यस्तोत्रं सम्पूर्णम् ॥ Note: This Stuti appears in the 12th Skandham (6th Adhyaya) of Shreemad BhAgavatham. Maharishi Yagnavalkya praised Shree Surya Bhagavan through this Stuti, to earn his grace and for obtaining the till-then-unknown Shukla Yajurveda Mantras or AyAta-YAmam, as it is referred to in Shastras. This Stuti eloquently describes how Surya Bhagavan single-handedly protects this entire Cosmos by his never-ending Loka Yatra and the Vedic religion and Bhagavan's unfailing grace to those who steadfastly follow the Dharma, as laid down in the Vedas/Shastras.