अक्षर आकार:

सूर्याष्टकम् २

sUryAShTakam 2

सूर्याष्टकम् २

श्रीगणेशाय नमः । प्रभाते यस्मिन्नभ्युदितसमये कर्मसु नृणां प्रवर्तेद्वै चेतो गतिरपि च शीतापहरणम् । गतो मैत्र्यं पृथ्वीसुरकुलपतेर्यश्च तमहं नमामि श्रीसूर्यं तिमिरहरणं शान्तशरणम् ॥ १॥ त्रिनेत्रोऽप्यञ्जल्या सुरमुकुटसंवृष्टचरणे बलिं नीत्वा नित्यं स्तुतिमुदितकालास्तसमये । निधानं यस्यायं कुरुत इति धाम्नामधिपति नमामि श्रीसूर्यं तिमिरहरणं शान्तशरणम् ॥ २॥ मृगाङ्के मूर्तित्वं ह्यमरगण भर्ताकृत इति नृणां वर्त्मात्मात्मोक्षिणितविदुषां यश्च यजताम् । क्रतुर्लोकानां यो लयभरभवेषुप्रभुरयं नमामि श्रीसूर्यं तिमिरहरणं शान्तशरणम् ॥ ३॥ दिशः खं कालो भूरुदधिरचलं चाक्षुषमिदं विभागो येनायं निखिलमहसा दीपयति तान् । स्वयं शुद्धं संविन्निरतिशयमानन्दमजरं नमामि श्रीसूर्यं तिमिरहरणं शान्तशरणम् ॥ ४॥ वृषात्पञ्चस्वेत्यौढयति दिनमानन्दगमनस्- तथा वृद्धिं रात्रैः प्रकटयति कीटाज्जवगतिः । तुले मेषे यातो रचयति समानं दिननिशं नमामि श्रीसूर्यं तिमिरहरणं शान्तशरणम् ॥ ५॥ वहन्ते यं ह्यश्वा अरुणविनि युक्ताः प्रमुदितास्- त्रयीरूपं साक्षाद्दधति च रथं मुक्तिसदनम् । नजीवानां यं वै विषयति मनो वागवसरो नमामि श्रीसूर्यं तिमिरहरणं शान्तशरणम् ॥ ६॥ तथा ब्रह्मा नित्यं मुनिजनयुता यस्य पुरतश्- चलन्ते नृत्यन्तोऽयुतमुत रसेनानुगुणितं । निबध्नन्ती नागा रथमपि च नागायुतबला नमामि श्रीसूर्यं तिमिरहरणं शान्तशरणम् ॥ ७॥ प्रभाते ब्रह्माणं शिवतनुभृतं मध्यदिवसे तथा सायं विष्णुं जगति हितकारी सुखकरम् । सदा तेजोराशिं त्रिविवमथ पापौघशमनं नमामि श्रीसूर्यं तिमिरहरणं शान्तशरणम् ॥ ८॥ मतं शास्त्राणां यत्तदनु रघुनाथेन रचितं शुभं चुंराग्रामे तिमिरहरसूर्याष्टकमिदम् । त्रिसन्ध्यायां नित्यं पठति मनुजोऽनन्यगतिमांश्- चतुर्वर्गप्राप्तौ प्रभवति सदा तस्य विजयम् ॥ ९॥ नन्देन्द्वङ्क्क्षितावब्दे (१९१९) मार्गमासे शुभे दले । सूर्याष्टकमिदं प्रोक्तं दशम्यां रविवासरे ॥ १०॥ इति श्रीपण्डितरघुनाथशर्मणा विरचितं श्रीसूर्याष्टकं सम्पूर्णम् ।