अक्षर आकार:

नरसिंहपुराणे सूर्याष्टोत्तरशतनामस्तोत्रं विश्वकर्मकृत

Suryashtottarashatanamastotra by vishvakarma

नरसिंहपुराणे सूर्याष्टोत्तरशतनामस्तोत्रं विश्वकर्मकृत

भरद्वाज उवाच -- यैः स्तुतो नामभिस्तेन सविता विश्वकर्मणा । तान्यहं श्रोतुमिच्छामि वद सूत विवस्वतः ॥ १॥ सूत उवाच -- तानि मे श‍ृणु नामानि यैः स्तुतो विश्वकर्मणा । सविता तानि वक्ष्यामि सर्वपापहराणि ते ॥ २॥ आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् । तिमिरोन्मथनः शम्भुस्त्वष्टा मार्तण्ड आशुगः ॥ ३॥ हिरण्यगर्भः कपिलस्तपनो भास्करो रविः । अग्निगर्भोऽदितेः पुत्रः शम्भुस्तिमिरनाशनः ॥ ४॥ अंशुमानंशुमाली च तमोघ्नस्तेजसां निधिः । आतपी मण्डली मृत्युः कपिलः सर्वतापनः ॥ ५॥ हरिर्विश्वो महातेजाः सर्वरत्नप्रभाकरः । अंशुमाली तिमिरहा ऋग्यजुस्सामभावितः ॥ ६॥ प्राणाविष्करणो मित्रः सुप्रदीपो मनोजवः । यज्ञेशो गोपतिः श्रीमान् भूतज्ञः क्लेशनाशनः ॥ ७॥ अमित्रहा शिवो हंसो नायकः प्रियदर्शनः । शुद्धो विरोचनः केशी सहस्रांशुः प्रतर्दनः ॥ ८॥ धर्मरश्मिः पतंगश्च विशालो विश्वसंस्तुतः । दुर्विज्ञेयगतिः शूरस्तेजोराशिर्महायशाः ॥ ९॥ भ्राजिष्णुर्ज्योतिषामीशो विजिष्णुर्विश्वभावनः । प्रभविष्णुः प्रकाशात्मा ज्ञानराशिः प्रभाकरः ॥ १०॥ आदित्यो विश्वदृग् यज्ञकर्ता नेता यशस्करः । विमलो वीर्यवानीशो योगज्ञो योगभावनः ॥ ११॥ अमृतात्मा शिवो नित्यो वरेण्यो वरदः प्रभुः । धनदः प्राणदः श्रेष्ठः कामदः कामरूपधृक् ॥ १२॥ तरणिः शाश्वतः शास्ता शास्त्रज्ञस्तपनः शयः । वेदगर्भो विभुर्वीरः शान्तः सावित्रिवल्लभः ॥ १३॥ ध्येयो विश्वेश्वरो भर्ता लोकनाथो महेश्वरः । महेन्द्रो वरुणो धाता विष्णुरग्निर्दिवाकरः ॥ १४॥ एतैस्तु नामभिः सूर्यः स्तुतस्तेन महात्मना । उवाच विश्वकर्माणं प्रसन्नो भगवान् रविः ॥ १५॥ भ्रमिमारोप्य मामत्र मण्डलं मम शातय । त्वत्बुद्धिस्थं मया ज्ञातमेवमौष्ण्यं शमं व्रजेत् ॥ १६॥ इत्युक्तो विश्वकर्मा च तथा स कृतवान् द्विज । शान्तोष्णः सविता तस्य दुहितुर्विश्वकर्मणः ॥ १७॥ संज्ञायाश्चाभवद्विप्र भानुस्त्वष्टारमब्रवीत् । त्वया यस्मात् स्तुतोऽहं वै नाम्नामष्टशतेन च ॥ १८॥ वरं वृणीष्व तस्मात् त्वं वरदोऽहं तवानघ । इत्युक्तो भानुना सोऽथ विश्वकर्माब्रवीदिदम् ॥ १९॥ वरदो यदि मे देव वरमेतं प्रयच्छ मे । एतैस्तु नामभिर्यस्त्वां नरः स्तोष्यति नित्यशः ॥ २०॥ तस्य पापक्षयं देव कुरु भक्तस्य भास्कर ॥ २१॥ तेनैवमुक्तो दिनकृत् तथेति त्वष्टारमुक्त्वा विरराम भास्करः । संज्ञां विशङ्कां रविमण्डलस्थितां कृत्वा जगामाथ रविं प्रसाद्य ॥ २२॥ इति श्रीनरसिंहपुराणे एकोनविंशोऽध्यायः ॥ १९॥ From Narasimhapurana adhyAya 19 https://archive.org/details/NarsimhaPuranGitapress