अक्षर आकार:

श्रीसूर्यसहस्रनामावलिः २

Shri Surya Sahasranamavali 2 1000 Names

श्रीसूर्यसहस्रनामावलिः २

श्रीरुद्रयामले तन्त्रे श्रीदेवीरहस्ये ॐह्रांह्रींसःहंसःसोः सूर्याय स्वाहा । ॐ सवित्रे नमः । भास्कराय । भगाय । भगवते । सर्वलोकेशाय । भूतेशाय । भूतभावनाय । भूतात्मने । सृष्टिकर्त्रे । स्रष्ट्रे । कर्त्रे । हर्त्रे । जगत्पतये । आदित्याय । वरदाय । वीराय । वीरलाय । विश्वदीपनाय । विश्वकृते । विश्वहृदे नमः । २० ॐ भक्ताय नमः । भोक्त्रे । भीमाय । भयापहाय । विश्वात्मने । पुरुषाय । साक्षिणे । परं ब्रह्मणे । परात्पराय । प्रतापवते । विश्वयोनये । विश्वेशाय । विश्वतोमुखाय । कामिने । योगिने । महाबुद्धये । मनस्विने । मनवे । अव्ययाय । प्रजापतये नमः । ४० ॐ विश्ववन्द्याय नमः । वन्दिताय । भुवनेश्वराय । भूतभव्यभविष्यात्मने । तत्त्वात्मने । ज्ञानवते । गुणिने । सात्त्विकाय । राजसाय । तामसाय । तमस्विने । करुणानिधये । सहस्रकिरणाय । भास्वते । भार्गवाय । भृगवे । ईश्वराय । निर्गुणाय । निर्ममाय । नित्याय नमः । ६० ॐ नित्यानन्दाय नमः । निराश्रयाय । तपस्विने । कालकृते । कालाय । कमनीयतनवे । कृशाय । दुर्दर्शाय । सुदशाय । दाशाय । दीनबन्धवे । दयाकराय । द्विभुजाय । अष्टभुजाय । धीराय । दशबाहवे । दशातिगाय । दशांशफलदाय । विष्णवे । जिगीषवे नमः । ८० ॐ जयवते नमः । जयिने । जटिलाय । निर्भयाय । भानवे । पद्महस्ताय । कुशीरकाय । समाहितगतये । धात्रे । विधात्रे । कृतमङ्गलाय । मार्तण्डाय । लोकधृते । त्रात्रे । रुद्राय । भद्रप्रदाय । प्रभवे । अरातिशमनाय । शान्ताय । शङ्कराय नमः । १०० ॐ कमलासनाय नमः । अविचिन्त्यवपवे । श्रेष्ठाय । महाचीनक्रमेश्वराय । महार्तिदमनाय । दान्ताय । महामोहहराय । हरये । नियतात्मने । कालेशाय । दिनेशाय । भक्तवत्सलाय । कल्याणकारिणे । कमठकर्कशाय । कामवल्लभाय । व्योमचारिणे । महते । सत्याय । शम्भवे । अम्भोजवल्लभाय नमः । १२० ॐ सामगाय नमः । पञ्चमाय । द्रव्याय । ध्रुवाय । दीनजनप्रियाय । त्रिजटाय । रक्तवाहाय । रक्तवस्त्राय । रतिप्रियाय । कालयोगिने । महानादाय । निश्चलाय । दृश्यरूपधृषे । गम्भीरघोषाय । निर्घोषाय । घटहस्ताय । महोमयाय । रक्ताम्बरधराय । रक्ताय । रक्तमाल्यानुलेपनाय नमः । १४० ॐ सहस्रहस्ताय नमः । विजयाय । हरिगामिने । हरीश्वराय । मुण्डाय । कुण्डिने । भुजङ्गेशाय । रथिने । सुरथपूजिताय । न्यग्रोधवासिने । न्यग्रोधाय । वृक्षकर्णाय । कुलन्धराय । शिखिने । चण्डिने । जटिने । ज्वालिने । ज्वालातेजोमयाय । विभवे । हैमाय नमः । १६० ॐ हेमकराय नमः । हारिणे । हरिद्रत्नासनस्थिताय । हरिदश्वाय । जगद्वासिने । जगतां पतये । इङ्गिलाय । विरोचनाय । विलासिने । विरूपाक्षाय । विकर्तनाय । विनायकाय । विभासाय । भासाय । भासां पतये । प्रभवे ईत् इस् पतिः अस् पेर् बूक् । मतिमते । रतिमते । स्वक्षाय । विशालाक्षाय नमः । १८० ॐ विशाम्पतये नमः । बालरूपाय । गिरिचराय । गीर्पतये । गोमतीपतये । गङ्गाधराय । गणाध्यक्षाय । गणसेव्याय । गणेश्वराय । गिरीशनयनावासिने । सर्ववासिने । सतीप्रियाय । सत्यात्मकाय । सत्यधराय । सत्यसन्धाय । सहस्रगवे । अपारमहिम्ने । मुक्ताय । मुक्तिदाय । मोक्षकामदाय नमः । २०० ॐ मूर्तिमते नमः । दुर्धराय । अमूर्तये । त्रुटिरूपाय । लवात्मकाय । प्राणेशाय । व्यानदाय । अपानसमानोदानरूपवते । चषकाय । घटिकारूपाय । मुहूर्ताय । दिनरूपवते । पक्षाय । मासाय । ऋतवे । वर्षाय । दिनकालेश्वरेश्वराय । अयनाय । युगरूपाय । कृताय नमः । २२० ॐ त्रेतायुगाय नमः । त्रिपादे । द्वापराय । कलये । कालाय । कालात्मने । कलिनाशनाय । मन्वन्तरात्मकाय । देवाय । शक्राय । त्रिभुवनेश्वराय । वासवाय । अग्नये । यमाय । रक्षसे । वरुणाय । यादसां पतये । वायवे । वैश्रवणाय । शैव्याय नमः । २४० ॐ गिरिजाय नमः । जलजासनाय । अनन्ताय । अनन्तमहिम्ने । परमेष्ठिने । गतज्वराय । कल्पान्तकलनाय । क्रूराय । कालाग्नये । कालसूदनाय । महाप्रलयकृते । कृत्याय । कुत्याशिने । युगवर्तनाय । कालावर्ताय । युगधराय । युगादये । शहकेश्वराय । आकाशनिधिरूपाय । सर्वकालप्रवर्तकाय नमः । २६० ॐ अचिन्त्याय नमः । सुबलाय । बालाय । बलाकावल्लभाय । वराय । वरदाय । वीर्यदाय । वाग्मिने । वाक्पतये । वाग्विलासदाय । साङ्ख्येश्वराय । वेदगम्याय । मन्त्रेशाय । तन्त्रनायकाय । कुलाचारपराय । नुत्याय । नुतितुष्टाय । नुतिप्रियाय । अलसाय । तुलसीसेव्याय नमः । २८० ॐ स्तुष्टाय नमः । रोगनिबर्हणाय । प्रस्कन्दनाय । विभागाय । नीरागाय । दशदिक्पतये । वैराग्यदाय । विमानस्थाय । रत्नकुम्भधरायुधाय । महापादाय । महाहस्ताय । महाकायाय । महाशयाय । ऋग्यजुःसामरूपाय । अथर्वणशाखिनः त्वष्ट्रे । सहस्रशाखिने । सद्वृक्षाय । महाकल्पप्रियाय । पुंसे । कल्पवृक्षाय नमः । ३०० ॐ मन्दाराय नमः । मन्दराचलशोभनाय । मेरवे । हिमालयाय । मालिने । मलयाय । मलयद्रुमाय । सन्तानकुसुमच्छन्नाय । सन्तानफलदाय । विराजे । क्षीराम्भोधये । घृताम्भोधये । जलधये । क्लेशनाशनाय । रत्नाकराय । महामान्याय । वैण्याय । वेणुधराय । वणिजे । वसन्ताय नमः । ३२० ॐ मारसामन्ताय नमः । ग्रीष्माय । कल्मषनाशनाय । वर्षाकालाय । वर्षपतये । शरदम्भोजवल्लभाय । हेमन्ताय । हेमकेयूराय । शिशिराय । शिशुवीर्यदाय । सुमतये । सुगतये । साधवे । विष्णवे । साम्बाय । अम्बिकासुताय । सारग्रीवाय । महाराजाय । सुनन्दाय । नन्दिसेविताय नमः । ३४० ॐ सुमेरुशिखरावासिने नमः । सप्तपातालगोचराय । आकाशचारिणे । नित्यात्मने । विभुत्वविजयप्रदाय । कुलकान्ताय । कुलाधीशाय । विनयिने । विजयिने । वियदे । विश्वम्भराय । वियच्चारिणे । वियद्रूपाय । वियद्रथाय । सुरथाय । सुगतस्तुत्याय । वेणुवादनतत्पराय । गोपालाय । गोमयाय । गोप्त्रे नमः । ३६० ॐ प्रतिष्ठायिने नमः । प्रजापतये । आवेदनीयाय । वेदाक्षाय । महादिव्यवपवे । सुराजे । निर्जीवाय । जीवनाय । मन्त्रिणे । महार्णवनिनादभृते । वसवे । आवर्तनाय । नित्याय । सर्वाम्नायप्रभवे । सुधिये । न्यायनिर्वापणाय । शूलिने । कपालिने । पद्ममध्यगाय । त्रिकोणनिलयाय नमः । ३८० ॐ चेत्याय नमः । बिन्दुमण्डलमध्यगाय । बहुमालाय । महामालाय । दिव्यमालाधराय । जपाय । जपाकुसुमसङ्काशाय । जपपूजाफलप्रदाय । सहस्रमूर्ध्ने । देवेन्द्राय । सहस्रनयनाय । रवये । सर्वतत्त्वाश्रयाय । ब्रध्नाय । वीरवन्द्याय । विभावसवे । विश्वावसवे । वसुपतये । वसुनाथाय । विसर्गवते नमः । ४०० ॐ आदये नमः । आदित्यलोकेशाय । सर्वगामिने । कलाश्रयाय । भोगेशाय । देवदेवेन्द्राय । नरेन्द्राय । हव्यवाहनाय । विद्याधरेशाय । विद्येशाय । यक्षेशाय । रक्षणाय । गुरवे । रक्षःकुलैकवरदाय । गन्धर्वकुलपूजिताय । अप्सरोवन्दिताय । अजय्याय । जेत्रे । दैत्यनिबर्हणाय । गुह्यकेशाय नमः । ४२० ॐ पिशाचेशाय नमः । किन्नरीपूजिताय । कुजाय । सिद्धसेव्याय । समाम्नायाय । साधुसेव्याय । सरित्पतये । ललाटाक्षाय । विश्वदेहाय । नियमिने । नियतेन्द्रियाय । अर्काय । अर्ककान्तरत्नेशाय । अनन्तबाहवे । अलोपकाय । अलिपात्रधराय । अनङ्गाय । अम्बरेशाय । अम्बराश्रयाय । अकारमातृकानाथाय नमः । ४४० ॐ देवानामादये नमः । आकृतये । आरोग्यकारिणे । आनन्दविग्रहाय । निग्रहाय । ग्रहाय । आलोककृते । आदित्याय । वीरादित्याय । प्रजाधिपाय । आकाशरूपाय । स्वाकाराय । इन्द्रादिसुरपूजिताय । इन्दिरापूजिताय । इन्दवे । इन्द्रलोकाश्रयस्थिताय - इनाय । ईशानाय । ईश्वराय । चन्द्राय । ईशाय नमः । ४६० ॐ ईकारवल्लभाय नमः । उन्नतास्याय । उरुवपुषे । उन्नताद्रिचराय । गुरवे । उत्पलाय । उच्चलत्केतवे । उच्चैर्हयगतये । सुखिने । उकाराकारसुखिताय । ऊष्मायै । निधये । ऊषणाय । अनूरुसारथये । उष्णभानवे । ऊकारवल्लभाय । ऋणहर्त्रे । ॠलिहस्ताय । ऋॠभूषणभूषिताय । ऌप्ताङ्गाय नमः । ४८० ॐ ल्^ईमनुस्थायिने नमः । ऌॡगण्डयुगोज्ज्वलाय । एणाङ्कामृतदाय । चीनपट्टभृते । बहुगोचराय । एकचक्रधराय । एकाय । अनेकचक्षुषे । ऐक्यदाय । एकारबीजरमणाय । एऐओष्ठामृताकराय । ओङ्कारकारण्ं ब्रह्मणे । औकाराय । औचित्यमण्डनाय । ओऔदन्तालिरहिताय । महिताय । महतां पतये । अंविद्याभूषणाय । भूष्याय । लक्ष्मीशाय नमः । ५०० ॐ अंबीजरूपवते नमः । अःस्वरूपाय । स्वरमयाय । सर्वस्वरपरात्मकाय । अंअःस्वरूपमन्त्राङ्गाय । कलिकालनिवर्तकाय । कर्मैकवरदाय । कर्मसाक्षिणे । कल्मषनाशनाय । कचध्वंसिने । कपिलाय । कनकाचलचारकाय । कान्ताय । कामाय । कपये । क्रूराय । कीराय । केशीनिषूदनाय (केशीनिसूदनाय) । कृष्णाय नमः । ५२० ॐ कापालिकाय नमः । कुब्जाय । कमलाश्रयणाय । कुलिने । कपालमोचकाय । काशाय । काश्मीरघनसारभृते । कूजत्किन्नरगीतेष्टाय । कुरुराजाय । कुलन्धराय । कुवासिने । कुलकौलेशाय । ककाराक्षरमण्डनाय । खवासिने । खेटकेशानाय । खड्गमुण्डधराय । खगाय । खगेश्वराय । खचराय । खेचरीगणसेविताय नमः । ५४० ॐ खरांशवे नमः । खेटकधराय । खलहर्त्रे । खवर्णकाय । गन्त्रे । गीतप्रियाय । गेयाय । गयावासिने । गणाश्रयाय । गुणातीताय । गोलगतये । गुच्छलाय । गुणिसेविताय । गदाधराय । गदहराय । गाङ्गेयवरदाय । प्रगिने । गिङ्गिलाय । गटिलाय । गान्ताय नमः । ५६० ॐ गकाराक्षरभास्कराय नमः । घृणिमते । घुर्घुरारावाय । घण्टाहस्ताय । घटाकराय । घनच्छन्नाय । घनगतये । घनवाहनतर्पिताय । ङान्ताय । ङेशाय । ङकाराङ्गाय । चन्द्रकुङ्कुमवासिताय । चन्द्राश्रयाय । चन्द्रधराय । अच्युताय । चम्पकसन्निभाय । चामीकरप्रभाय । चण्डभानवे । चण्डेशवल्लभाय । चञ्चच्चकोरकोकेष्टाय नमः । ५८० ॐ चपलाय नमः । चपलाश्रयाय । चलत्पताकाय । चण्डाद्रये । चीवरैकधराय । अचराय । चित्कलावर्धिताय । चिन्त्याय । चिन्ताध्वंसिने । चवर्णवते । छत्रभृते । छलहृते । छन्दसे । च्छुरिकाच्छिन्नविग्रहाय । जाम्बूनदाङ्गदाय । अजाताय । जिनेन्द्राय । जम्बुवल्लभाय । जम्बारये । जङ्गिटाय नमः । ६०० ॐ जङ्गिने नमः । जनलोकतमोऽपहाय । जयकारिणे । जगद्धर्त्रे । जरामृत्युविनाशनाय । जगत्त्रात्रे । जगद्धात्रे । जगद्ध्येयाय । जगन्निधये । जगत्साक्षिणे । जगच्चक्षुषे । जगन्नाथप्रियाय । अजिताय । जकाराकारमुकुटाय । झञ्जाछन्नाकृतये । झटाय । झिल्लीश्वराय । झकारेशाय । झञ्जाङ्गुलिकराम्बुजाय । झञाक्षराञ्चिताय नमः । ६२० ॐ टङ्काय नमः । टिट्टिभासनसंस्थिताय । टीत्काराय । टङ्कधारिणे । ठःस्वरूपाय । ठठाधिपाय । डम्भराय । डामरवे । डिण्डिने । डामरीशाय । डलाकृतये । डाकिनीसेविताय । डाढिने । डढगुल्फाङ्गुलिप्रभाय । णेशप्रियाय । णवर्णेशाय । णकारपदपङ्कजाय । ताराधिपेश्वराय । तथ्याय । तन्त्रीवादनतत्पराय नमः । ६४० ॐ त्रिपुरेशाय नमः । त्रिनेत्रेशाय । त्रयीतनवे । अधोक्षजाय । तामाय । तामरसेष्टाय । तमोहर्त्रे । तमोरिपवे । तन्द्राहर्त्रे । तमोरूपाय । तपसां फलदायकाय । तुट्यादिकलनाकान्ताय । तकाराक्षरभूषणाय । स्थाणवे । स्थलिने । स्थिताय । नित्याय । स्थविराय । स्थण्डिलाय । स्थिराय - स्थूलाय नमः । ६६० ॐ थकारजानवे नमः । अध्यात्मने । देवनायकनायकाय । दुर्जयाय । दुःखघ्ने । दात्रे । दारिद्र्यच्छेदनाय । दमिने । दौर्भाग्यहर्त्रे । देवेन्द्राय । द्वादशाराब्जमध्यगाय । द्वादशान्तैकवसतये । द्वादशात्मने । दिवस्पतये । दुर्गमाय । दैत्यशमनाय । दूरगाय । दुरतिक्रमाय । दुर्ध्येयाय । दुष्टवंशघ्नाय नमः । ६८० ॐ दयानाथाय नमः । दयाकुलाय । दामोदराय । दीधितिमते । दकाराक्षरमातृकाय । धर्मबन्धवे । धर्मनिधये । धर्मराजाय । धनप्रदाय । धनदेष्टाय । धनाध्यक्षाय । धरादर्शाय । धुरन्धराय । धूर्जटीक्षणवासिने । धर्मक्षेत्राय । धराधिपाय । धाराधराय । धुरीणाय । धर्मात्मने । धर्मवत्सलाय नमः । ७०० ॐ धराभृद्वल्लभाय नमः । धर्मिणे । धकाराक्षरभूषणाय । नर्मप्रियाय । नन्दिरुद्राय । नेत्रे । नीतिप्रियाय । नयिने । नलिनीवल्लभाय । नुन्नाय । नाट्यकृते । नाट्यवर्धनाय । नरनाथाय । नृपस्तुत्याय । नभोगामिने । नमःप्रियाय । नमोऽन्ताय । नमितारातये । नरनारायणाश्रयाय । नारायणाय नमः । ७२० ॐ नीलरुचये नमः । नम्राङ्गाय । नीललोहिताय । नादरूपाय । नादमयाय । नादबिन्दुस्वरूपकाय । नाथाय । नागपतये । नागाय । नगराजाश्रिताय । नगाय । नाकस्थिताय । अनेकवपुषे । नकाराक्षरमातृकाय । पद्माश्रयाय । परस्मै ज्योतिषे । पीवरांसाय । पुटेश्वराय । प्रीतिप्रियाय । प्रेमकराय नमः । ७४० ॐ प्रणतार्तिभयापहाय नमः । परत्रात्रे । पुरध्वंसिने । पुरारये । पुरसंस्थिताय । पूर्णानन्दमयाय । पूर्णतेजसे । पूर्णेश्वरीश्वराय । पटोलवर्णाय । पटिम्ने । पाटलेशाय । परात्मवते । परमेशवपुषे । प्रांशवे । प्रमत्ताय । प्रणतेष्टदाय । अपारपारदाय । पीनाय । पीताम्बरप्रियाय । पवये नमः । ७६० ॐ पाचनाय नमः । पिचुलाय । प्लुष्टाय । प्रमदाजनसौख्यदाय । प्रमोदिने । प्रतिपक्षघ्नाय । पकाराक्षरमातृकाय । भोगापवर्गस्य फलाय । फलिनीशाय । फलात्मकाय । फुल्लदम्भोजमध्यस्थाय । फुल्लदम्भोजधारकाय । स्फुटज्ज्योतिषे - द्योतये । स्फुटाकाराय । स्फटिकाचलचारकाय । स्फूर्जत्किरणमालिने । फकाराक्षरपार्श्वकाय । बालाय । बलप्रियाय । बान्ताय नमः । ७८० ॐ बिलध्वान्तहराय नमः । बलिने । बालादये । बर्बरध्वंसिने । बब्बोलामृतपानकाय । बुधाय । बृहस्पतये । वृक्षाय । बृहदश्वाय । बृहद्गतये । बपृष्ठाय । भीमरूपाय । भामयाय । भेश्वरप्रियाय । भगाय । भृगवे । भृगुस्थायिने । भार्गवाय । कविशेखराय । भाग्यदाय नमः । ८०० ॐ भानुदीप्ताङ्गाय नमः । भनाभये । भमातृकाय । महाकालाय । महाध्यक्षाय । महानादाय । महामतये । महोज्ज्वलाय । मनोहारिणे । मनोगामिने । मनोभवाय । मानदाय । मल्लघ्ने । मल्लाय । मेरुमन्दरमन्दिराय । मन्दारमालाभरणाय । माननीयाय । मनोमयाय । मोदिताय । मदिराहाराय नमः । ८२० ॐ मार्तण्डाय नमः । मुण्डमुण्डिताय । महावराहाय । मीनेशाय । मेषगाय । मिथुनेष्टदाय । मदालसाय । अमरस्तुत्याय । मुरारिवरदाय । मनवे । माधवाय । मेदिनीशाय । मधुकैटभनाशनाय । माल्यवते । मेघनाय । माराय । मेधाविने । मुसलायुधाय । मुकुन्दाय । मुररीशानाय नमः । ८४० ॐ मरालफलदाय नमः । मदाय । मोदनाय मदनाय । मोदकाहाराय । मकाराक्षरमातृकाय । यज्वने । यज्ञेश्वराय । यान्ताय । योगिनां हृदयस्थिताय । यात्रिकाय । यज्ञफलदाय । यायिने । यामलनायकाय । योगनिद्राप्रियाय । योगकारणाय । योगिवत्सलाय । यष्टिधारिणे । यन्त्रेशाय । योनिमण्डलमध्यगाय । युयुत्सुजयदाय नमः । ८६० ॐ योद्ध्रे नमः । युगधर्मानुवर्तकाय । योगिनीचक्रमध्यस्थाय । युगलेश्वरपूजिताय । यान्ताय । यक्षैकतिलकाय । यकाराक्षरभूषणाय । रामाय । रमणशीलाय । रत्नभानवे । उरुप्रियाय । रत्नमौलिने । रत्नतुङ्गाय । रत्नपीठान्तरस्थिताय । रत्नांशुमालिने । रत्नाढ्याय । रत्नकङ्कणनूपुराय । रत्नाङ्गदलसद्बाहवे । रत्नपादुकामण्डिताय । रोहिणीशाश्रयाय नमः । ८८० ॐ रक्षाकराय नमः । रात्रिञ्चरान्तकाय । रकाराक्षररूपाय । लज्जाबीजाश्रिताय । लवाय । लक्ष्मीभानवे । लतावासिने । लसत्कान्तये । लोकभृते । लोकान्तकहराय । लामावल्लभाय । लोमशाय । अलिगाय । लिङ्गेश्वराय । लिङ्गनादाय । लीलाकारिणे । ललम्बुसाय । लक्ष्मीवते । लोकविध्वंसिने । लकाराक्षरभूषणाय नमः । ९०० ॐ वामनाय नमः । वीरवीरेन्द्राय । वाचालाय । वाक्पतिप्रियाय । वाचामगोचराय । वान्ताय । वीणावेणुधराय । वनाय । वाग्भवाय । वालिशध्वंसिने । विद्यानायकनायकाय । वकारमातृकामौलये । शाम्भवेष्टप्रदाय । शुकाय । शशिने । शोभाकराय । शान्ताय । शान्तिकृते । शमनप्रियाय । शुभङ्कराय नमः । ९२० ॐ शुक्लवस्त्राय नमः । श्रीपतये । श्रीयुताय । श्रुताय । श्रुतिगम्याय । शरद्बीजमण्डिताय । शिष्टसेविताय । शिष्टाचाराय । शुभाचाराय । शेषाय । शेवालताडनाय । शिपिविष्टाय । शिबये । शुक्रसेव्याय । शाक्षरमातृकाय । षडाननाय । षट्करकाय । षोडशस्वरभूषिताय । षट्पदस्वनसन्तोषिने । षडाम्नायप्रवर्तकाय नमः । ९४० ॐ षड्रसास्वादसन्तुष्टाय नमः । षकाराक्षरमातृकाय । सूर्यभानवे । सूरभानवे । सूरिभानवे । सुखाकराय । समस्तदैत्यवंशघ्नाय । समस्तसुरसेविताय । समस्तसाधकेशानाय । समस्तकुलशेखराय । सुरसूर्याय । सुधासूर्याय । स्वःसूर्याय । साक्षरेश्वराय । हरित्सूर्याय । हरिद्भानवे । हविर्भुजे । हव्यवाहनाय । हालासूर्याय । होमसूर्याय नमः । ९६० ॐ हुतसूर्याय नमः । हरीश्वराय । ह्रांबीजसूर्याय । ह्रींसूर्याय । हकाराक्षरमातृकाय । ळंबीजमण्डिताय । सूर्याय । क्षोणीसूर्याय । क्षमापतये । क्षुत्सूर्याय । क्षान्तसूर्याय । ळङ्क्षःसूर्याय । सदाशिवाय । अकारसूर्याय । क्षःसूर्याय । सर्वसूर्याय । कृपानिधये । भूःसूर्याय । भुवःसूर्याय । स्वःसूर्याय नमः । ९८० ॐ सूर्यनायकाय नमः । ग्रहसूर्याय । ऋक्षसूर्याय । लग्नसूर्याय । महेश्वराय । राशिसूर्याय । योगसूर्याय । मन्त्रसूर्याय । मनूत्तमाय । तत्त्वसूर्याय । परासूर्याय । विष्णुसूर्याय । प्रतापवते । रुद्रसूर्याय । ब्रह्मसूर्याय । वीरसूर्याय । वरोत्तमाय । धर्मसूर्याय । कर्मसूर्याय । विश्वसूर्याय नमः । विनायकाय नमः । १००१ ॥ इति श्रीरुद्रयामले तन्त्रे श्रीदेवीरहस्ये सूर्यसहस्रनामावलिः समाप्ता ।