अक्षर आकार:

श्रीसूर्यसहस्रनामस्तोत्रम् २

Shrisuryasahasranamastotram 2

श्रीसूर्यसहस्रनामस्तोत्रम् २

श्रीरुद्रयामले तन्त्रे श्रीदेवीरहस्ये अथ चतुस्त्रिंशः पटलः । श्रीभैरव उवाच । देवदेवि महादेवि सर्वाभयवरप्रदे । त्वं मे प्राणप्रिया प्रीता वरदोऽहं तव स्थितः ॥ १॥ किञ्चित् प्रार्थय मे प्रेम्णा वक्ष्ये तत्ते ददाम्यहम् । श्रीदेव्युवाच । भगवन् देवदेवेश महारुद्र महेश्वर ॥ २॥ यदि देयो वरो मह्यं वरयोग्यास्म्यहं यदि । देवदेवस्य सवितुर्वद नामसहस्रकम् ॥ ३॥ श्रीभैरव उवाच । एतद्गुह्यतमं देवि सर्वस्वं मम पार्वति । रहस्यं सर्वदेवानां दुर्लभं कामनावहम् ॥ ४॥ यो देवो भगवान् सूर्यो वेदकर्ता प्रजापतिः । कर्मसाक्षी जगच्चक्षुः स्तोतुं तं केन शक्यते ॥ ५॥ यस्यादिर्मध्यमन्तं च सुरैरपि न गम्यते । तस्यादिदेवदेवस्य सवितुर्जगदीशितुः ॥ ६॥ मन्त्रनामसहस्रं ते वक्ष्ये साम्राज्यसिद्धिदम् । सर्वपापापहं देवि तन्त्रवेदागमोद्धृतम् ॥ ७॥ माङ्गल्यं पौष्टिकं चैव रक्षोघ्नं पावनं महत् । सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् ॥ ८॥ धनदं पुण्यदं पुण्यं श्रेयस्करं यशस्करम् । वक्ष्यामि परमं तत्त्वं मूलविद्यात्मकं परम् ॥ ९॥ ब्रह्मणो यत् परं ब्रह्म पराणामपि यत् परम् । मन्त्राणामपि यत् तत्त्वं महसामपि यन्महः ॥ १०॥ शान्तानामपि यः शान्तो मनूनामपि यो मनुः । योगिनामपि यो योगी वेदानां प्रणवश्च यः ॥ ११॥ ग्रहाणामपि यो भास्वान् देवानामपि वासवः । ताराणामपि यो राजा वायूनां च प्रभञ्जनः ॥ १२॥ इन्द्रियाणामपि मनो देवीनामपि यः परा । नगानामपि यो मेरुः पन्नगानां च वासुकिः ॥ १३॥ तेजसामपि यो वह्निः कारणानां च यः शिवः । सविता यस्तु गायत्र्याः परमात्मेति कीर्त्यते ॥ १४॥ वक्ष्ये परमहंसस्य तस्य नामसहस्रकम् । सर्वदारिद्र्यशमनं सर्वदुःखविनाशनम् ॥ १५॥ सर्वपापप्रशमनं सर्वतीर्थफलप्रदम् । ज्वररोगापमृत्युघ्नं सदा सर्वाभयप्रदम् ॥ १६॥ तत्त्वं परमतत्त्वं च सर्वसारोत्तमोत्तमम् । राजप्रसादविजय-लक्ष्मीविभवकारणम् ॥ १७॥ आयुष्करं पुष्टिकरं सर्वयज्ञफलप्रदम् । मोहनस्तम्भनाकृष्टि-वशीकरणकारणम् ॥ १८॥ अदातव्यमभक्ताय सर्वकामप्रपूरकम् । श‍ृणुष्वावहिता भूत्वा सूर्यनामसहस्रकम् ॥ १९॥ अस्य श्रीसूर्यनामसहस्रस्य श्रीब्रह्मा ऋषिः । गायत्र्यं छन्दः । श्रीभगवान् सविता देवता । ह्रां बीजं । सः शक्तिः । ह्रीं कीलकं । धर्मार्थकाममोक्षार्थे सूर्यसहस्रनामपाठे विनियोगः ॥ ध्यानम् ॥ कल्पान्तानलकोटिभास्वरमुखं सिन्दूरधूलीजपा- वर्णं रत्नकिरीटिनं द्विनयनं श्वेताब्जमध्यासनम् । नानाभूषणभूषितं स्मितमुखं रक्ताम्बरं चिन्मयं सूर्यं स्वर्णसरोजरत्नकलशौ दोर्भ्यां दधानं भजे ॥ १॥ प्रत्यक्षदेवं विशदं सहस्रमरीचिभिः शोभितभूमिदेशम् । सप्ताश्वगं सद्ध्वजहस्तमाद्यं देवं भजेऽहं मिहिरं हृदब्जे ॥ २॥ ॐ ह्रां ह्रीं सः हं सः सोऽहं सविता भास्करो भगः । भगवान् सर्वलोकेशो भूतेशो भूतभावनः ॥ ३॥ भूतात्मा सृष्टिकृत् स्रष्टा कर्ता हर्ता जगत्पतिः । आदित्यो वरदो वीरो वीरलो विश्वदीपनः ॥ ४॥ विश्वकृद् विश्वहृद् भक्तो भोक्ता भीमोऽभयापहः । विश्वात्मा पुरुषः साक्षी परं ब्रह्म परात् परः ॥ ५॥ प्रतापवान् विश्वयोनिर्विश्वेशो विश्वतोमुखः । कामी योगी महाबुद्धिर्मनस्वी मनुरव्ययः ॥ ६॥ प्रजापतिर्विश्ववन्द्यो वन्दितो भुवनेश्वरः । भूतभव्यभविष्यात्मा तत्त्वात्मा ज्ञानवान् गुणी ॥ ७॥ सात्त्विको राजसस्तामस्तमवी करुणानिधिः । सहस्रकिरणो भास्वान् भार्गवो भृगुरीश्वरः ॥ ८॥ निर्गुणो निर्ममो नित्यो नित्यानन्दो निराश्रयः । तपस्वी कालकृत् कालः कमनीयतनुः कृशः ॥ ९॥ दुर्दर्शः सुदशो दाशो दीनबन्धुर्दयाकरः । द्विभुजोऽष्टभुजो धीरो दशबाहुर्दशातिगः ॥ १०॥ दशांशफलदो विष्णुर्जिगीषुर्जयवाञ्जयी । जटिलो निर्भयो भानुः पद्महस्तः कुशीरकः ॥ ११॥ समाहितगतिर्धाता विधाता कृतमङ्गलः । मार्तण्डो लोकधृत् त्राता रुद्रो भद्रप्रदः प्रभुः ॥ १२॥ अरातिशमनः शान्तः शङ्करः कमलासनः । अविचिन्त्यवपुः (१००) श्रेष्ठो महाचीनक्रमेश्वरः ॥ १३॥ महार्तिदमनो दान्तो महामोहहरो हरिः । नियतात्मा च कालेशो दिनेशो भक्तवत्सलः ॥ १४॥ कल्याणकारी कमठकर्कशः कामवल्लभः । व्योमचारी महान् सत्यः शम्भुरम्भोजवल्लभः ॥ १५॥ सामगः पञ्चमो द्रव्यो ध्रुवो दीनजनप्रियः । त्रिजटो रक्तवाहश्च रक्तवस्त्रो रतिप्रियः ॥ १६॥ कालयोगी महानादो निश्चलो दृश्यरूपधृक् । गम्भीरघोषो निर्घोषो घटहस्तो महोमयः ॥ १७॥ रक्ताम्बरधरो रक्तो रक्तमाल्यानुलेपनः । सहस्रहस्तो विजयो हरिगामी हरीश्वरः ॥ १८॥ मुण्डः कुण्डी भुजङ्गेशो रथी सुरथपूजितः । न्यग्रोधवासी न्यग्रोधो वृक्षकर्णः कुलन्धरः ॥ १९॥ शिखी चण्डी जटी ज्वाली ज्वालातेजोमयो विभुः । हैमो हेमकरो हारी हरिद्रलासनस्थितः ॥ २०॥ हरिद्श्वो जगद्वासी जगतां पतिरिङ्गिलः । विरोचनो विलासी च विरूपाक्षो विकर्तनः ॥ २१॥ विनायको विभासश्च भासो भासां पतिः प्रभुः । मतिमान् रतिमान् स्वक्षो विशालाक्षो विशाम्पतिः ॥ २२॥ बालरूपो गिरिचरो गीर्पतिर्गोमतीपतिः । गङ्गाधरो गणाध्यक्षो गणसेव्यो गणेश्वरः ॥ २३॥ गिरीशनयनावासी सर्ववासी सतीप्रियः । सत्यात्मकः सत्यधरः सत्यसन्धः सहस्रगुः ॥ २४॥ अपारमहिमा मुक्तो मुक्तिदो मोक्षकामदः । मूर्तिमान् ( २००) दुर्धरोऽमूर्तिस्तुटिरूपो लवात्मकः ॥ २५॥ प्राणेशो व्यानदोऽपानसमानोदानरूपवान् । चषको घटिकारूपो मुहूर्तो दिनरूपवान् ॥ २६॥ पक्षो मास ऋतुर्वर्षा दिनकालेश्वरेश्वरः । अयनं युगरूपश्च कृतं त्रेतायुगस्त्रिपात् ॥ २७॥ द्वापरश्च कलिः कालः कालात्मा कलिनाशनः । मन्वन्तरात्मको देवः शक्रस्त्रिभुवनेश्वरः ॥ २८॥ वासवोऽग्निर्यमो रक्षो वरुणो यादसां पतिः । वायुर्वैश्रवणं शैव्यो गिरिजो जलजासनः ॥ २३॥ अनन्तोऽनन्तमहिमा परमेष्ठी गतज्वरः । कल्पान्तकलनः क्रूरः कालाग्निः कालसूदनः ॥ ३०॥ महाप्रलयकृत् कृत्यः कुत्याशीर्युगवर्तनः । कालावर्तो युगधरो युगादिः शहकेश्वरः ॥ ३१॥ आकाशनिधिरूपश्च सर्वकालप्रवर्तकः । अचिन्त्यः सुबलो बालो बलाकावल्लभो वरः ॥ ३२॥ वरदो वीर्यदो वाग्मी वाक्पतिर्वाग्विलासदः । साङ्ख्येश्वरो वेदगम्यो मन्त्रेशस्तन्त्रनायकः ॥ ३३॥ कुलाचारपरो नुत्यो नुतितुष्टो नुतिप्रियः । अलसस्तुलसीसेव्यस्तुष्टा रोगनिवर्हणः ॥ ३४॥ प्रस्कन्दनो विभागश्च नीरागो दशदिक्पतिः । वैराग्यदो विमानस्थो रत्नकुम्भधरायुधः ॥ ३५॥ महापादो महाहस्तो महाकायो महाशयः । ऋग्यजुःसामरूपश्च त्वष्टाथर्वणशाखिलः ॥ ३६॥ सहस्रशाखी सद्वृक्षो महाकल्पप्रियः पुमान् । कल्पवृक्षश्च मन्दारो ( ३००) मन्दाराचलशोभनः ॥ ३७॥ मेरुर्हिमालयो माली मलयो मलयद्रुमः । सन्तानकुसुमच्छन्नः सन्तानफलदो विराट् ॥ ३८॥ क्षीराम्भोधिर्घृताम्भोधिर्जलधिः क्लेशनाशनः । रत्नाकरो महामान्यो वैण्यो वेणुधरो वणिक् ॥ ३९॥ वसन्तो मारसामन्तो ग्रीष्मः कल्मषनाशनः । वर्षाकालो वर्षपतिः शरदम्भोजवल्लभः ॥ ४०॥ हेमन्तो हेमकेयूरः शिशिरः शिशुवीर्यदः । सुमतिः सुगतिः साधुर्विष्णुः साम्बोऽम्बिकासुतः ॥ ४१॥ सारग्रीवो महाराजः सुनन्दो नन्दिसेवितः । सुमेरुशिखरावासी सप्तपातालगोचरः ॥ ४२॥ आकाशचारी नित्यात्मा विभुत्वविजयप्रदः । कुलकान्तः कुलाद्रीशो विनयी विजयी वियत् ॥ ४३॥ विश्वम्भरा वियच्चारी वियद्रूपो वियद्रथः । सुरथः सुगतस्तुत्यो वेणुवादनतत्परः ॥ ४४॥ गोपालो गोमयो गोप्ता प्रतिष्ठायी प्रजापतिः । आवेदनीयो वेदाक्षो महादिव्यवपुः सुराट् ॥ ४५॥ निर्जीवो जीवनो मन्त्री महार्णवनिनादभृत् । वसुरावर्तनो नित्यः सर्वाम्नायप्रभुः सुधीः ॥ ४६॥ न्यायनिर्वापणः शूली कपाली पद्ममध्यगः । त्रिकोणनिलयश्चेत्यो बिन्दुमण्डलमध्यगः ॥ ४७॥ बहुमालो महामालो दिव्यमालाधरो जपः । जपाकुसुमसङ्काशो जपपूजाफलप्रदः ॥ ४८॥ सहस्रमूर्धा देवेन्द्रः सहस्रनयनो रविः । सर्वतत्त्वाश्रयो ब्रध्नो वीरवन्द्यो विभावसुः ॥ ४९॥ विश्वावसुर्वसुपतिर्वसुनाथो विसर्गवान् । आदिरादित्यलोकेशः सर्वगामी (४००) कलाश्रयः ॥ ५०॥ भोगेशो देवदेवेन्द्रो नरेन्द्रो हव्यवाहनः । विद्याधरेशो विद्येशो यक्षेशो रक्षणो गुरुः ॥ ५१॥ रक्षःकुलैकवरदो गन्धर्वकुलपूजितः । अप्सरोवन्दितोऽजय्यो जेता दैत्यनिवर्हणः ॥ ५२॥ गुह्यकेशः पिशाचेशः किन्नरीपूजितः कुजः । सिद्धसेव्यः समाम्नायः साधुसेव्यः सरित्पतिः ॥ ५३॥ ललाटाक्षो विश्वदेहो नियमी नियतेन्द्रियः । अर्कोऽर्ककान्तरत्रेशोऽनन्तबाहुरलोपकः ॥ ५४॥ अलिपात्रधरोऽनङ्गोऽप्यम्बरेशोऽम्बराश्रयः । अकारमातृकानाथो देवानामादिराकृतिः ॥ ५५॥ आरोग्यकारी चानन्दविग्रहो निग्रहो ग्रहः । आलोककृत् तथादित्यो वीरादित्यः प्रजाधिपः ॥ ५६॥ आकाशरूपः स्वाकार इन्द्रादिसुरपूजितः । इन्दिरापूजितश्चेन्दुरिन्द्रलोकाश्रयस्त्विनः ॥ ५७॥ ईशान ईश्वरश्चन्द्र ईश ईकारवल्लभः । उन्नतास्योऽप्युरुवपुरुन्नताद्रिचरो गुरुः ॥ ५८॥ उत्पलोऽप्युच्चलत्केतुरुच्चैर्हयगतिः सुखी । उकाराकारसुखितस्तथोष्मा निधिरूषणः ॥ ५९॥ अनूरुसारथिश्चोष्णभानुरूकारवल्लभः । ऋणहर्ता ॠलिहस्त ऋॠभूषणभूषितः ॥ ६०॥ लृप्ताङ्ग लॄमनुस्थायी लृलॄगण्डयुगोज्ज्वलः । एणाङ्कामृतदश्चीनपट्टभृद् बहुगोचरः ॥ ६१॥ एकचक्रधरश्चैकोऽनेकचक्षुस्तथैक्यदः । एकारबीजरमण एऐओष्ठामृताकरः ॥ ६२॥ ओङ्कारकारणं ब्रह्म औकारौचित्यमण्डनः । ओऔदन्तालिरहितो महितो महतां पतिः ॥ ६३॥ अंविद्याभूषणो भूष्यो लक्ष्मीशोऽम्बीजरूपवान् । अःस्वरूपः (५००) स्वरमयः सर्वस्वरपरात्मकः ॥ ६४॥ अंअःस्वरूपमन्त्राङ्गः कलिकालनिवर्तकः । कर्मैकवरदः कर्मसाक्षी कल्मषनाशनः ॥ ६५॥ कचध्वंसी च कपिलः कनकाचलचारकः । कान्तः कामः कपिः क्रूरः कीरः केशिनिसूदनः ॥ ६६॥ केशारिसूदनः कृष्णः कापालिकः कुब्जः कमलाश्रयणः कुली । कपालमोचकः काशः काश्मीरघनसारभृत् ॥ ६७॥ कूजत्किन्नरगीतेष्टः कुरुराजः कुलन्धरः । कुवासी कुलकौलेशः ककाराक्षरमण्डनः ॥ ६८॥ खवासी खेटकेशानः खङ्गमुण्डधरः खगः । खगेश्वरश्च खचरः खेचरीगणसेवितः ॥ ६९॥ खरांशुः खेटकधरः खलहर्ता खवर्णकः । गन्ता गीतप्रियो गेयो गयावासी गणाश्रयः ॥ ७०॥ गुणातीतो गोलगतिर्गुच्छलो गुणिसेवितः । गदाधरो गदहरो गाङ्गेयवरदः प्रगी ॥ ७१॥ गिङ्गिलो गटिलो गान्तो गकाराक्षरभास्करः घृणिमान् घुर्घुरारावो घण्टाहस्तो घटाकरः ॥ ७२॥ घनच्छन्नो घनगतिर्घनवाहनतर्पितः । ङान्तो ङेशो ङकाराङ्गश्चन्द्रकुङ्कुमवासितः ॥ ७३॥ चन्द्राश्रयश्चन्द्रधरोऽच्युतश्चम्पकसन्निभः । चामीकरप्रभश्चण्डभानुश्चण्डेशवल्लभः ॥ ७४॥ चञ्चच्चकोरकोकेष्टश्चपलश्चपलाश्रयः । चलत्पताकश्चण्डाद्रिश्चीवरैकधरोऽचरः ॥ ७५॥ चित्कलावर्धितश्चिन्त्यश्चिन्ताध्वंसी चवर्णवान् । छत्रभृच्छलहृच्छन्दच्छुरिकाच्छिन्नविग्रहः ॥ ७६॥ जाम्बूनदाङ्गदोऽजातो जिनेन्द्रो जम्बुवल्लभः । जम्वारिर्जङ्गिटो जङ्गी जनलोकतमोपहः ॥ ७७॥ जयकारी (६००) जगद्धर्ता जरामृत्युविनाशनः । जगत्त्राता जगद्धाता जगद्ध्येयो जगन्निधिः ॥ ७८॥ जगत्साक्षी जगच्चक्षुर्जगन्नाथप्रियोऽजितः । जकाराकारमुकुटो झञ्जाछन्नाकृतिर्झटः ॥ ७९॥ झिल्लीश्वरो झकारेशो झञ्जाङ्गुलिकराम्बुजः । झञाक्षराञ्चितष्टङ्कष्टिट्टिभासनसंस्थितः ॥ ८०॥ टीत्कारष्टङ्कधारी च ठःस्वरूपष्ठठाधिपः । डम्भरो डामरुर्डिण्डी डामरीशो डलाकृतिः ॥ ८१॥ डाकिनीसेवितो डाढी डढगुल्फाङ्गुलिप्रभः । णेशप्रियो णवर्णेशो णकारपदपङ्कजः ॥ ८२॥ ताराधिपेश्वरस्तथ्यस्तन्त्रीवादनतत्परः । त्रिपुरेशस्त्रिनेत्रेशस्त्रयीतनुरधोक्षजः ॥ ८३॥ तामस्तामरसेष्टश्च तमोहर्ता तमोरिपुः । तन्द्राहर्ता तमोरूपस्तपसां फलदायकः ॥ ८४॥ तुट्यादिकलनाकान्तस्तकाराक्षरभूषणः । स्थाणुस्थलीस्थितो नित्यं स्थविरः स्थण्डिल स्थुलः ॥ ८५॥ थकारजानुरध्यात्मा देवनायकनायकः । दुर्जयो दुःखहा दाता दारिद्र्यच्छेदनो दमी ॥ ८६॥ दौर्भाग्यहर्ता देवेन्द्रो द्वादशाराब्जमध्यगः । द्वादशान्तैकवसतिर्द्वादशात्मा दिवस्पतिः ॥ ८७॥ दुर्गमो दैत्यशमनो दूरगो दुरतिक्रमः । दुर्ध्येयो दुष्टवंशघ्नो दयानाथो दयाकुलः ॥ ८८॥ दामोदरो दीधितिमान् दकाराक्षरमातृकः । धर्मबन्धुर्धर्मनिधिर्धर्मराजो धनप्रदः ॥ ८९॥ धनदेष्टो धनाध्यक्षो धरादर्शो धुरन्धरः । धूर्जटीक्षणवासी च धर्मक्षेत्रो धराधिपः ॥ ९०॥ धाराधरो धुरीणश्च धर्मात्मा धर्मवत्सलः । धराभृद्वल्लभो धर्मी धकाराक्षरभूषणः ॥ ९१॥ नमप्रियो नन्दिरुद्रो ( ७००) नेता नीतिप्रियो नयी । नलिनीवल्लभो नुन्नो नाट्यकृन्नाट्यवर्धनः ॥ ९२॥ नरनाथो नृपस्तुत्यो नभोगामी नमःप्रियः । नमोन्तो नमितारातिर्नरनारायणाश्रयः ॥ ९३॥ नारायणो नीलरुचिर्नम्राङ्गो नीललोहितः । नादरूपो नादमयो नादबिन्दुस्वरूपकः ॥ ९४॥ नाथो नागपतिर्नागो नगराजाश्रितो नगः । नाकस्थितोऽनेकवपुर्नकाराक्षरमातृकः ॥ ९५॥ पद्माश्रयः परं ज्योतिः पीवरांसः पुटेश्वरः । प्रीतिप्रियः प्रेमकरः प्रणतार्तिभयापहः ॥ ९६॥ परत्राता परध्वंसी पुरारिः पुरसंस्थितः । पूर्णानन्दमयः पूर्णतेजाः पूर्णेश्वरीश्वरः ॥ ९७॥ पटोलवर्णः पटिमा पाटलेशः परात्मवान् । परमेशवपुः प्रांशुः प्रमत्तः प्रणतेष्टदः ॥ ९८॥ अपारपारदः पीनः पीताम्बरप्रियः पविः । पाचनः पिचुलः प्लुष्टः प्रमदाजनसौख्यदः ॥ ९९॥ प्रमोदी प्रतिपक्षघ्नः पकाराक्षरमातृकः । फलं भोगापवर्गस्य फलिनीशः फलात्मकः ॥ १००॥ फुल्लदम्भोजमध्यस्थः फुल्लदम्भोजधारकः । स्फुटद्योतिः स्फुटाकारः स्फटिकाचलचारकः ॥ १०२॥ स्फूर्जत्किरणमाली च फकाराक्षरपार्श्वकः । बालो बलप्रियो बान्तो बिलध्वान्तहरो बली ॥ १०३॥ बालादिर्बर्बरध्वंसी बबोलामृतपानकः । बुधो बृहस्पतिर्वृक्षो बृहदश्वो बृहद्गतिः ॥ १०४॥ बपृष्ठो भीमरूपश्च भामयो भेश्वरप्रियः । भगो भृगुर्भृगुस्थायी भार्गवः कविशेखरः ॥ १०५॥ भाग्यदो भानुदीप्ताङ्गो भनाभिश्च भमातृकः । महाकालो (८००) महाध्यक्षो महानादो महामतिः ॥ १०६॥ महोज्ज्वलो मनोहारी मनोगामी मनोभवः । मानदो मल्लहा मल्लो मेरुमन्दरमन्दिरः ॥ १०७॥ मन्दारमालाभरणो माननीयो मनोमयः । मोदितो मदिराहारो मार्तण्डो मुण्डमुण्डितः ॥ १०८॥ महावराहो मीनेशो मेषगो मिथुनेष्टदः । मदालसोऽमरस्तुत्यो मुरारिवरदो मनुः ॥ १०९॥ माधवो मेदिनीशश्च मधुकैटभनाशनः । माल्यवान् मेधनो मारो मेधावी मुसलायुधः ॥ ११०॥ मुकुन्दो मुररीशानो मरालफलदो मदः । मदनो मोदकाहारो मकाराक्षरमातृकः ॥ १११॥ यज्वा यज्ञेश्वरो यान्तो योगिनां हृदयस्थितः । यात्रिको यज्ञफलदो यायी यामलनायकः ॥ ११२॥ योगनिद्राप्रियो योगकारणं योगिवत्सलः । यष्टिधारी च यन्त्रेशो योनिमण्डलमध्यगः ॥ ११३॥ युयुत्सुजयदो योद्धा युगधर्मानुवर्तकः । योगिनीचक्रमध्यस्थो युगलेश्वरपूजितः ॥ ११४॥ यान्तो यक्षैकतिलको यकाराक्षरभूषणः । रामो रमणशीलश्च रत्नभानू रुरुप्रियः ॥ ११५॥ रत्नमौली रत्नतुङ्गो रत्नपीठान्तरस्थितः । रत्नांशुमाली रत्नाढ्यो रत्नकङ्कणनूपुरः ॥ ११६॥ रत्नाङ्गदलसद्बाहू रत्नपादुकमण्डितः । रोहिणीशाश्रयो रक्षाकरो रात्रिञ्चरान्तकः ॥ ११७॥ रकाराक्षररूपश्च लज्जाबीजाश्रितो लवः । लक्ष्मीभानुर्लतावासी लसत्कान्तिश्च लोकभृत् ॥ ११८॥ लोकान्तकहरो लामावल्लभो लोमशोऽलिगः । लिङ्गेश्वरो लिङ्गनादो लीलाकारी ललम्बुसः ॥ ११९॥ लक्ष्मीवाँल्लोकविध्वंसी लकाराक्षरभूषणः । वामनो वीरवीरेन्द्रो वाचालो (९००) वाक्पतिप्रियः ॥ १२०॥ वाचामगोचरो वान्तो वीणावेणुधरो वनम् । वाग्भवो वालिशध्वंसी विद्यानायकनायकः ॥ १२१॥ वकारमातृकामौलिः शाम्भवेष्टप्रदः शुकः । शशी शोभाकरः शान्तः शान्तिकृच्छमनप्रियः ॥ १२२॥ शुभङ्करः शुक्लवस्त्रः श्रीपतिः श्रीयुतः श्रुतः । श्रुतिगम्यः शरद्बीजमण्डितः शिष्टसेवितः ॥ १२३॥ शिष्टाचारः शुभाचारः शेषः शेवालताडनः । शिपिविष्टः शिबिः शुक्रसेव्यः शाक्षरमातृकः ॥ १२४॥ षडाननः षट्करकः षोडशस्वरभूषितः । षट्पदस्वनसन्तोषी षडाम्नायप्रवर्तकः ॥ १२५॥ षड्सास्वादसन्तुष्टः षकाराक्षरमातृकः । सूर्यभानुः सूरभानुः सूरिभानुः सुखाकरः ॥ १२६॥ समस्तदैत्यवंशघ्नः समस्तसुरसेवितः । समस्तसाधकेशानः समस्तकुलशेखरः ॥ १२७॥ सुरसूर्यः सुधासूर्यः स्वःसूर्यः साक्षरेश्वरः । हरित्सूर्यो हरिद्भानुर्हविर्भुग् हव्यवाहनः ॥ १२८॥ हालासूर्यो होमसूर्यो हुतसूर्यो हरीश्वरः । ह्राम्बीजसूर्यो ह्रींसूर्यो हकाराक्षरमातृकः ॥ १२९॥ ळम्बीजमण्डितः सूर्यः क्षोणीसूर्यः क्षमापतिः । क्षुत्सूर्यः क्षान्तसूर्यश्च ळङ्क्षःसूर्यः सदाशिवः ॥ १३०॥ अकारसूर्यः क्षःसूर्यः सर्वसूर्यः कृपानिधिः । भूःसूर्यश्च भुवःसूर्यः स्वःसूर्यः सूर्यनायकः ॥ १३१॥ ग्रहसूर्य ऋक्षसूर्यो लग्नसूर्यो महेश्वरः । राशिसूर्यो योगसूर्यो मन्त्रसूर्यो मनूत्तमः ॥ १३२॥ तत्त्वसूर्यः परासूर्यो विष्णुसूर्यः प्रतापवान् । रुद्रसूर्यो ब्रह्मसूर्यो वीरसूर्यो वरोत्तमः ॥ १३३॥ धर्मसूर्यः कर्मसूर्यो विश्वसूर्यो विनायकः । (१०००) इतीदं देवदेवेशि मत्रनामसहस्रकम् ॥ १३४॥ देवदेवस्य सवितुः सूर्यस्यामिततेजसः । सर्वसारमयं दिव्यं ब्रह्मतेजोविवर्धनम् ॥ १३५॥ ब्रह्मज्ञानमयं पुण्यं पुण्यतीर्थफलप्रदम् । सर्वयज्ञफलैस्तुल्यं सर्वसारस्वतप्रदम् ॥ १३६॥ सर्वश्रेयस्करं लोके कीर्तिदं धनदं परम् । सर्वव्रतफलोद्रिक्तं सर्वधर्मफलप्रदम् ॥ १३७॥ सर्वरोगहरं देवि शरीरारोग्यवर्धनम् । प्रभावमस्य देवेशि नाम्नां सहस्रकस्य च ॥ १३८॥ कल्पकोटिशतैर्वर्षैर्नैव शक्नोमि वर्णितुम् । यं यं काममभिध्यायेद् देवानामपि दुर्लभम् ॥ १३९॥ तं तं प्राप्नोति सहसा पठनेनास्य पार्वति । यः पठेच्छ्रावयेद्वापि श‍ृणोति नियतेन्द्रियः ॥ १४०॥ स वीरो धर्मिणां राजा लक्ष्मीवानपि जायते । धनवाञ्जायते लोके पुत्रवान् राजवल्लभः ॥ १४१॥ आयुरारोग्यवान् नित्यं स भवेत् सम्पदां पदम् । रवौ पठेन्महादेवि सूर्यं सम्पूज्य कौलिकः ॥ १४२॥ सूर्योदये रविं ध्याता लभेत् कामान् यथेप्सितान् । सङ्क्रान्तौ यः पठेद् देवि त्रिकालं भक्तिपूर्वकम् ॥ १४३॥ इह लोके श्रियं भुक्त्वा सर्वरोगैः प्रमुच्यते । सप्तम्यां शुक्लपक्षे यः पठदस्तङ्गते रवौ ॥ १४४॥ सर्वारोग्यमयं देहं धारयेत् कौलिकोत्तमः । व्यतीपाते पठेद् देवि मध्याह्ने संयतेन्द्रियः ॥ १४५॥ धनं पुत्रान् यशो मानं लभेत् सूर्यप्रसादतः । चक्रार्चने पठेद् देवि जपन् मूलं रविं स्मरन् ॥ १४६॥ रवीभूत्वा महाचीनक्रमाचारविचक्षणः । सर्वशत्रून् विजित्याशु लभेल्लक्ष्मीं प्रतापवान् ॥ १४७॥ यः पठेत् परदेशस्थो वटुकार्चनतत्परः । कान्ताश्रितो वीतभयो भवेत् स शिवसन्निभः ॥ १४८॥ शतावर्तं पठेद्यस्तु सूर्योदययुगान्तरे । सविता सर्वलोकेशो वरदः सहसा भवेत् ॥ १४९॥ बहुनात्र किमुक्तेन पठनादस्य पार्वति । इह लक्ष्मीं सदा भुक्त्वा परत्राप्नोति तत्पदम् ॥ १५०॥ रवौ देवि लिखेद्भूर्जे मन्त्रनामसहस्रकम् । अष्टगन्धेन दिव्येन नीलपुष्पहरिद्रया ॥ १५१॥ पञ्चामृतौषधीभिश्च नृयुक्पीयूषबिन्दुभिः । विलिख्य विधिवन्मन्त्री यन्त्रमध्येऽर्णवेष्टितम् ॥ १५२॥ गुटीं विधाय संवेष्ट्य मूलमन्त्रमनुस्मरन् । कन्याकर्तितसूत्रेण वेष्टयेद्रक्तलाक्षया ॥ १५३॥ सुवर्णेन च संवेष्ट्य पञ्चगव्येन शोधयेत् । साधयेन्मन्त्रराजेन धारयेन्मूर्ध्नि वा भुजे ॥ १५४॥ किं किं न साधयेद् देवि यन्ममापि सुदुर्लभम् । कुष्ठरोगी च शूली च प्रमेही कुक्षिरोगवान् ॥ १५५॥ भगन्धरातुरोऽप्यर्शी अश्मरीवांश्च कृच्छ्रवान् । मुच्यते सहसा धृत्वा गुटीमेतां सुदुर्लभाम् ॥ १५६॥ वन्ध्या च काकवन्ध्या च मृतवत्सा च कामिनी । धारयेद्गुटिकामेतां वक्षसि स्मयतर्पिता ॥ १५७॥ वन्ध्या लभेत् सुतं कान्तं काकवन्ध्यापि पार्वति । मृतवत्सा बहून् पुत्रान् सुरूपांश्च चिरायुशः ॥ १५८ ॥ रणे गत्वा गुटीं धृत्वा शत्रूञ्जित्वा लभेच्छ्रियम् । अक्षताङ्गो महाराजः सुखी स्वपुरमाविशेत् ॥ १५९॥ यो धारयेद् भुजे नित्यं राजलोकवशङ्करीम् । गुटिकां मोहनाकर्षस्तम्भनोच्चाटनक्षमाम् ॥ १५०॥ स भवेत् सूर्यसङ्काशो महसा महसां निधिः । धनेन धनदो देवि विभवेन च शङ्करः ॥ १६१॥ श्रियेन्द्रो यशसा रामः पौरुषेण च भार्गवः । गिरा बृहस्पतिर्देवि नयेन भृगुनन्दनः ॥ १६२॥ बलेन वायुसङ्काशो दयया पुरुषोत्तमः । आरोग्येण घटोद्भूतिः कान्त्या पूर्णेन्दुसन्निभः ॥ १६३॥ धर्मेण धर्मराजश्च रत्नै रत्नाकरोपमः । गाम्भीर्येण तथाम्भोधिर्दातृत्वेन बलिः स्वयम् ॥ १६४॥ सिद्ध्या श्रीभैरवः साक्षादानन्देन चिदीश्वरः । किं प्रलापेन बहुना पठेद्वा धारयेच्छिवे ॥ १६५॥ श‍ृणुयाद् यः परं दिव्यं सूर्यनामसहस्रकम् । स भवेद् भास्करः साक्षात् परमानन्दविग्रहः ॥ १६६॥ स्वतन्त्रः स प्रयात्यन्ते तद्विष्णोः परमं पदम् । इदं दिव्यं महत् तत्त्वं सूर्यनामसहस्रकम् ॥ १६७॥ अप्रकाश्यमदातव्यमवक्तव्यं दुरात्मने । अभक्ताय कुचैलाय परशिष्याय पार्वति ॥ १६८॥ कर्कशायाकुलीनाय दुर्जनायाघबुद्धये । गुरुभक्तिविहीनाय निन्दकाय शिवागमे ॥ १६९॥ देयं शिष्याय शान्ताय गुरुभक्तिपराय च । कुलीनाय सुभक्ताय सूर्यभक्तिरताय च ॥ १७०॥ इदं तत्त्वं हि तत्त्वानां वेदागमरहस्यकम् । सर्वमन्त्रमयं गोप्यं गोपनीयं स्वयोनिवत् ॥ १७१॥ ॥ इति श्रीरुद्रयामले तन्त्रे श्रीदेवीरहस्ये सूर्यसहस्रनामस्तोत्रनामनिरूपणं चतुस्त्रिंशः पटलः सम्पूर्णः ॥ ३४॥ The printed book from which the stotra was taken had numerous pAThabhedas.