अक्षर आकार:

सूर्यस्तोत्रम् १

sUryastotraM 1

सूर्यस्तोत्रम् १

आचम्य ॥ ॥ सङ्कल्प ॥ श्रीसूर्यनारायणदेवतामुद्दिश्य, प्रीत्यर्थम् । श्रीसूर्यस्तोत्रमहामन्त्रपठनं करिष्ये ॥ अस्य श्रीभगवदादित्यस्तोत्रमहामन्त्रस्य, अगस्त्यभगवान् ऋषिः, अनुष्टुप्छन्दः, श्रीसूर्यनारायणो देवता । ह्रां बीजं, ह्रीं शक्तिः, ह्रूं कीलकं, श्रीसूर्यनारायणदेवताप्रसादसिद्ध्यर्थे जपे विनियोगः ॥ अथ सूर्यस्तोत्रप्रारम्भः । अस्य श्रीभगवत्सूर्यस्तोत्रमहामन्त्रस्य अगस्त्य ऋषिः । अनुष्टुप्छन्दः । श्रीसूर्यनारायणो देवता । सूं बीजम् । रिं शक्तिः । यं कीलकम् । सूर्यप्रसादसिद्ध्यर्थे जपे विनियोगः । आदित्याय अङ्गुष्ठाभ्यां नमः । अर्काय तर्जनीभ्यां नमः । दिवाकराय मध्यमाभ्यां नमः । प्रभाकराय अनामिकाभ्यां नमः । सहस्रकिरणाय कनिष्ठिकाभ्यां नमः । मार्ताण्डाय करतलकरपृष्ठाभ्यां नमः । आदित्याय हृदयाय नमः । अर्काय शिरसे स्वाहा । दिवाकराय शिखायै वषट् । प्रभाकराय कवचाय हुम् । सहस्रकिरणाय नेत्रत्रयाय वौषट् । मार्ताण्डाय अस्त्राय फट् । भूर्भुवः सुवरोमिति दिग्बन्धः ॥ ध्यानम् । ध्यायेत् सूर्यमनन्तशक्तिकिरणं तेजोमयं भास्वरं भक्तानामभयप्रदं दिनकरं ज्योतिर्मयं शङ्करम् । आदित्यं जगदीशमच्युतमजं त्रैलोक्यचूडामणिं भक्ताभीष्टवरप्रदं दिनमणिं मार्ताण्डमाद्यं शुभम् ॥ ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः । पञ्चब्रह्ममयाकाराः येन जाता नमामि तम् ॥ १॥ कालात्मा सर्वभूतात्मा वेदात्मा विश्वतोमुखः । जन्ममृत्युजराव्याधिसंसारभयनाशनः ॥ २॥ ब्रह्मस्वरूप उदये मध्याह्ने तु सदाशिवः । अस्तकाले स्वयं विष्णुस्त्रयीमूर्तिर्दिवाकरः ॥ ३॥ एकचक्रो रथो यस्य दिव्यः कनकभूषितः । सोऽयं भवतु नः प्रीतः पद्महस्तो दिवाकरः ॥ ४॥ पद्महस्तः परञ्ज्योतिः परेशाय नमो नमः । अण्डयोने कर्मसाक्षिन्नादित्याय नमो नमः ॥ ५॥ कमलासन देवेश कर्मसाक्षिन्नमो नमः । धर्ममूर्ते दयामूर्ते तत्त्वमूर्ते नमो नमः ॥ ६॥ सकलेशाय सूर्याय सर्वज्ञाय नमो नमः । क्षयापस्मारगुल्मादिव्याधिहन्त्रे नमो नमः ॥ ७॥ सर्वज्वरहरं चैव सर्वरोगनिवारणम् । स्तोत्रमेतच्छिवप्रोक्तं सर्वसिद्धिकरं परम् ॥ ८॥ सर्वसम्पत्करं चैव सर्वाभीष्टप्रदायकम् ॥ इति सूर्यस्तोत्रं सम्पूर्णम् । This stotra, if recited early morning everyday, diseases like Apasmara, Kshaya, Gulma, etc. will be cured and health will be restored soon.