अक्षर आकार:

श्रीसूर्याष्टोत्तरशतनामस्तोत्रम्

shrI sUrya aShTottarashatanAma stotraM

श्रीसूर्याष्टोत्तरशतनामस्तोत्रम्

सूर्य बीज मन्त्र - ॐ ह्राँ ह्रीं ह्रौं सः सूर्याय नमः ॥ अरुणाय शरण्याय करुणारससिन्धवे । असमानबलायाऽर्तरक्षकाय नमो नमः ॥ १॥ आदित्यायाऽदिभूताय अखिलागमवेदिने । अच्युतायाऽखिलज्ञाय अनन्ताय नमो नमः ॥ २॥ इनाय विश्वरूपाय इज्यायैन्द्राय भानवे । इन्दिरामन्दिराप्ताय वन्दनीयाय ते नमः ॥ ३॥ ईशाय सुप्रसन्नाय सुशीलाय सुवर्चसे । वसुप्रदाय वसवे वासुदेवाय ते नमः ॥ ४॥ उज्ज्वलायोग्ररूपाय ऊर्ध्वगाय विवस्वते । उद्यत्किरणजालाय हृषीकेशाय ते नमः ॥ ५॥ ऊर्जस्वलाय वीराय निर्जराय जयाय च । ऊरुद्वयाभावरूपयुक्तसारथये नमः ॥ ६॥ ऋषिवन्द्याय रुग्घन्त्रे ऋक्षचक्रचराय च । ऋजुस्वभावचित्ताय नित्यस्तुत्याय ते नमः ॥ ७॥ ऋकारमातृकावर्णरूपायोज्ज्वलतेजसे । ऋक्षाधिनाथमित्राय पुष्कराक्षाय ते नमः ॥ ८॥ लुप्तदन्ताय शान्ताय कान्तिदाय घनाय च । कनत्कनकभूषाय खद्योताय ते नमः ॥ ९॥ लूनिताखिलदैत्याय सत्यानन्दस्वरूपिणे । अपवर्गप्रदायाऽर्तशरण्याय नमो नमः ॥ १०॥ एकाकिने भगवते सृष्टिस्थित्यन्तकारिणे । गुणात्मने घृणिभृते बृहते ब्रह्मणे नमः ॥ ११॥ ऐश्वर्यदाय शर्वाय हरिदश्वाय शौरये । दशदिक्सम्प्रकाशाय भक्तवश्याय ते नमः ॥ १२॥ ओजस्कराय जयिने जगदानन्दहेतवे । जन्ममृत्युजराव्याधिवर्जिताय नमो नमः ॥ १३॥ ओउन्नत्यपदसञ्चाररथस्थायात्मरूपिने । कमनीयकरायाऽब्जवल्लभाय नमो नमः ॥ १४॥ अन्तर्बहिःप्रकाशाय अचिन्त्यायाऽत्मरूपिणे । अच्युताय सुरेषाय परस्मैज्योतिषे नमः ॥ १५॥ अहस्कराय रवये हरये परमात्मने । तरुणाय वरेण्याय ग्रहाणाम्पतये नमः ॥ १६॥ ॐ नमो भास्करायाऽदिमध्यान्तरहिताय च । सौख्यप्रदाय सकलजगताम्पतये नमः ॥ १७॥ नमः सूर्याय कवये नमो नारायणाय च । नमो नमः परेशाय तेजोरूपाय ते नमः ॥ १८॥ ॐ श्रीं हिरण्यगर्भाय ॐ ह्रीं सम्पत्कराय च । ॐ ऐं इष्टार्थदायाऽनुप्रसन्नाय नमो नमः ॥ १९॥ श्रीमते श्रेयसे भक्तकोटिसौख्यप्रदायिने । निखिलागमवेद्याय नित्यानन्दाय ते नमः ॥ २०॥ यो मानवः सन्ततमर्कमर्चयन्पठेत्प्रभाते विमलेन चेतसा । इमान् नामानि च तस्य पुण्यमायुर्धनं धान्यमुपैत्ति नित्यम् ॥२१॥ इमं स्तवं देववरस्य कीर्तयेच्छ्रुणोति योऽयं सुमनाः समाहितः । स मुच्यते शोकदवाग्निसागराल्लभेत सर्वं मनसो यथेप्सितम् ॥ इति श्रीमदथर्वणरहस्ये सूर्याष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् । Provided by Manda Krishna shrikanth mandaksk at gmail.com