अक्षर आकार:

सूर्याष्टकम् ३

Suryashtakam 3

सूर्याष्टकम् ३

यस्योदयेनाब्जवनं प्रसन्नं प्रीतो भवत्याशु रथाङ्गवर्गः । गावो मृगास्सम्मुदिताश्चरन्ति मार्तण्डमाकाशमणिं तमीडे ॥ १॥ आशाः समस्ता मुदिता भवन्ति गाढं तमो द्यौर्विजहाति विष्वक् । ग्राम्या जनाः कर्मणि संप्रवृत्ताः मार्त्तण्डमाकाशमणिं तमीडे ॥ २॥ स्वाहा-स्वधाकारर्रवं द्विजेन्द्राः कुर्वन्ति कुत्रापि च वेदपाठम् । पान्था मुदा सर्वदिशो व्रजन्ति मार्त्तण्डमाकाशमणिं तमीडे ॥ ३॥ देवालये क्वापि नराश्च नार्यः पुष्पादिभिर्देववरं यजन्ति । गायन्ति नृत्यन्ति नमन्ति भक्त्या मार्त्तण्डमाकाशमणिं तमीडे ॥ ४॥ छात्राः सतीर्थ्यैरथवा वयस्यैः सार्धं हसन्तो निकटं गुरूणाम् । गच्छन्ति विद्याध्ययनाय शीघ्रं मार्त्तण्डमाकाशमणिं तमीडे ॥ ५॥ शीतार्तदेहा मनुजाः प्रसन्नाः कुर्वन्ति कार्याणि समीहितानि । विद्यां यथा प्राप्य विदः प्रभग्ना मार्त्ताण्डमाकाशमणिं तमीडे ॥ ६॥ येनैहिकामुष्मिक -कार्यजातं देवादिसन्तोषकरं विभाति । योऽसौ विवस्वान् सकलार्थदाता मार्त्ताण्डमाकाशमणिं तमीडे ॥ ७॥ ब्रह्मेश-हर्यादि-समस्तदवाः श्रुता हि नो चाक्षुषगोचरास्ते । साक्षादसौ दृष्टिपुरागतो यो मार्त्ताण्डमाकाशमणिं तमीडे ॥ ८॥ सूर्याष्टकमिदं पुण्यं ध्यात्वा सूर्यं पठेद्यदि । रोगाः सर्वे विनश्यन्ति नूनं सूर्यप्रसादतः ॥ ९॥ इति श्रीमदनन्तानन्दसरस्वतीविरचितं श्रीसूर्याष्टकं सम्पूर्णम् ।