अक्षर आकार:

राहुस्तोत्रम्

rAhustotraM

राहुस्तोत्रम्

अथ राहुस्तोत्रप्रारम्भः । ॐ अस्य श्री राहुस्तोत्रमहामन्त्रस्य वामदेव ऋषिः । अनुष्टुप्च्छन्दः । राहुर्देवता । राहुप्रसादसिद्ध्यर्थे जपे विनियोगः । काश्यप उवाच । श‍ृण्वन्तु मुनयः सर्वे राहुप्रीतिकरं स्तवम् । सर्वरोगप्रशमनं विषभीतिहरं परम् ॥ १॥ सर्वसम्पत्करं चैव गुह्यमेतदनुत्तमम् । आदरेण प्रवक्ष्यामि श्रूयतामवधानतः ॥ २॥ राहुः सूर्यरिपुश्चैव विषज्वाली भयाननः । सुधांशुवैरिः श्यामात्मा विष्णुचक्राहितो बली ॥ ३॥ भुजगेशस्तीक्ष्णदंष्ट्रः क्रूरकर्मा ग्रहाधिपः । द्वादशैतानि नामानि नित्यं यो नियतः पठेत् ॥ ४॥ जप्त्वा तु प्रतिमां रंयां सीसजां माषसुस्थिताम् । नीलैर्गन्धाक्षतैः पुष्पैः भक्त्या सम्पूज्य यत्नतः ॥ ५॥ विधिना वह्निमादाय दूर्वान्नाज्याहुतीः क्रमात्। तन्मन्त्रेणैव जुहुयाद्यावदष्टोत्तरं शतम् ॥ ६॥ हुत्वैवं भक्तिमान् राहुं प्रार्थयेद्ग्रहनायकम् । सर्वापद्विनिवृत्यर्थं प्राञ्जलिः प्रणतो नरः ॥ ७\ राहो कराळवदन रविचन्द्रभयङ्कर । तमोरूप नमस्तुभ्यं प्रसादं कुरु सर्वदा ॥ ८॥ सिम्हिकासुत सूर्यारे सिद्धगन्धर्वपूजित । सिंहवाह नमस्तुभ्यं सर्वान्रोगान् निवारय ॥ ९॥ कृपाणफलकाहस्त त्रिशूलिन् वरदायक । गरळातिगराळास्य गदान्मे नाशयाखिलान् ॥ १०॥ स्वर्भानो सर्पवदन सुधाकरविमर्दन । सुरासुरवरस्तुत्य सर्वदा त्वं प्रसीद मे ॥ ११॥ इति सम्प्रार्थितो राहुः दुष्टस्थानगतोऽपि वा । सुप्रीतो जायते तस्य सर्वान् रोगान् विनाशयेत् ॥ १२॥ विषान्न जायते भीतिः महारोगस्य का कथा । सर्वान् कामानवाप्नोति नष्टं राज्यमवाप्नुयात् ॥ १३॥ एवं पठेदनुदिनं स्तवराजमेतं मर्त्यः प्रसन्न हृदयो विजितेन्द्रियो यः । आरोग्यमायुरतुलं लभते सुपुत्रान्सर्वे ग्रहा विषमगाः सुरतिप्रसन्नाः ॥ १४॥ इति राहुस्तोत्रं सम्पूर्णम् ।