अक्षर आकार:

सूर्यस्तुतिः

sUryastutiH

सूर्यस्तुतिः

ॐ नम आदित्याय ॥ श्रीभैरवी - भगवन्देवदेवेश भक्तानुग्रहकारक । देहास्वास्थ्यं परं दुःखं भवेदिति न संशयः ॥ १॥ रोगैर्जीर्णो यदा देहस्तदा कं दैवतं श्रयेत् । यं स्तुत्वा स्वास्थ्यमाप्नोति तदुपासनमादिश ॥ २॥ श्रीभैरवः - श‍ृणु देवि प्रवक्ष्यामि लोकानुग्रहकाम्यया । रोगाजगरग्रस्तानां जन्तूनां पापचेतसाम् ॥ ३॥ स्मरणं धारणं चैव सूर्यस्यार्चनमेव च । ज्वरातिसाररोगानां नाशनं स्मरणादपि ॥ ४॥ कुष्ठविचर्चिकादद्रूसन्निपातादि नाशनम् । सूक्ष्मातिसूक्ष्मं यत्तेजो तं देवं शरणं श्रये ॥ ५॥ वारयेद्विघ्नराशींश्च तमांसि च मुहुर्मुहुः । अन्तर्वातौधध्वंसी यस्तं देवं शरणं श्रये ॥ ६॥ आकाशरूपो विश्वात्मा देवःप्रमकटितः प्रभुः । द्योतनात्त्रिषु लोकेषु तं दैवं शरणं श्रये ॥ ७॥ ध्यायनात्सर्वलोकेषु चिन्तनादपराजितम् । बुद्‍ध्यात्सर्वसमायुक्तं तं देवं शरणं श्रये ॥ ८॥ धीप्रेरकं तु यत्तेजः सर्वव्यापकमव्ययम् । बुद्धेः पारङ्गतं यत्तच्छरण्यं शरणं श्रये ॥ ९॥ यत्तदादिशते बुद्धिर्भर्गः सदसदात्मकम् । आर्तो भक्त्या च परमं शरणं तं व्रजाम्यहम् ॥ १०॥ रक्तपुष्पसमायुक्तं गृहीत्वोद्यन्तमर्चयेत् । प्रतिश्लोकमर्धपुष्पं दत्त्वा प्राञ्जलिकं स्थितम् ॥ ११॥ सर्वे रोगाः प्रणश्यन्ति लूता विस्फोटकादयः । भगन्दरशिरोरोगमूत्ररोगाश्मरीयुताः ॥ १२॥ श्वेतकुष्ठाद्यतीसारपायुकुक्षिसमुद्भवाः । त्वग्रोगा ये क्षुद्ररोगा ये त्वन्ये च महेश्वरि ॥ १३॥ ते सर्वे सम्प्रणश्यन्ति स्तोत्रस्यास्यानुकीर्तनात् । आपन्न आपदो मुच्येद्बद्धो मुच्येत बन्धनात् ॥ १४॥ अपुत्रः पुत्रमाप्नोति कन्या विन्दति सत्पतिम् । भीतो भयात्प्रमुच्येत चेत्याज्ञा पारमेश्वरी ॥ १५॥ इदं रहस्यं परमं नाख्येयं यस्य कस्यचित् । गुह्यं गुह्यतमं लोके वेदतन्त्रसमुत्थितम् ॥ १६॥ सर्वतः सारमुद्धृत्यतवस्नेहात्प्रकाशितम् । नातः परतरं स्तोत्रं सूर्यस्याराधनं परम् ॥ १७॥ अत्र पूज्यो रविर्देवि स्तोत्रेणानेन भक्तितः । सायं प्रातर्नमस्कृत्य नान्नमद्याज्जलं पिबेत् ॥ १८॥ वर्षेणैव भवेत्सिद्धिरिति सत्यं वरानने । बद्धपद्मासनो देवः प्रसन्नो भक्तवत्सलः ॥ १९॥ सप्ताश्वः सप्तजिह्वश्च द्विभुजः पातु नो रविः । अकृतानि च पुष्पाणि सलिलारुणचन्दनैः ॥ २०॥ अर्घ्यं दत्त्वा प्रयत्नेन सूर्यनामानि कीर्तयेत् । नमस्ते विश्वरूपाय नमस्ते ब्रह्मरूपिणे ॥ २१॥ सहस्ररश्मये नित्यं नमस्ते सर्वतेजसे । नमस्ते रुद्रवपुषे नमस्ते भक्तवत्सल ॥ २२॥ पद्मनाम नमस्तेऽस्तु कुण्डलाङ्गदशोभित । नमस्ते सर्वलोकेश जगत्सर्वं प्रबोधसे ॥ २३॥ सुकृतं दुष्कृतं चैव सर्वं पश्यसि सर्वग । सत्यदेव नमस्तेऽस्तु प्रसीद मम भास्कर ॥ २४॥ दिवाकर नमस्तेऽस्तु प्रभाकर नमोऽस्तु ते । आश्रमस्थस्ततः पूजाप्रतिमां चापि पूजयेत् ॥ २५॥ उदयंस्तु महाभानुस्तेजसा चाभयङ्करः । सहस्ररश्मिदीप्तश्च ह्यादित्यः प्रीयतां मम ॥ २६॥ इति सूर्यस्तुतिः समाप्ता ।