अक्षर आकार:

श्रीसूर्याष्टोत्तरशतनामावलिः

shrI sUryAShTottarashatanAmAvaliH

श्रीसूर्याष्टोत्तरशतनामावलिः

श्रीगणेशाय नमः । ॐ सूर्याय नमः । अर्यम्णे । भगाय । त्वष्ट्रे । पूष्णे । अर्काय । सवित्रे । रवये । गभस्तिमते । अजाय । कालाय । मृत्यवे । धात्रे । प्रभाकराय । पृथिव्यै । तेजसे । खाय । वायवे । परायणाय । सोमाय नमः । २० ॐ बृहस्पतये नमः । शुक्राय । बुधाय । अङ्गारकाय । इन्द्राय । विवस्वते । दीप्तांशवे । शुचये । शौरये । शनैश्चराय । ब्रह्मणे । विष्णवे । रुद्राय । स्कन्दाय । वैश्रवणाय । यमाय । वैद्युताय । जाठराय । अग्नये । ऐन्धनाय नमः । ४० ॐ तेजसां पतये नमः । धर्मध्वजाय । वेदकर्त्रे । वेदाङ्गाय । वेदवाहनाय । कृताय । त्रेत्रे । द्वापराय । कलये । सर्वामराश्रयाय । कलाकाष्ठाय । मुहूर्ताय । पक्षाय । मासाय । ऋतवे । संवत्सरकराय । अश्वत्थाय । कालचक्राय । विभावसवे । पुरुषाय नमः । ६० ॐ शाश्वताय नमः । योगिने । व्यक्ताव्यक्ताय । सनातनाय । लोकाध्यक्षाय । प्रजाध्यक्षाय । विश्वकर्मणे । तमोनुदाय । कालाध्यक्षाय । वरुणाय । सागराय । अंशवे । जीमूताय । जीवनाय । अरिघ्ने । भूताश्रयाय । भूतपतये । सर्वलोकनमस्कृताय । स्रष्ट्रे । संवर्तकाय नमः । ८० ॐ वह्नये नमः । सर्वस्यादये । अलोलुपाय । अनन्ताय । कपिलाय । भानवे । कामदाय । सर्वतोमुखाय । जयाय । विशालाय । वरदाय । सर्वधातुनिषेचित्रे (सर्वभूतनिषेविताय) । मनसे । सुपर्णाय । भूतादये । शीघ्रगाय । प्राणधारणाय । धन्वन्तरये । धूमकेतवे । आदिदेवाय नमः । १०० ॐ अदितेः सुताय नमः । द्वादशात्मने । अरविन्दाक्षाय । पित्रे । मात्रे । पितामहाय । स्वर्गद्वाराय । प्रजाद्वाराय । मोक्षद्वाराय । त्रिविष्टपाय । देहकर्त्रे । प्रशान्तात्मने । विश्वात्मने । विश्वतोमुखाय । चराचरात्मने । सूक्ष्मात्मने । मैत्रेणवपुषान्विताय नमः । ११७ इति श्रीमहाभारते युधिष्ठिरधौम्यसंवादे आरण्यकपर्वणि सूर्य (सूर्यवरद) अष्टोत्तरशतनामावलिः समाप्ता ।