अक्षर आकार:

सूर्यस्तोत्रम् ५

sUryastotram 5

सूर्यस्तोत्रम् ५

श्रीगणेशाय नमः ॥ त्वं भानो जगतश्चक्षुस्त्वमात्मा सर्वदेहिनाम् । त्वं योनिः सर्वभूतानां त्वमाचारः क्रियावताम् ॥ १॥ त्वं गतिः सर्वसाङ्ख्यानां योगिनां त्वं परायणम् । अनावृतार्गलद्वारं त्वं गतिस्त्वं मुमुक्षताम् ॥ २॥ त्वया सन्धार्यते लोकस्त्वया लोकः प्रकाश्यते । त्वया पवित्रीक्रियते निर्व्याजं पाल्यते त्वया ॥ ३॥ त्वामुपस्थाय काले तु ब्राह्मणा वेदपारगाः । स्वशाखाविहितैर्मन्त्रैरर्चत्यृषिगणार्चित ॥ ४॥ तव दिव्यं रथं यान्तमनुयान्ति वरार्थिनः । सिद्धचारणगधर्वा यक्षगुह्यकपन्नगाः ॥ ५॥ त्रयस्त्रिंशच्च वै देवास्तथा वैमानिका गणाः । सोपेन्द्राः समहेन्द्राश्च त्वामिष्ट्वा सिद्धिमागताः ॥ ६॥ उपयान्त्यर्चयित्वा तु त्वां वै प्राप्तमनोरथाः । दिव्यमन्दारमालाभिस्तूर्णं विद्याधरोत्तमाः ॥ ७॥ गुह्याः पितृगणाः सप्त ये दिव्या ये च मानुषाः । ते पूजयित्वा त्वामेव गच्छन्त्याशु प्रधानताम् ॥ ८॥ वसवो मरुतो रुद्रा ये च साध्या मरीचिपाः । वालखिल्यादयः सिद्धाः श्रेष्ठत्वं प्राणिनां गताः ॥ ९॥ सब्रह्मकेषु लोकेषु सप्तस्वप्यखिलेषु च । न तद्भूतमहं मन्ये यदर्कादतिरिच्यते ॥ १०॥ सन्ति चान्यानि सत्त्वानि वीर्यवन्ति महान्ति च । न तु तेषां तथा दीप्तिः प्रभवो वा यथा तव ॥ ११॥ ज्योतींषि त्वयि सर्वाणि त्वं सर्वज्योतिषां पतिः । त्वयि सत्यं च सत्त्वं च सर्वे भावाश्च सात्त्विकाः ॥ १२॥ त्वत्तेजसा कृतं चक्रं सुनाभं विश्वकर्मणा । देवारीणां मदो येन नाशितः शार्ङ्गधन्वना ॥ १३॥ त्वमादायांशुभिस्तेजो निदाघे सर्वदेहिनाम् । सर्वौषधिरसानां च पुनर्वर्षासु मुञ्चसि ॥ १४॥ तपन्त्यन्ये दहन्त्यन्ये गर्जन्त्यन्ये यथा घनाः । विद्योतन्ते प्रवर्षन्ति तव प्रावृषि रश्मयः ॥ १५॥ न तथा सुखयत्यग्निर्न प्रावारा न कम्बलाः । शीतवातार्दितं लोकं यथा तव मरीचयः ॥ १६॥ त्रयोदशद्वीपवतीं गोभिर्भासयसे महीम् । त्रयाणामपि लोकानां हितायैकः प्रवर्तसे ॥ १७॥ तव यद्युदयो न स्यादन्धं जगदिदं भवेत् । न च धर्मार्थकामेषु प्रवर्तेरन्मनीषिणः ॥ १८॥ आधानपशुबन्धेष्टिमन्त्रयज्ञतपक्रियाः । त्वत्प्रसादादवाप्यन्ते ब्रह्मक्षत्रविशां गणैः ॥ १९॥ यदहर्ब्रह्मणः प्रोक्तं सहस्रयुगसम्मितम् । तस्य त्वनादिरन्तश्च कालज्ञैः परिकीर्तितः ॥ २०॥ मनूनां मनुपुत्राणां जगतोऽमानवस्य च । मन्वन्तराणां सर्वेषामीश्वराणां त्वमीश्वरः ॥ २१॥ संहारकाले सम्प्राप्ते तव क्रोधविनिःसृतः । संवर्तकाग्निस्त्रैलोक्यं भस्मीकृत्यावतिष्ठते ॥ २२॥ त्वद्दीधितिसमुत्पन्ना नानावर्णा महाधनाः । सैरावताः साशनयः कुर्वन्त्याभूतसम्प्लवम् ॥ २३॥ कृत्वा द्वादशधात्मानं द्वादशादित्यतां गतः । संहृत्यैकार्णवं सर्वं त्वं शोषयसि रश्मिभिः ॥ २४॥ त्वामिन्द्रमाहुस्त्वं रुद्रस्त्वं विष्णुस्त्वं प्रजापतिः । त्वमग्निस्त्वं मनः सूक्ष्मं प्रभुस्त्वं ब्रह्म शाश्वतम् ॥ २५॥ त्वं हंसः सविता भानुरंशुमाली वृषाकपिः । विवस्वान्मिहिरः पूषा मित्रो धर्मस्तथैव च ॥ २६॥ सहस्ररश्मिरादित्यस्तपनस्त्वं गवां पतिः । मार्तण्डोऽर्को रविः सूर्यः शरण्यो दिनकृत्तथा ॥ २७॥ दिवाकरः सप्तसप्तिर्धामकेशी विरोचनः । आशुगामी तमोघ्नश्च हरिताश्वश्च कीर्त्यसे ॥ २८॥ सप्तम्यामथवा षष्ट्यां भक्त्या पूजां करोति यः । अनिर्विण्णोऽनहङ्कारी तं लक्ष्मीर्भजते नरम् ॥ २९॥ न तेषामापदः सन्ति नाधयो व्याधयस्तथा । ये तवानन्यमनसा कुर्वत्यर्चनवन्दनम् ॥ ३०॥ सर्वरोगैर्विरहिताः सर्वपापविवर्जिताः । त्वद्भावभक्ताः सुखिनो भवन्ति चिरजीविनः ॥ ३१॥ त्वं ममापन्नकामस्य सर्वातिथ्यं चिकीर्षतः । अन्नमन्नपते दातुममितः श्रद्धयार्हसि ॥ ३२॥ ये च तेऽनुचराः सर्वे पादोपान्तं समाश्रिताः । माठरारुणदण्डाद्यास्तांस्तान्वन्देऽशनिक्षुभान् ॥ ३३॥ क्षुभया सहितो मैत्री याश्चान्या भूतमातरः । ताश्च सर्वा नमस्यामि पान्तु मां शरणागतम् ॥ ३४॥ एवं स्तुतो महाराज भास्करो लोकभावनः । ततो दिवाकरः प्रीतो दर्शयामास पाण्डवम् ॥ ३५॥ दीप्यमानः स्ववपुषा ज्वलन्निव हुताशनः । विवस्वानुवाच ॥ यत्तेऽभिलषितं किञ्चित्तत्त्वं सर्वमवाप्स्यसि ॥ ३६॥ अहमन्नं प्रदास्यामि सप्त पञ्च च ते समाः । गृह्णीष्व पिठरं ताम्रं मया दत्तं नराधिप ॥ ३७॥ यावद्वर्त्स्यति पाञ्चाली पात्रेणानेन सुव्रत । फलमूलामिषं शाकं संस्कृतं यन्महानसे ॥ ३८॥ चतुर्विधं तदन्नाद्यमक्षय्यं ते भविष्यति । इतश्चतुर्दशे वर्षे भूयो राज्यमवाप्स्यसि ॥ ३९॥ वैशम्पायन उवाच ॥ एवमुक्त्वा तु भगवांस्तत्रैवान्तरधीयत । इमं स्तवं प्रयतमनाः समाधिना पठेदिहान्योऽपि वरं समर्थयन् ॥ ४०॥ तत्तस्य दद्याच्च रबिर्मनीषितं तदाप्नुयाद्यद्यपि तत्सुदुर्लभम् । यश्चेदं धारयेन्नित्यं श‍ृणुयाद्वाप्यभीक्ष्णशः ॥ ४१॥ पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् । विद्यार्थी लभते ब्रिद्या पुरुषोऽप्यथवा स्त्रियः ॥ ४२॥ उभे सन्ध्ये जपेन्नित्यं नारी वा पुरुषो यदि । आपदं प्राप्य मुच्येत बद्धो मुच्येत बन्धनात् ॥ ४३॥ इति श्रीमहाभारतोक्तं युधिष्ठिरविरचितं सूर्यस्तोत्रं सम्पूर्णम् ॥