अक्षर आकार:

सूर्यस्तोत्रम् ४

sUryastotram 4

सूर्यस्तोत्रम् ४

श्रीगणेशाय नमः ॥ ॐ सप्ताश्वं समारुह्यारुणसारथिमुत्तमम् । श्वेतपद्मधरं देवं त्वां सूर्यं प्रणमाम्यहम् ॥ १॥ बन्धूकपुष्पसङ्काशं हारकुण्डलभूषणम् । एकचक्रधरं देवं त्वां सूर्यं प्रणमाम्यहम् ॥ २॥ लोहितस्वर्णसङ्काशं सर्वलोकपितामहम् । सर्वव्याधिहरं देवं त्वां सूर्यं प्रणमाम्यहम् ॥ ३॥ त्वं देव ईश्वरः शक्रब्रह्मविष्णुमहेशराट् । परं धर्मं परं ज्ञानं त्वां सूर्यं प्रणमाम्यहम् ॥ ४॥ त्वं देवलोककर्ता च कीर्त्यात्मा करणांशकम् । तेजो रुद्रधरं दैवं त्वां सूर्यं प्रणमाम्यहम् ॥ ५॥ पृथिव्यप्तेजो वायुश्चात्माप्याकाशमेव च । सर्वज्ञं श्रीजगन्नाथं त्वां सूर्यं प्रणमाम्यहम् ॥ ६॥ अखण्डमण्डलाकारं व्याप्तं येन चराचरम् । गगनालिङ्गमाराध्यं त्वां सूर्यं प्रणमाम्यहम् ॥ ७॥ निर्मलं निर्विकल्पं च निर्विकारं निरामयम् ॥ जगत्कर्ता जगद्धर्तास्त्वां सूर्यं प्रणमाम्यहम् ॥ ८॥ सूर्यस्तोत्रं जपेन्नित्यं ग्रहपीडाविनाशनम् । धनं धान्यं मनोवाञ्छा श्रियः प्राप्नोति नित्यशः ॥ ९॥ शिवरात्रिसहस्रेषु कृत्वा जागरणं भवेत् । यत्फलं लभते सर्वं तद्वै सूर्यस्य दर्शनात् ॥ १०॥ एकादशीसहस्राणि सङ्क्रान्त्ययुतमेव च । सप्तकोडिसु दर्शेषु तत्फलं सूर्यदर्शनात् ॥ ११॥ अश्वमेधसहस्राणि वाजपेयशतानि च । कोटिकन्याप्रदानानि तत्फलं सूर्यदर्शनात् ॥ १२॥ गयापिण्डः परं दाने पितृणां च समुद्धरम् । दृष्ट्वा ह्यग्र्येश्वरं देवं तत्फलं समवाप्नुयात् ॥ १३॥ अग्र्येश्वरसमोपेतो सोमनाथस्तथैव च । कैदारमुदकं पीत्वा पुनर्जन्म न विद्यते ॥ १४॥ सूर्यस्तोत्रं पठेन्नित्यमेकचित्तः समाहितः । दुःखदारिद्र्यनिर्मुक्तः सूर्यलोकं स गच्छति ॥ १५॥ इति सूर्यस्तोत्रं सम्पूर्णम् ॥