अक्षर आकार:

सूर्यस्तुतिः

sUryastutiH

सूर्यस्तुतिः

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ ज्योतिर्मयाय विद्महे । रश्मिमालाय धीमहि । तन्नः सूर्यः प्रचोदयात् ॥ सूर्यनारायणं देवं सर्वलोकप्रकाशकम् । ज्योतिर्मयस्वरूपं तं भानिधिं प्रणमाम्यहम् ॥ १॥ श्रीरामपूजितं भानुं तमोराक्षसहारकम् । शुद्धसत्त्वप्रबोधं तं भानिधिं प्रणमाम्यहम् ॥ २॥ चक्षुर्दीपप्रकाशं च अन्तश्चक्षुर्विकाशकम् । शिराशिरदृढीकारं भानिधिं प्रणमाम्यहम् ॥ ३॥ जीवदं जीवसंरक्षं जीवशक्तिप्रदीपकम् । जीवनाधाररश्मिं तं भानिधिं प्रणमाम्यहम् ॥ ४॥ आरोग्याधिपतिं वन्दे व्याध्याधिभयनाशकम् । दौर्बल्यापोहनं मित्रं भानिधिं प्रणमाम्यहम् ॥ ५॥ पाटिताज्ञानकूहं तं ज्ञानप्रकाशभास्करम् । तेजस्करं सुतेजार्कं भानिधिं प्रणमाम्यहम् ॥ ६॥ सप्ताश्वरथयानं तं सत्त्वश्वेतप्रकाशिनम् । सप्तश्लोकप्रसन्नं च भानिधिं प्रणमाम्यहम् ॥ ७॥ हिमसंहतिविद्रावं गङ्गाप्रवाहभासुरम् । हिमशेखरसाभासं भानिधिं प्रणमाम्यहम् ॥ ८॥ उषोगाङ्गेयरागाभं सन्ध्यानानाच्छविद्युतिम् । ध्यानप्रशान्तिहिम्याष्ट्रं भानिधिं प्रणमाम्यहम् ॥ ९॥ मङ्गलं सूर्यदेवाय आदित्याय सुमङ्गलम् । मङ्गलं द्युतिमालाय सारङ्गाय सुमङ्गलम् ॥ १०॥ मयेति कीर्तितादित्य मह्यं देहि निरामयम् । मङ्गलायनभाकोश मह्यं देहि सुमङ्गलम् ॥ ११॥ त्यागराजगुरुस्वामिशिष्यापुष्पासुगीतकम् । सूर्यनारायणस्तोत्रं आयुरारोग्यदं शुभम् ॥ १२॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृता सूर्यस्तुतिः गुरौ समर्पिता । ॐ शुभमस्तु । Copyright Pushpa Srivatsan