अक्षर आकार:

सूर्यार्यास्तोत्रम्

Suryaryastotra

सूर्यार्यास्तोत्रम्

श्री गणेशाय नमः ॥ शुकतुण्डच्छवि-सवितुश्चण्डरुचेः पुण्डरीकवनबन्धोः । मण्डलमुदितं वन्दे कुण्डलमाखण्डलाशायाः ॥ १॥ यस्योदयास्तसमये सुरमुकुटनिघृष्टचरणकमलोऽपि । कुरुतेञ्जलिं त्रिनेत्रः स जयति धाम्नां निधिः सूर्यः ॥ २॥ उदयाचलतिलकाय प्रणतोऽस्मि विवस्वते ग्रहेशाय । अम्बरचूडामणये दिग्वनिताकर्णपूराय ॥ ३॥ जयति जनानन्दकरः करनिकरनिरस्ततिमिरसङ्घातः । लोकालोकालोकः कमलारुणमण्डलः सूर्यः ॥ ४॥ प्रतिबोधितकमलवनः कृतघटनश्चक्रवाकमिथुनानाम् । दर्शितसमस्तभुवनः परहितनिरतो रविः सदा जयति ॥ ५॥ अपनयतु सकलकलिकृतमलपटलं सप्रतप्तकनकाभः । अरविन्दवृन्दविघटनपटुतरकिरणोत्करः सविता ॥ ६॥ उदयाद्रिचारुचामर हरितहयखुरपरिहितरेणुराग । हरितहय हरितपरिकर गगनाङ्गनदीपक नमस्तेऽस्तु ॥ ७॥ उदितवति त्वयि विकसति मुकुलीयति समस्तमस्तमितबिम्बे । न ह्यन्यस्मिन्दिनकर सकलं कमलायते भुवनम् ॥ ८॥ जयति रविरुदयसमये बालातपः कनकसन्निभो यस्य । कुसुमाञ्जलिरिव जलधौ तरन्ति रथसप्तयः सप्त ॥ ९॥ आर्याः साम्बपुरे सप्त आकाशात्पतिता भुवि । यस्य कण्ठे गृहे वापि न स लक्ष्म्या वियुज्यते ॥ १०॥ आर्याः सप्त सदा यस्तु सप्तम्यां सप्तधा जपेत् । तस्य गेहं च दीपं च पद्मा सत्यं न मुञ्चति ॥ ११॥ निधिरेश दरिद्राणां रोगिणां परमौषधम् । सिद्धिः सकलकार्याणां गाथेयं संसृता रवेः ॥ १२॥ इति श्रीयाज्ञवल्क्यविरचितं सूर्यार्यास्तोत्रं सम्पूर्णम् ।